________________
॥१६२॥
उत्तराप्ययनसूत्रम् मूलम्-आउक्कायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईयं, समयं गोयम मा पमायए ॥६॥ मूलम्-तेउकायमइगओ, उक्कोसंजीवो उसंवसे। कालं संखाईअं, समयं गोअम मा पमायए ॥७॥ मूलम्-वाउकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईअं, समयं गोयम मा पमायए ॥८॥
व्याख्या-इदं सूत्रत्रयं पृथ्वीसूत्रवव्याख्येयम् ॥ ६ ॥७॥८॥ मूलम्-वणस्सइकायमइगओ,उकोसं जीवो उ संवसे।कालमणंतं दुरंतं,समयं गोयम मा पमायए ॥९॥
व्याख्या-इदमपि प्रागवत् , नवरं-अनन्तं अनन्तोत्सर्पिण्यवसर्पिणीरूपं, साधारणापेक्षश्चैतत् । दुष्टः अन्तोऽस्खेति दुरन्तस्तं,एतदपि साधारणापेक्षमेव । ते खत्यन्ताल्पबोधत्वेन तत उद्धृत्ता अपि न प्रायो विशिष्टं मानुषादिभवमामुवन्ति ९॥ मू-बेइंदिअकायमइगओ, उक्कोसंजीवो उसंवसे। कालं संखिज्जसपिण,समयं गोयम मा पमायए १० तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे।कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ११ चउरिंदियकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखिजसण्णिअं, समयं गोयम मा पमायए १२ व्याख्या-इदमपि सूत्रत्रयं स्पष्टं,नवरं-कालं संखिजसण्णिअंति'संख्येयसंज्ञितं संख्यातवर्षसहस्रात्मकम् ।१०।११।१२। मूलम्-पंचिंदियकायमइगओ, उक्कोसंजीवो उसंवसे। सत्तट्ठभवग्गहणे, समयं गोयममा पमायए १३
व्याख्या–पञ्चेन्द्रिया उत्तरत्र देवनारकयोरभिधास्यमानत्वान्मनुष्यत्वस्य च दुर्लभतया प्रक्रान्तत्वात्तिर्यञ्च एवेह गृह्यन्ते, 'सत्तट्टत्ति' सप्त वा अष्ट वा सप्ताष्टानि भवग्रहणानि जन्मोपादानानि, तत्र सप्त भवाः संख्यातायुषि, अष्टमस्त्वसंख्यातायुषीति ॥१३॥ मूलम्-देवे नेरइए अइगओ,उक्कोसं जीवो उ संवसे। इक्विकभवग्गहणे,समयं गोयम मापमायए १४
व्याख्या-देवान्नैरयिकांश्चातिगत उत्कर्षतो जीवः संवसेत् एकैकभवग्रहणं, अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः ॥ १४ ॥ उक्तमेवार्थमुपसंहरन्नाहमूलम्-एवं भवसंसारे, संसरइ सुभासुभेहिं कम्महिं।जीवोपमायबहुलो,समयं गोयम मा पमायए १५
व्याख्या-एवमुक्तन्यायेन भवास्तिर्यगादिजन्मान्येव संसारो भवसंसारस्तस्मिन् , संसरति पर्यटति, शुभाशुभैः कर्मभिः पृथ्वीकायादिभवहेतुभिः, जीवः प्रमादबहुलोऽतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ॥ १५ ॥ इत्थं नृत्वदौर्लभ्यमुक्तमथ तदवाप्तावपि उत्तरोत्तरगुणा दुर्लभा एवेति सूत्रपञ्चकेनाहमू-लद्भूणवि माणुसत्तणं,आरिअत्तं पुणरवि दुल्लहाबहवे दसुआ मिलक्खुआ,समयं गोयम मा पमायए१६
व्याख्या-लब्ध्वापि कथंश्चिन्मानुषत्वं, आर्यत्वं, मगधाचार्यदेशोत्पत्तिरूपं पुनरपि भूयोपि दुर्लभं । कृत एवमित्साह-यतो बहवो दस्यवो देशप्रत्यन्तवासिनश्चौराः, 'मिलक्खुअत्ति' म्लेच्छा अव्यक्तवाचो यदुक्तं आर्य वधार्यते, ते च शकयवनादिदेशोद्भवाः । येषु धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिज्ञानविकलेषु पशुप्रायेष्ववाप्यापि मानुष्यं जन्तुर्न कञ्चिदप्यर्थ साधयतीति । अतः समयमपीत्यादि प्राग्वत् ॥ १६ ॥
मूलम् लभ्रूणवि आरिअत्तणं, अहीणपंचिंदिअया हु दुल्लहा ।
विगलिंदिअया हु दीसइ, समय गोयम मा पमायए ॥ १७ ॥ व्याख्या-इत्थमतिदुर्लभमप्यार्यत्वं लब्ध्वा अहीनपञ्चेन्द्रियता हुरवधारणे भिन्नक्रमश्च ततो दुर्लमैव, कुता ? इलाह-विकलानि रोगादिभिरुपहतानीन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, हुरितिनिपातो निपातानामनेकार्थत्वाबाहुल्यवाचकस्ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते, इत्यहीनपञ्चेन्द्रियता दुर्लभैवेति। समयमित्यादि प्राग्वत् ॥१७॥
मूलम्-अहीणपंचंदिअत्तंपि से लहे, उत्तमधम्मसुई हु दुल्लहा ।
कुतित्थिनिसेवए जणे, समयं गोयम मा पमायए ॥ १८ ॥