________________
॥१५६॥
उत्तराप्ययनसूत्रम् कार्य तथा त्वगा ॥ मद्वियोगेन्यथा दुःख-मस्या भूरि भविष्यति ॥ १७३ ॥ इत्युदीर्य गते देवे, तस्या धृतिकृते नृपः ॥ अकारयन्नगे तत्र, नगरं नव्यमुत्तमम् ॥ १७४ ॥ प्रलोभ्य लोकांश्चानेकान् , पुरे तत्र न्यवासयत् ॥ चैत्यान्यचीकरत्तेषु, जिनार्चाश्च न्यवीविशत् ॥ १७५ ॥ ग्रामान् सहस्रशस्तत्रा-रण्ये चावासयन्नृपः। तच राज्यद्वयं सम्यक, शशा. सोदप्रशासनः ॥ १७६ ॥ न्यायेन पालयन् राज्यं, क्रीडन् कनकमालया ॥ जिनांश्च पूजयन्नित्यं, स त्रिवर्गमसाधयत् ॥ १७७ ॥ सोथ कार्तिकराकाया-मन्यदा सैन्यसंयुतः ॥ नरेन्द्रो नगराद्राज-पाटिकायै विनिर्यया ॥ १७८ ॥ तदा च पल्लवातानं, मञ्जरीपुअपिजरम् ॥ माकन्दमेकमद्राक्षी-च्छत्राकारं सदाफलम् ॥ १७९ ॥ चूतस्य तस्य कान्तस्य, मङ्गलार्थमिलापतिः ॥ आददे मजरीमेकां, शेपामिव सुधाभुजः ॥ १८० ॥ सैन्यलोकास्ततः सर्वे, पत्रपल्लवमारीः॥ आदाय दारुशेष तं, सहकारं वितेनिरे ॥ १८१ ॥ गत्वारामं निवृत्तोथ, तत्रायातः क्षणान्तरे ॥ आम्रः कम्रः स कुत्रेति, राजा पप्रच्छ मंत्रिणम् ॥ १८२ ॥ मंत्रिणा च तरौ तस्मिन्, काष्ठशेपे प्रदर्शिते ॥ ईदृशोसी कथमभू-दित्यपृच्छत् पुनर्नृपः ॥ १८३॥ उवाच सचिवो वाचं, खामिन्नस्य महातरोः ॥ जगृहे मजरी पूर्व-मेका युष्माभिरुत्तमा ॥ १८४ ॥ इत्यमुं सैनिकाः सर्वे, पत्रपुष्पफलादिकम् ॥ गृहीत्वा चक्रुरश्रीकं, धनिनं तस्करा इव ॥ १८५ ॥ तदाकर्ण्य नृपो दध्यौ, चञ्चलत्वमहो! श्रियाम् ॥ यत्तादृशोप्यसौ चूतः, क्षणान्निःश्रीकतां ययौ ! ॥ १८६ ॥ यदव तुष्टि कुत्पूर्व, स्यात्तदेव क्षणान्तरे ॥ जायतेऽनीदृशं वान्ति-समय भोजन यथा!॥ १८७॥ यथा हि बुद्धदाटोपः, सन्ध्यारागश्चन स्थिरः ॥ सम्पदोपि तथा सर्वा, न स्थिरा इति निश्चितम् ॥१८८ ॥ यस्तु मोहेन जानाति, बालिशः सम्पदं स्थिराम् ॥ शाश्वतीं मन्यते मन्दः, स हि सौदामिनीमपि ॥ १८९ ॥ ततो दुष्कर्मतामिस्र-तमिस्राकल्पयानया॥ आयतौ दुःखदायिन्या, कृतं मे राज्यसम्पदा ॥१९०॥ एवं विमृश्यातसाधुधर्मः, प्रत्येकवुद्धश्चतुरश्चतुर्थः ॥ गान्धारराड़ नग्गतिनामधेयः, पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ॥ १९१ ॥ इति नग्गतिनृपकथा ॥ ४ ॥ ततश्च
राज्येषु न्यस्य पुत्रांस्ते, चत्वारोप्यातव्रताः ॥ क्षितिप्रतिष्ठितपुरे, विहरन्तोन्यदा ययुः॥१॥ तत्र चाभूचतुद्वार-मेकं यक्षनिकेतनम् ॥ तस्मिंश्च व्यन्तरो मूर्ति--स्थितः पूर्वामुखोभवत् ॥ २ ॥ करकण्डमुनिस्तत्र, पूर्वद्वारा प्रविष्टवान ॥ अपाचीसंमुखद्वारा, द्विमुखश्च महामुनिः॥३॥ पराङ्मखः कथं साधो-स्तिष्ठामीति विचिन्तयन् ।। तदापरं व्यधाद्यक्षो, दक्षिणाभिमुखं मुखम् ॥ ४ ॥ नमिस्तु पश्चिमद्वारा, प्राविशद्यक्षमन्दिरे॥ ततोपि वदनं प्राग्यतृतीयमकरोत्सुरः ॥ ५॥ नग्गतिस्त्वविशत्तत्रो-त्तरद्वारा गुणोत्तरः ॥ यक्षश्चक्रे ततोप्यास्य, ततश्चाभूचतुर्मुखः ॥६॥ करकण्डोस्तु सा रूक्ष-कण्डूदेहे तदायभूत् ॥ ततः स कण्डूयनकं, लात्वाऽकण्डूयत श्रुतिम् ॥ ७ ॥ तेन सङ्गोप्यमानं च, तद्वीक्ष्य द्विमुखोब्रवीत् ॥ त्यक्तं राज्यादि चेत्सर्वं, तदादः सञ्चिनोपि किम् ? ॥ ८॥ तेनेत्युक्तोोपे नो किञ्चित् , करकण्डुर्यदावदत् ॥ तदा द्विमुखराजा, नमिसाधुरदोभ्यधात् ॥९॥ त्यक्तराज्यादिकार्यापि, निग्रेन्थोपि भवान् खयम् ॥ करोति कार्य चेदन्य-दोपप्रेक्षणलक्षणम् ॥ १० ॥ किमर्थं तर्हि राज्यस्थो-धिकृतान् कृतवान् भवान् ॥ परापराधवीक्षायै, क्रियन्ते हि नियोगिनः॥ ११॥ इदानीं तु नियोगित्वं, निःसङ्गस्योचितं न ते ॥ तच्छ्रुत्वा नमिमित्यूचे, नग्गतिर्गतदुर्गतिः ॥ १२॥ यदि सर्व विहाय त्वं, मोक्षायोद्यच्छसे मुने ! ॥ तदा किमर्थमन्यस्य, निन्दां वितनुषे वृथा ? ॥ १३ ॥ करकण्डुरथाचख्यौ, मोक्षाकांक्षिपु भिक्षुषु ॥ वारयन्नहितं साधु-निन्दकः कथ्यते कथम् ? ॥ १४ ॥ या रोषात्परदोषोक्तिः, सा निन्दा खलु कथ्यते ॥ सा तु कस्यापि नो कार्या, मोक्षमागर्गानुसारिभिः ॥ १५॥ हितवुद्ध्या तु या शिक्षा, सा निन्दा नाभिधीयते ॥ अत एव च सान्यस्य, कुप्यतोपि यते ॥ १६ ॥ यदार्ष-"रूसऊ वा परो मा वा विसं वा परिअत्तउ ॥ भासिअवा हिआ भासा सपक्खगुणकारिआ ॥ १७ ॥" अनुशिष्टिमिमां शिष्टा-मुदितां करकण्डुना ॥ ते त्रयोप्युररीचकु-विजहुश्च यथारुचि ॥ १८ ॥ पुष्पोत्तरविमानात्ते, चत्वारोपि सहच्युताः ॥ सहोपात्तव्रता मोक्षं, सहैवासादयन् क्रमात् ॥ १९ ॥ इति प्रत्येकबुद्धानां, चतुर्णा शमशालिनाम् ॥ सम्प्रदायानुसारेण, चरितं परिकीर्तितम् ॥ २०॥ कल्याणकारि नरकारि विकारहारि, प्रत्येकबुद्धचरितं दुरितापहारि ॥ इत्थं निशम्य शगशाखिघनानुकारि, भव्या भजन्तु सुकृतं भुवनोपकारि ॥ २१ ॥ इति समाप्ता प्रसङ्गागता प्रत्येकबुद्धवक्तव्यता ॥
AADASPANDAARADDITIOPARDSDARSDADAGDAMDADERSTAGDAMPIPARADIO DADAPAEDABADODARASDAEDIA ६ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिप्यभुजिष्योउपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती नवमाध्ययनं सम्पूर्णम् ॥९॥ Wamanraoravancorpoom apco m 6050dsapanesapacropsocore