________________
॥ १५८ ॥
उतराध्ययनसूत्रम्
मोजनः ॥ द्वितीयां मेखलां प्राप, सतंत्रस्तस्य भूभृतः ॥ ३७ ॥ तृतीयस्त्वष्टमतपाः, शुष्कशेवालपारणः ॥ तस्याद्रेः सपरीवार - स्तृतीयां प्राप मेखलाम् ॥ ३८ ॥ न तु कोपि गिरेस्तस्य, क्लिश्यमानोप्यगांच्छिरः ॥ गम्यं गरुत्मतो मेरु
किं यान्ति केकिनः १ ॥ ३९ ॥ अथ ते तापसाः सर्वे, खतेजोविजितारुणम् ॥ आयान्तं गौतमं प्रेक्ष्या - चिन्तयन्निति विस्मिताः ! ॥ ४० ॥ तपःकृशाङ्गा अपि नो, यत्रारोढुं क्षमा वयम् ॥ गरिष्ठकायस्तत्राय-मारोक्ष्यति कथं यतिः १ ॥ ४१ ॥ उचैर्मुखेषु तेष्वेवं चिन्तयत्स्वेव गौतमः ॥ जङ्घाचारणलब्ध्यार्क - रश्मीनालम्ब्य सञ्चरन् ॥ ४२ ॥ तूर्ण तेषामुपर्यागा-त्क्षणाच्चागाददृश्यताम् ॥ जवनैः पवनैः प्रेर्यमाणो मेघ इवोच्चकैः ॥ ४३ ॥ [ युग्मम् ] तापसास्ते तु तं प्रोच्चैः, प्रशंसन्तो व्यचिन्तयन् ॥ अस्य शिष्या भविष्यामो ऽमुष्मादुत्तरतो गिरेः ॥ ४४ ॥ गौतमस्तु गतः शैल-मौलौ भरतकारितम् ॥ हृतावसादं प्रासादं, दर्शनीयं ददर्श तम् ॥ ४५ ॥ मानवर्णान्वितानादि - जिनादीन् स्थापनाजिनान् ॥ ननाम नित्यप्रतिमा - प्रतिमांस्तत्र च प्रभुः ॥ ४६ ॥ साक्षादिव जिनांस्तांश्च, दर्श दर्श प्रमोदभाक् ॥ सन्तुष्टावातिसन्तुष्ट - चेता इति गणाधिपः ॥ ४७ ॥ “ जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगवंधव जगसत्थवाह जागभावविअक्खण || अट्ठावयसंठविअरूव कम्मट्ठ विणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण ॥ ४८ ॥ इति स्तुत्वा च नत्वा च चैत्यान्निर्गत्य गौतमः ॥ उवास रात्रिवासाया - ऽशोकोऽशोकतरोस्तले ॥ ४९ ॥
१ शाश्वतप्रतिमातुल्यान् ॥
इतश्च धनदः शक्र - दिक्पालो नन्तुमर्हतः ॥ तत्रायातो जिनान्नत्वा, ववन्दे गणिनं मुदा ॥ ५० ॥ देशनायां गणेशोपि, तत्वत्रयनिरूपणे ॥ इति साधुगुणानूचे, गुरुतत्वं प्ररूपयन् ॥ ५१ ॥ " महाव्रतधरास्तीत्र- तपः शोपितविग्रहाः ॥ अन्तप्रान्ताशनास्तुल्य- शत्रुमित्रा जितेन्द्रियाः ॥ ५२ ॥ निष्कषाया महात्मानः साधवो गुरवः स्मृताः ॥ तारयन्ति परं ये हि, तरन्तः पोतवत्स्वयम् ! ॥ ५३ ॥ [ युग्मम् ]" तछ्रुत्वा गणिगात्रं च वीक्ष्यातिमृदु पीवरम् ॥ श्रीदो दध्यौ विसंवादि, वचोस्य स्ववपुष्यपि ॥ ५४ ॥ अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् ॥ इति वैश्रमणः किञ्चि - जहास विकसन्मुखः ! ॥ ५५ ॥ ततो ज्ञात्वा तदाकूतं चतुर्ज्ञानी जगौ प्रभुः ॥ ध्यानमेव प्रमाणं स्यात्, तनुत्वं न तनो पुनः ॥ ५६ ॥ अस्य संशयपङ्कस्य, क्षालनाय जलोपमम् ॥ श्रीपुण्डरीकाध्ययनं, शृणु वित्तेश ! तद्यथा ॥ ५७ ॥ विजये पुष्कलावत्यां, विदेहावनिमण्डने ॥ नगर्यां पुण्डरीकियां, महापद्मनृपोभवत् ॥ ५८ ॥ तस्य पद्माबतीराज्ञी - कुक्षिजौ सुन्दराकृती ॥ पुण्डरीककण्डरीका - भिधौ पुत्रौ बभूवतुः ॥ ५९ ॥ तस्यां नगर्यामन्येद्युः, स्थविराः समवासरन् ॥ उद्याने नलिनवने, त्रिदशा इव नन्दने ॥ ६० ॥ तान् प्रणम्य महापद्मः श्रुत्वा धर्म विरकधीः ॥ गत्वा पुर्या पुण्डरीकं, न्यधाद्राज्ये महामहः ॥ ६१ ॥ कण्डरीकञ्च संस्थाप्य, यौवराज्येग्रहीतम् ॥ पुण्डरीक महाराज - कृतदीक्षामहो नृपः ॥ ६२ ॥ अधीत्य सर्वपूर्वाणि, क्रमात्सम्प्राप्तकेवलः ॥ मासिकानशनेनागा-त्स राजर्षिः परं पदम् ॥ ६३ ॥ अथान्येद्युः पावयन्तो, धरां चरणरेणुभिः ॥ त एव स्थविरास्तत्र, भूयोपि समवासरन् ॥ ६४ ॥ तांश्च श्रुत्वाऽऽगतान् हृष्टः, पुण्डरीकः प्रणम्य च ॥ निशम्य देशनां सम्यक्, श्राद्धधर्ममुपाददे ॥ ६५ ॥ कण्डरीattaraar, श्रुत्वा धर्ममदोवदत् ॥ आदास्येहं भवोद्विद्मः प्रव्रज्यां युष्मदन्तिके ॥ ६६ ॥ तद्यावद्भूपमापृच्छयागच्छाम्यहमिह प्रभो ! ॥ तावत्पूज्यैरिह स्थेयं, कुर्वाणैर्मय्यनुग्रहम् ॥ ६७ ॥ प्रतिबन्धं मा कृथास्त्व - मित्युक्तो गुरुभिस्ततः ॥ कण्डरीको द्रुतं गत्वा पुर्यामित्यग्रजं जगी ॥ ६८ ॥ मया गुरोर्जिनयचो, लब्धमब्धेरिवामृतम् ॥ आरोग्यमिव वैराग्यं, तत्प्रभावान्ममाभवत् ॥ ६९ ॥ तद्युष्माभिरनुज्ञातो, व्रतमादातुमुत्सहे ॥ नृजन्म हारयेत्को हि, प्रमादेन रलवत् १ ॥ ७० ॥ पुण्डरीकोऽब्रवीन्मास्मा-धुनाकार्षीर्ब्रतग्रहम् । राज्यं ददामि ते भुंक्ष्व, भोगान् गृडाम्यहं व्रतम् ॥ ७१ ॥ कण्डरीको भ्यवाद्भोगै, राज्येन च कृतं मम ॥ प्रतमेव हि मेभीष्टं, बुभुक्षोरिव भोजनम् ॥७२॥ पुण्डरीकोवदद्वत्स !, साधुधर्मोतिदुष्करः ॥ त्याज्यानि प्रतिनां पाप - स्थानान्यष्टादश ध्रुवम् ॥ ७३ ॥ ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् ॥ मनो निधेयं सन्तोषे, विधेयं च गुरोर्वचः ॥ ७४ ॥ बाहुभ्यां वार्द्धितरण - मिव तदुकरं व्रतम् ॥ त्वञ्चातिसुकुमारोसि, शीतोष्णादिव्यथासहः ॥ ७५ ॥ दीक्षादानं ततो वत्स !, साम्प्रतं साम्प्रतं न ते ॥ भुक्तभोगो व्रताभोग - मङ्गीकुर्या यथासुखम् ॥ ७६ ॥ कण्डरीकोलपत् क्लीव - नराणां दुष्करं व्रतम् ॥ परलोकार्थिनां धीर- पुंसां तन्नैव दुष्करम् ॥ ७७ ॥ तन्मे दत्त प्रतानुज्ञां द्रुतमित्यनुजो वदन् ॥ भूभुजा व्रतमादातुं कथमप्यन्वमन्यत ॥ ७८ ॥ कण्डरीकस्ततः प्राज्ये - रुत्सवैर्ब्रतमाददे ॥ अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ७९ ॥