________________
उच्तराष्ययनसूत्रम्
॥ १५९ ॥
अथान्यदा तस्य तना-वन्तप्रान्ताशनादिभिः ॥ दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ॥ ८० ॥ अनाचारैर्यश इवा - मयैः पीडामयैश्च तैः ॥ तत्तनुस्तनुतां भेजे, वैवर्ण्य चाहि चन्द्रवत् ॥ ८१ ॥ पुनरप्यन्यदा तत्र, कण्डरीकेण संयुताः ॥ त एवादसहस्रेण, स्थविरा: समवासरन् ॥ ८२ ॥ तान्निशम्यागतो भूपो, नत्वा शुश्राव देशनाम् ॥ कण्डरीकं नमन् भूरि-रोगं तद्वपुरैक्षत ॥ ८३ ॥ राजाथ स्थविरानूचे, प्रासुकैर्भेषजादिभिः ॥ चिकित्सां कारयिष्यामि, कण्डरीकमहामुनेः ॥ ८४ ॥ तद्यूयं मे यानशाला - मलङ्कुरुत सूरयः । ॥ इत्युक्ता भूभृता तेपि तत्र गत्वा - बतस्थिरे ॥ ८५ ॥ चिकित्सका नृपादिष्टा, विविधैरौषधादिभिः ॥ कण्डरीकं क्रमाच्चकु - र्निरामयकलेवरम् ॥ ८६ ॥ ततो भूजानिमापृच्छय, स्थविरा व्यहरंस्ततः ॥ श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ॥ ८७ ॥ कण्डरीकस्तु नाचाली-द्राजभोज्येषु गृद्धिमान् ॥ जिह्वेन्द्रियं हि जीवानां, मनोवदुर्जयं स्मृतम् ॥ ८८ ॥ तच ज्ञात्वा पुण्डरीकस्तत्रागत्यानमच्छ्रािः ॥ तं त्रिप्रदक्षिणीकृत्या - वादीदवं कृताञ्जलिः ॥ ८९ ॥ धन्यस्त्वं कृतकृत्यस्त्वं, त्वया सफलितं जनुः ॥ सन्त्यज्य राज्यभार्यादि, सर्वे यत्स्वीकृतं व्रतम् ! ॥ ९० ॥ अहं त्वधन्यो निःसारं भूरिदुःखजलार्णम् ॥ रिपुतस्करदायादा - धीनं विद्युल्लताचलम् ॥ ९१ ॥ विपाककटुकानित्यं, विषयाखादसुन्दरम् ॥ अप्यवश्यं परित्याज्यं, राज्यं न त्यक्तुमीश्वरः ॥ ९२ ॥ [ युग्मम् ] इत्येकशो नृपेणोक्तः, स मुनिर्मोनमाश्रयत् ॥ द्विस्त्रिरुक्तस्तु मन्दाक्ष - विलक्षो व्यहरत्ततः ।। ९३ ।। किञ्चित्कालं व्यहार्षीच, गुरुभिः सममुन्मनाः ॥ दुरावेश इवासाध्यः, प्राणिनां हि दुराशयः ॥ ९४ ॥ अन्यदा तु व्रतोद्विद्मः परिभ्रष्टशुभाशयः ॥ कण्डरीको गुरून् मुक्त्वा, जगाम नगरीं निजाम् ॥ ९५ ॥ तत्र भूपगृहोपान्त - स्थितोशोकतरोरधः ॥ न्यषीदद्गतसर्वख इव चिन्ताशताकुलः ॥ ९६ ॥ तदा च पुण्डरीकस्य, धात्री तत्र समागता ॥ शोकाम्भोनिधिमग्नं तं दृष्ट्वा राज्ञे न्यवेदयत् ॥९७॥ ततो गुणोपि दोषाय, जात इत्यवधारयन् ।। सान्तःपुरपरीवारो, भूपस्तत्राययौ द्रुतम् ॥ ९८ ॥ तं त्रिप्रदक्षिणीकृत्य, नत्वा चोवाच पूर्ववत् ॥ सत्वधान्मौनमेवैकं, दुष्टग्रहगृहीतवत् ॥ ९९ ॥ भूयो भूयोभ्यधात्को हि, हित्वा खर्नरकं श्रयेत् ॥ काचखण्डमुपादत्ते, को वा त्यक्त्वा मरुन्मणिम् ? ॥ १०० ॥ प्राज्यं साम्राज्यमुत्सृज्य, को वा वाञ्छति निःखताम् ॥ को वा मुक्त्वा व्रतं भोगान्, कांक्षति क्षणभङ्गुरान् ॥ १०१ ॥ सत्यप्येवं यदि स्यात्ते, भोगेच्छा तर्हि कथ्यताम् ॥ ददात्यनुचितं वस्तु, प्रार्थनामन्तरा हि कः ? ॥ १०२ ॥ भोगवाञ्छा ममास्तीति, हित्वा व्रीडां व्रती जगौ ॥ ततस्तस्मै नृपो राज्यं, पापभारमिवार्पयत् ॥ १०३ ॥ लोचं कृत्वा चतुर्यामं, धर्म च प्रतिपद्य सः ॥ कण्डरीकात्साधु लिङ्गं, सुखपिण्डमित्राददे || १०४ ॥ गुरूपान्ते परित्रज्य, भोक्ष्येहमिति निश्चयी ॥ सोचालीद्दिशमुद्दिश्य, तत्पादाम्भोजपाविताम् ॥ १०५ ॥ कण्डरीकस्तु तत्रैव, दिने सुवहुभोजनम् ॥ चखादादृटकल्याण, इवोचैर्गृद्धिमुद्वहन् ॥ १०६ ॥ प्रणीतमतिमात्रं तन्मन्दाग्नस्तस्य भोजनम् ॥ अजीर्यमाणं विदधे, वेदनामतिदारुणाम् ॥ १०७ ॥ पापोयमिति नीरागैः, सचिवाद्यैरुपेक्षितः ॥ सोथ व्यथानदीपूरे, प्लवमानो व्यचिन्तयत् ॥ १०८ ॥ सम्प्राप्तव्यसनं नाथ - मुपेक्षन्तेत्र ये जडाः ॥ विपक्षेभ्योतिरिच्यन्ते, सेवका अपि ते ध्रुवम् ॥ १०९ ॥ ततोहं यदि जीवामि, तदोपेक्षा वेधायिनः ॥ सपुत्रपौत्रान् मंत्र्यादीन् घातयाम्यखिलानपि ! ॥ ११० ॥ रौद्रध्यानमिति ध्यायन्, क्रूरस्तन्दुलमत्स्यवत् ॥ राज्यादौ मूर्च्छितो बाढ़, जम्बाल इव शूकरः ॥ १११ ॥ सोभूद्विपद्य ज्येष्ठायु-र्नारकः सप्तमावनी || अन्ते हि याशी बुद्धिस्तादृश्येव गतिर्भवेत् ॥ ११२ ॥
"
पुण्डरीकोथ सम्प्राप्य, गुरून् धर्म प्रपद्य च ॥ शीतरूक्षारसाहारै-वकाराष्टमपारणम् ॥ ११३ ॥ तैश्वाहारैरभूत्तस्य, देहसन्देहकृद्यथा ॥ तथापि स्थैर्यमास्थाय स राजर्षिरदोवदत् ॥ ११४ ॥ नमोह द्वयो भगवद्भ्यः, सम्प्राप्तेभ्यः परम्पदम् ॥ सिद्धेभ्यः स्थविरेभ्यश्च, साधुभ्यश्च नमो नमः ॥ ११५ ॥ गुरूपान्ते मया पूर्व - मुपात्तास्ति चतुव्रती ॥ इदानीमपि संसारार्णवनावं श्रयामि ताम् ॥ ११६ ॥ जिनादीनामदीनोहं, शरणं स्वीकरोमि च ॥ प्रान्ते चाभीष्टमप्येत - द्वथुत्सृजामि निजं वपुः ॥ ११७ ॥ कृतकृत्य इति प्राप्य, पञ्चत्वं स महामुनिः ॥ त्रयस्त्रिंशत्सागरायुः, सर्वार्थ त्रिशोभवत् ॥ ११८ ॥ ततश्च्युत्वा विदेहेषु, प्राप्य नृत्यं स सेत्स्यति ॥ स्वयंवरा भवेत्सिद्धिः, प्राणिनां हि सधर्मणाम् ॥ ११९ ॥ तस्मात्कृशत्वपीनत्वे, नो हेतू पुण्यपापयोः ॥ कारणे तु तयोः श्रीद !, ध्याने एक शुभाशुभे ॥ १२० ॥ कृशोपि पश्य दुर्ध्याना - त्कण्डरीको ययावधः ॥ पुष्टोपि पुण्डरीकस्तु, शुभध्यानात्सुरोभवत् ॥ १२१ ॥ अहो ! खामी ममाकृत - मज्ञासीदिति विस्मितः ॥ धनदो जातसंवेग-स्तं नत्वा ह्याश्रयं ययौ ॥ १२२ ॥ श्रीदसा