________________
उचराप्ययनक्षम्
॥१६॥ गणानां दिनगणाविनामावित्वाद्रात्रिंदिवसमूहानां, अत्यये अतिक्रमे 'एवंति' एवंप्रकारं मनुष्याणामुपलक्षणत्वात्सर्वजीवानां जीवितमायुः, तदपि हि रात्रिदिनगणानामतिक्रमे यथास्थित्या अध्यवसायादिकृतोपक्रमेण वा अश्यतीत्येवमुच्यते । यतश्चैवमतः समयमपि आस्तामावलिकादि, अपेर्गम्यमानत्वात् , हे गौतम ! हे इन्द्रभूते। मा प्रमादीर्मा प्रमादं कृथाः, शेषशिष्योपलक्षणञ्चेह गौतमग्रहणं, सर्वेषामनुशासनार्थत्वादस्य । अत्र पाण्डुरकपदाक्षिसं यौवनस्याप्यनित्यत्वं प्रकटयितुं नियुक्तिकारो गाथात्रयमाह-“परिअट्टिअलायण्णं, चलंतसंधि मुअंतबिंटागं ॥ पत्तं वसणप्पत्तं, कालप्पत्तं भणति गाहं ॥१॥" परिवर्तितं कालपरिणामादन्यथाकृतं लावण्यं सौकुमार्यादिरूपमस्येति परिवर्तितलावण्यं, तथा चलत्सन्धि, अत एव 'मुअंतबिंटागंति' मुञ्चन्तं त्यजन्तं यस्य तत्तथा पतदित्यर्थः । पत्रं पर्ण, व्यसनमापदं प्राप्त व्यसनप्राप्त, कालं प्रक्रमात्पतनप्रस्ताव प्रासं कालप्राप्त, भणति गाथां पल्लवान् प्रतीति शेषः ॥ १॥ तामेवाह-"जह तुम्हे तह अम्हे, तुम्भे वि अ होहिआ जहा अम्हे ॥ अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं ॥२॥" यथेति सादृश्ये ततो यथा यूयं सम्प्रति किसलयभावं प्राप्ताः स्निग्धत्वादिगुणैर्गर्वमुद्वहथ अस्मांश्चोपहसथ तथा वयमप्यतीतदशायामभवाम, तथा यूयमपि भविष्यथ यथा वयं विवर्णविच्छायतयोपसहनीयानीति भावः । 'अप्पाहेइत्ति' पुत्रस्य पितेव हितमुपदिशति, पतत्पाण्डुपत्रं किसलयानां ॥ २॥ ननु किमेवं पाण्डुपत्रपल्लवानामुल्लापः सम्भवति ? येनैवमुच्यत इत्याह-"नवि अत्थि नवि अ होही उलावो किसलपंडुपत्ताणं ॥ उवमा खलु एस कया, भविअजणविबोहणटाए ॥ ३॥" स्पष्टा । यथा चेह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथान्योपि यौवनगर्वितोऽनुशासनीयः। “तथा चोक्तं वाचकमुख्यैः-"परिभवसि किमिति लोकं, जरसा परिजर्जरीकृतशरीरम् ॥ अचिरात्त्वमपि भविष्यसि, यौवनगर्व किमुद्वहसि ॥१॥" तदेवं जीवितयौवनयोरनित्यतां ज्ञात्वा प्रमादो न विधेय इति सूत्रार्थः ॥ १॥ भूयोप्यायुष एवानित्यत्वमाह
मूलम्-कुसग्गे जह ओसबिंदुए, थोवं चिट्टइ लंबमाणए।
एव मणुआण जीविअं, समयं गोयम मा पमायए ॥ २॥ व्याख्या-कुशाग्रे यथा अवश्यायबिन्दुकः शरत्कालभाविश्लक्ष्णवर्षबिन्दुः, खार्थे कप्रत्ययः, स्तोकमल्पं कालमिति शेषः, तिष्ठति लम्बमानको मनाग् निपतन् । बद्धास्पदो हि कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवमनुजानामीत्यादि प्राग्वदिति सूत्रार्थः ॥ २ ॥ उक्तार्थमुपसंहरन्नुपदेशमाहमू-इइ इत्तरिअंमि आउए, जीविअए बहुपञ्चवायए। विहुणाहि रयं पुरेकडं,समयं गोयम मा पमायए ३
व्याख्या-इत्युक्तन्यायेन इत्वरे खल्पकालभाविनि “एति उपक्रमहेतुभिरनपवर्त्यतया यथावद्धं तथैवानुभवनीयतां गच्छतीति आयुः" तच्चैवं निरुपक्रममेव तस्मिन् , तथा अनुकम्पितं जीवितं जीवितकं, च शब्दस्य गम्यत्वातसिंच, अर्थात् सोपक्रमायुषि, बहवः प्रभूताः प्रत्यपाया नाशहेतवोऽध्यवसायादयो यस्मिंस्तत्तथा तस्मिन् । अनेन चानुकम्प्यत्वे हेतुः सूचितः, एवञ्चोक्तरूपद्रुमपत्रदृष्टान्तजलबिन्दुदृष्टान्ताभ्यां मनुजायुर्निरुपक्रमं सोपमं च तुच्छमित्यतोस्थानित्यतां ज्ञात्वा 'विहुणाहित्ति' विधुनीहि जीवात् पृथकुरु, रजः कर्म, 'पुरेकडंति' पुरा तत्कालापेक्षया पूर्व कृतं विहितं तत् विधुननोपायमाह-समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३॥ न च पुनर्तृत्वावाप्ती धर्मोधमा करिष्यत इति ध्येयं, यतः
मूलम्-दुलहे खलु माणुसे भवे, चिरकालेणवि सबपाणिणं ।
. गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ॥४॥ व्याख्या-दुर्लभो दुष्प्रापः खलुर्विशेषणे, अपुण्यानामिति विशेषयति, मानुषो मनुष्यसम्बन्धीभवो जन्म, घिरकालेनापि प्रभूतकालेनापि, आस्तां खल्पकालेनेत्यपिशब्दार्थः, सर्वप्राणिनां सर्वजीवानां । कुत इत्याह-गाढा विनाशयितुमशक्याः, च इति यस्मात् , विपाका उदयाः कर्मणां नरगतिविघातिप्रकृतिरूपाणां, यत एवमतः समयमपीसादि प्राग्वदिति सूत्रार्थः ॥ ४ ॥ कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाहमूलम्-पुढविकायमइगओ, उक्कोस जीवो उ संवसे ।कालं संखाईयं, समयं गोयम मा पमायए॥५॥
व्याख्या-पृथिवीकायमतिगतः प्राप्तः 'उकोसंति' उत्कर्षतो जीवः, तुः पूरणे, संवसेत्तद्रूपतयैवावतिष्ठते, कालं संस्पातीतं असंख्पेयोत्सर्पिण्यवसर्पिणीरूपं, अतः समयमपीत्यादि प्राग्वत् ॥५॥