________________
॥१६॥
उत्तराप्ययनसूत्रम् मानिको वज्र-खामिजीवस्तदा मुदा ॥ सम्यक्त्वं प्राप तं चान्ये, भापन्ते जृम्भकामरम् ॥ १२३ ॥ स च पञ्चशती. मानं, तदध्ययनमग्रहीत् ॥ नत्वा च गणिनं पुण्या-शयः स्वाश्रयमाश्रयत् ॥ १२४ ॥ प्रभाते च गणी नत्वा, जिनेन्द्रानुत्तरन् गिरेः ॥ प्रोचे तैम्तापसस्त्वं नो, गुरुः शिष्याश्च ते वयम् ॥ १२५ ॥ गौतमः माह युष्माक-मस्माकं च गुरुर्जिनः ॥ ते प्रोचुः किमु युप्माक-मप्यन्यो विद्यते गुरुः ? ॥ १२६ ॥ गणी जगाद सर्वज्ञः, सुरासुरनमस्कृतः ॥ जितरागो जयति मे, गुरुवीरो जगद्गुरुः ।। १२७॥ तदाकण्य प्रमुदिता-स्ते सर्वे तापसोत्तमाः ॥ देवार्पितयति वेपाः, प्राजजन् गौतमान्तिके ॥ १२८ ॥ तैश्च साधं चलन् भिक्षा-काले जातेथ तान् गणी ॥ किं भोजनं युष्मदर्थमानयामीति पृष्टवान् ? ॥ १२९ ॥ प्राज्यैः पुण्यगुरुरसौ, प्राप्तो वाञ्छितदायकः ॥ तदद्य हृद्यैरशनै-स्तर्पयामः क्षुधानलम ! ॥१३०॥ इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः ॥ परमात्मन् ! भवतु नः, परमानेन पारणम् ॥१३॥ ततो गतो गणी पार्श्व-ग्रामे केनापि भक्तितः ॥ खण्डाज्यपायसैः प्राज्यैः, प्रासुकैः प्रत्यलम्भ्यत ॥ १३२ ॥ पतद्वहस्तदापूर्ण-स्तत्पाणी दिद्युते तदा ॥ पूर्णेन्दुरिव तद्वक्र-लीलां शिक्षितुमागतः ! ॥ १३३ ॥ अथायान्तं करस्थैकपात्रं तं प्रेक्ष्य साधवः ॥ इति ते चिन्तयन्नूनं, पश्चादेष्यति पायसम् ॥ १३४ ॥ इयता त्वमुना नो नो, भावीनि तिलकान्यपि ॥ यद्वाचिन्त्यप्रभावेस्मिन् , कृतं चिन्तनयानया॥ १३५ ॥ प्रभुस्त्वागत्य विधिव-त्परिपाट्या निवेश्य तान् ॥ अभोजयद्यथाकामं, पायसं परिवपयन् !॥ १३६ ॥ अक्षीणमहानसया, लब्ध्या तत्पात्रसंस्थितम् ॥ नाक्षयत्पायसं ताव-दपि वा रिवोदकम् ॥ १३७ ॥ एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् ॥ इति दध्यात्रहो भाग्यमस्माक मुदितोदितम् ! ॥१३८॥ आश्रयं सर्वलब्धीना-मोपधीनाभिवाद्रिराट् ॥प्रवर्तकः सन्मार्गाणां, तटिनीनामिवाम्वुदः ॥ १३९ ॥ प्रशास्ता शस्तशास्त्राणां, दिग्देशानामिवार्यमा ॥ यशोभिश्च महोभिश्च, न्यञ्चयंश्चन्द्रभास्करौ ॥ १४०॥ सिद्धिपुर्याः सार्थवाहो, लोकोत्तरगुणाकरः ॥ यदयं मिलितः स्वामी, कृपारसमहोदधिः ॥ १४१ ॥ [ त्रिभिर्विशेपकम् ] किञ्च प्रसादादस्यैव, लब्धो बोधिः मुदुर्लभः ॥ जगचिन्तामणिः श्रीमान् , वीरस्वामी च नंस्यते ॥ १४२ ॥ दिदानी भवाम्भोधि-रस्माभिस्तीण एव हि ॥ व्याप्तो जन्मजरारोग-मरणादिजलोमिभिः ॥१४३ ॥ इत्यादि ध्यानमाहात्म्या-द्भाना एव ते क्षणात् ॥ सौहित्यमिव सम्प्रापुः, केवलज्ञानमुज्ज्वलम्॥१४४॥ अथ सर्वेषु तप्तेष गणेशो बुभुजे स्वयम् ॥ तान् विस्मितान् सहादाय, भूयोपि प्राचलत्पुरः ॥ १४५ ॥ क्रमात्समवसरण-समीपभुवमीयुषाम् ॥ दिन्नादीनां प्रातिहार्य-लक्ष्मीमाप्तस्य पश्यताम् ॥ १४६ ॥ एकोत्तरपञ्चशती-मितानां पष्ठकारिणाम् ॥ उत्पेदे केवलज्ञानं, पूर्वोक्तध्यानयोगतः ॥ १४७ ॥ [ युग्मम् ] तावतामेव कोडिन्न-प्रमुखानां तु तत्क्षणम् ॥ सर्व पश्यतां जज्ञे, पञ्चमज्ञानसङ्गमः ॥ १४८ ॥ अथ प्रदक्षिणीचक्रे, तैवृतो गणभृजिनम् ॥ ग्रहबजैः परिवृतः, सुमेरुमिव चन्द्रमाः॥ १४९ ॥ तांश्चैवमब्रवीद्वीक्ष्य, ब्रजतो जिनपर्पदि ॥ भो भो ! यूयमिहायात, नमत त्रिजगद्गुरुम ॥ १५० ॥ जिनान्माऽऽशातयेत्युक्त-स्ततो भगवता गणी ॥ मिथ्यादुष्कृतपूर्व तान् , क्षमयित्वेत्यचिन्तयत् ॥ १५१॥ गुरुकर्मा ह्यहं नास्मिन् , भवे प्राप्स्यामि निर्वृतिम् ॥ अमी मद्दीक्षिता धन्या-स्तत्कालोत्पन्नकेवलाः ॥ १५२ ॥ कुर्वाणमेवमधृति-मिन्द्रभूतिगणाधिपम् ॥ इति माह महावीर-खामी विश्वकवत्सलः ॥ १५३॥ अष्टापदात्सिद्धिरिति, किं ग्राह्यं दैवतं वचः ॥ यद्वा जिनानामायुष्मन् !, जिनानामिति सोप्यवक् ॥ १५४ ॥ प्रभुः स्माहाधृति तन्मा-कार्षीः स्नेहा यदङ्गिनाम् ॥ भवन्ति सुण्ठद्विदल-चर्मोर्णाकटसन्निभाः ॥ १५५ ॥ चिरन्तनात्परिचयात् , तवोर्णाकटसन्निभः ॥ प्रणयो वर्त्ततेस्मासु, प्राप्यते तन्न केवलम् ॥ १५६ ॥ यो हि वित्तवधूज्ञाति-रागत्यागनिबन्धनम् ॥ रागोहद्गुरुधर्मादौ, प्रशस्तः कथितो जिनैः ॥ १५७ ॥ सोप्यायुष्मन् ! यथाख्यातं, प्रतिबध्नाति संयमम् ॥ रविं विना दिनमिव, तं विना नहि केवलम् ॥ १५८ ॥ गते त्वस्मदते रागे, ध्रुवं ते भावि केवलम् ॥ आवामितध्युतौ तुल्यौ, भविष्यावो धृतिं कुरु ॥ १५९ ॥ इत्थमुदीर्य तदा हितशिक्षा, तस्य मुनिप्रकरस्य च दातुं ॥ अध्ययनं द्रुमपत्रकसंज्ञं, स्माह जिनो जगतीहितमेतत् ॥ १६० ॥ इत्युक्ता प्रस्तावना, साम्प्रतं सूत्रमनुस्रियते, तच्चेदम्
मूलम्-दुमपत्तए पंडुअए जहा, निवडइ राइगणाणमच्चए ।
एवं मणुआण जीवि, समयं गोअम ! मा पमायए ॥१॥ व्याख्या-द्रुमो वृक्षस्तस्य पत्रं पर्ण द्रुमपत्रं तदेव द्रुमपत्रकं, 'पंडुअएत्ति' आपत्वात् पाण्डुरकं कालपरिणामात्तथाविधरोगादेर्वा जातश्वेतभावं, यथा येन प्रकारेण निपतति शिथिलवृन्तवन्धनत्वाद्भश्यति । 'राइगणाणंति' रात्रि