________________
उत्तराध्ययनसूत्रम्
॥ अथ दशमाध्ययनम् ॥
॥ १५७ ॥
॥ अर्हम् ॥ व्याख्यातं नवमाध्ययनं, सम्प्रति द्रुमपत्रकाख्यं दशममारभ्यते, अस्यचायं सम्बन्धः, इहानन्तराध्ययने धर्मम्प्रति निष्कम्पत्वमुक्तं, तच्चानुशासनादेव स्यादिति अनुशासनाभिधायकमिदमारभ्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्ताबनार्थ गौतमं प्रति श्रीमहावीरेणेदमुक्तमिति इहोपयोगिनी गौतमवक्तव्यता तावत्काचिदुच्यते । तथा हि
अत्राभूद्भरतक्षेत्रे, खर्लक्ष्मीनिर्जितालका ॥ समग्रनगरीप्रष्ठा, पृष्ठचम्पाभिधा पुरी ॥ १ ॥ तस्यां सालमहासालनामानौ सोदरावुभौ ॥ राजराजिगुणौ राज- युवराजौ बभूवतुः ॥ २ ॥ जामिर्यशोमती संज्ञा, पिठरो भगिनीपतिः ॥ गागिलिर्भागिनेयश्चा- मेयबुद्धिस्तयोरभूत् ॥ ३ ॥ तस्याञ्च पुर्यामन्येद्यु - विहरन् जगदीश्वरः ॥ श्रीवीरः समवासाप - द्भव्याम्भोजनभोमणिः ॥ ४ ॥ ततः सालमहासालौ, सार्व वन्दितुमुद्यतौ ॥ महर्षा जग्मतुः प्राज्य- प्रमोदभरमेदुरौ ॥ ५ ॥ जिनं नत्वा च सद्भक्त्या यथास्थानं न्यषीदताम् ॥ सर्वज्ञोपि जगौ धर्म, संसाराम्भोधितारकम् ॥ ६ ॥ तमाकर्ण्य विरक्तात्मा, जिनं नत्वा गृहं गतः ॥ राज्यमेतद्गृहाणेति, सालः सोदरमत्रवीत् ॥ ७ ॥ सोवादीन्मम राज्येन कृतं दुर्गतिदायिना ॥ प्रत्रजिष्याम्यहमपि भवोद्विग्नस्त्वया समम् ॥ ८ ॥ जामेयं गागिलिं राज्ये स्थापयित्वा महोत्सवैः ॥ ततः सालमहासालौ, प्रात्राजिष्टां जिनान्तिके ॥ ९ ॥ विहरन्तौ च तौ नित्यं, श्री वीरस्वामिना समम् ॥ एकादशाङ्गीमन्यूनां, पेठतुः शुद्धधीनिधी ॥ १० ॥ अन्यदा प्रस्थितं चम्पा, प्रति राजगृहात् पुरात् ॥ प्रभुं सालमहासालौ, प्रणिपत्येत्यवोचताम् ॥ ११ ॥ नगर्या पृष्टचम्पायां, प्रतिवोधयितुं निजान् ॥ स्वामिन्नावां यियासावो, यद्यनुज्ञां प्रयच्छसि ॥ १२ ॥ अमूढलक्ष्यो भगवां - स्ततस्तौ गौतमान्वितौ ॥ आदिशत्तां पुरीं गन्तुं पि तत्र ययुः क्रमात् ॥ १३ ॥ तत्र काञ्चनपाथोजे, निविष्टो नाकिनिर्मिते ॥ श्रीगौतमश्चतुर्ज्ञानी, प्रारंभे धर्मदेशनाम् ॥ १४ ॥ श्रुत्वा गागलिभूपोपि, तमायातं समातुलं ॥ यशोमतीपिठरयुग्, ययौ वन्दितुमुत्सुकः ॥ १५ ॥ हर्षोत्कर्षोल्लसद्रोम - हर्षो नत्वाथ तान्नुपः ॥ उपविश्य यथास्थान - मश्रौपीद्धर्मदेशनाम् ॥ १६ ॥ संसारासारतासारां, ताञ्चाकर्ण्य विरक्तधीः ॥ गागलिर्नगरीं गत्वा - ङ्गजं राज्ये न्यवीविशत् ॥ १७ ॥ पितृभ्यां सहितः प्राज्ये - रुत्सवै - श्वाददे व्रतम् ॥ गौतमस्वामिपादान्ते, दान्तात्मा मेदिनीपतिः ॥ १८ ॥ ततः सालमहासाल - गागल्यादिभिरन्वितः ॥ गणी गन्तुं जिनाभ्यर्णे ऽचलचम्पापुरीं प्रति ॥ १९ ॥ तदा सालमहासाला - वित्यचिन्तयतां मुदा ॥ यद्भवात्तारि - तान्येता - न्येतद्भव्यमभूद्भृशम् ॥ २० ॥ तदा च दध्युरित्यन्त - गगल्याद्या अपि त्रयः ॥ अहो ! सालमहासालावस्माकमुपकारिणौ ॥ २१ ॥ एताभ्यां हि वयं पूर्व, राज्यश्रीभाजनीकृताः ॥ इदानीं तु महानन्द - प्रापकं प्रापितुं व्रतम् ॥ २२ ॥ इत्यादिध्यान दावाभि - ध्वस्त कल्मषभूरुहः ॥ मुक्तिमन्दिरनिश्रेणिं, क्षपकश्रेणिमाश्रिताः ॥ २३ ॥ मोहमत्तेभपञ्चत्व-पञ्चास्या मार्ग एव ते । चञ्चत्प्रपञ्च पञ्चापि पञ्चमज्ञानमासदत् ! ॥ २४ ॥ ॥ युग्मम् ] जिना - भ्यर्ण गतास्तेथ, गौतमखामिना समम् ॥ प्रदक्षिणीकृत्य जिनं, जग्मुः केवलिपदि ॥ २५ ॥ ततस्तान् गौतमः प्रोचे - ऽनभिज्ञा इव भोः ! कथम् १ ॥ यूयं यात समायात, वन्दध्वं भुवनप्रभुम् ॥ २६ ॥ जिनान्माऽऽशातयेत्युक्तः, श्रीवीरेणाथ गौतमः ॥ तत्क्षणं क्षमयित्वा ता-निति दध्यौ निजे हृदि ॥ २७ ॥ दुर्भगं हरिणाक्षीव, भजतेद्यापि मां न हि ॥ केवलज्ञानलक्ष्मीस्त - त्किं सेत्स्यामि नवाथवा १ ॥ २८ ॥ इति चिन्तयतः श्रीम-दिन्द्रभूतिगणेशितुः ॥ असौ सुराणां संलापः, कर्णजाहमगाहत ॥ २९ ॥ जिनेनाद्योदितं यो हि, जिनान्नमति भूचरः ॥ स्खलन्ध्याष्टापदं गत्वा स हि तद्भवसिद्धिकः ॥ ३० ॥ इति देववचः श्रुत्वा - ऽष्टापदं गन्तुमुद्यतः ॥ पप्रच्छ गौतमः सार्व - सार्वभौमं कृताञ्जलिः ॥ ३१ ॥ ततस्तापसबोधाय, तस्य स्थैर्याय च प्रभुः ॥ तत्र गन्तुं तमादिक्ष-दमोघाज्ञा हि पारगाः ॥ ३२ ॥ निधानं सर्वलब्धीनां, ततः श्रीगौतमप्रभुः ॥ भक्त्याभिवन्द्य तीर्थेशं, प्रतस्थेष्टापदं प्रति ॥ ३३ ॥
इतश्च कोडिन्नदिन्न - सेवालास्तापसास्त्रयः ॥ तापसानां पञ्चशत्या, प्रत्येकं परिवारिताः ॥ ३४ ॥ मुक्तिरष्टापदारोहा - द्विशामीति विभोर्वचः ॥ श्रुत्वा जनाननात्पूर्व, प्रस्थिताः सन्ति तं प्रति ॥ ३५ ॥ [ युग्मम् ] उपवासतपास्तेषु, प्रथमः सपरिच्छदः ॥ कन्दादिभोजनो भेजे, तस्याद्रेरादि मेखलाम् ॥ ३६ ॥ षष्ठकारी द्वितीयस्तु, पक्कपत्रादि