________________
उतराध्ययनस्त्रम्
॥ १५५ ॥
बलोर्जितौ युद्धं कुर्वन्तौ तुल्यविक्रमौ ॥ तावन्योन्यप्रहारेण, सद्योभूतां यमातिथी ॥ १३० ॥ खं तद्विनाशकी - नाशं, निन्दन्ती वीक्ष्य तौ मृतौ ॥ चिरं रुरोद कनक-माला भ्रातृशुचाकुला ॥ १३१ ॥ तदा चात्रागतो वानमन्तराख्यः सुरोत्तमः ॥ वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् ॥ १३२ ॥ सुतामन्वेषयंस्ताव - दृढशक्तिरिहाययौ ॥ ततः कनकमालां द्राक्, शबरूपां सुरोकरोत् ॥ १३३ ॥ अथ तान् पतितान् पृथ्व्यां, खपुत्रीपुत्रवासबान् ॥ विपन्नान् वीक्ष्य संविग्नो, दृढशक्तिरचिन्तयत् ॥ १३४ ॥ वासवेन सुतो नूनं, जने तेन च वासवः ॥ सुता तु वासवेनैव, मार्यमाणेन मारिता ॥ १३५ ॥ तत्संसारेत्र दुःखाढ्ये, कृती को नाम रज्यते १ ॥ ध्यात्वेति प्राब्रजद्विद्या - घरराजस्तदैव सः ॥ १३६ ॥ मायां हृत्वा ततो देवः, समं कनकमालया ॥ ननाम श्रमणं सोऽपि किमेतदिति पृष्टवान् १ ॥ १३७ ॥ अथोक्ते भ्रातृपञ्चत्वो- दन्ते कनकमालया ॥ मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः ? ॥ १३८ ॥ सुरोथाचीकथन्माया, मयासौ तव दर्शिता ! ॥ मुनिः स्माह कुतो हेतो- र्माया मे दर्शिता त्वया १ ॥ १३९ ॥ देवोवादीत्तत्र हेतुं, दृढशक्तिमुने! शृणु ॥ क्षितिप्रतिष्ठितपुरे, जज्ञे विजितशत्रुराट् ॥ १४०॥ स च चित्रकृतः पुत्रीं, नाना कनकमंजरीम् ॥ उपयेमेन्यदा सा च परमश्राविकाभवत् ॥ १४१ ॥ तया पञ्चनमस्कारा - दिना नियामितो मृतः ॥ तत्पिता चित्रकृद्वान -मन्तराख्यः सुरोभवत् ॥ १४२ ॥ सोहमत्राधुनायातोऽपश्यं शोकाकुलामिमाम् ॥ उत्पन्नभूरिप्रेमा चो-पयोगमवधेरदाम् ॥१४३॥ असौ मे प्राग्भवसुते -त्यज्ञासिषमहं ततः ॥ त्वाञ्च तत्क्षणमायान्तं, निरीक्ष्यैवमचिन्तयम् ॥१४४॥ पित्रा सहासौ मंत्रीति, भावी मे विरहोनया ॥ ध्यात्वेत्यदर्शयमिमां, मायया ते शवोपमाम् ॥ १४५ ॥ त्वां च प्रत्रजितं प्रेक्ष्य, माया द्राक् संहृता मया ॥ तन्मे दुश्चेष्टितमिदं, सोढव्यं सुमुने ! त्वया ॥ १४६ ॥ धर्मतया त्वमुपकर्तासि तत्कुतः १ ॥ इत्थमात्थेति सअल्पन्नुत्पपात मुनिस्ततः ॥ १४७ ॥ तदा कनकमालापि, श्रुत्वा वृत्तान्तमात्मनः ॥ प्राप्ता जातिस्मृतिं सद्यो, ददर्श प्राग्भवं निजम् ॥ १४८ ॥ मत्पितायमिति प्रेम, सुरे सा तत्र बिभ्रती ॥ तात ! को मे बरो भावी यप्राक्षीत्तं दिवौकसम् ॥ १४९ ॥ सुरोथावधिना ज्ञात्वा प्रोचे प्राच्यस्तव प्रियः ॥ राजा विजितशत्रुः स, देवीभूय च्युतो दिवः ॥ १५० ॥ दृढसिंह महीनेतुः सुतः सिंहरथाह्वयः ॥ जातोस्ति मेदिनीभर्ता, भर्त्ता भावी स ते सुते ! ॥ १५१ ॥ [ युग्मम् ] तत्सङ्गो मे कथमिह, भावीत्युक्तस्तया पुनः १ ॥ सुरोवादीदिहागन्ता, वाजिनापहृतो हि सः ॥ १५२ ॥ तदुद्वेगं विहाय त्व- मिह तिष्ठ यथासुखम् ॥ अहं त्वदादेशकारी, स्थास्यामि तव सन्निधौ ॥ १५३ ॥ इत्युक्त्वा सपरीवारः, प्रासादेऽस्थादिहामरः ॥ तस्थौ कनकमा - लापि, तदभ्यर्णे सुरीवृता ॥ १५४ ॥ स्वामिन् । कनकमालां तां मामवेहि गुणोदधे ! ॥ स देवस्तु ययौ मेरुं, चैत्यनत्यै गतेऽहनि ॥ १५५ ॥ ततस्त्वमपराह्ने मत्पुण्याकृष्ट इहागमः ॥ मन्मनोनयनाम्भोज - विभासनविभाकरः ॥ १५६ ॥ मया तूत्कण्ठया ताता-गमं यावत्प्रतीक्षितुम् ॥ अशक्तया त्वया साकं, स्वयमात्मा विवाहितः ।। १५७ ॥ एष खामिन् स्ववृत्तान्तो मया तुभ्यं निवेदितः ॥ इति तद्वाक्यमाकर्ण्य, जातिं सस्मार पार्थिवः ॥ १५८ ॥ अत्रान्तरे सुरवधू - युतस्तत्रागतः सुरः ॥ प्रणेमे भूभुजा सोपि, तमुच्चैरभ्यनन्दयत् ॥ १५९ ॥ ततो विवाहवृत्तान्ते, प्रोक्ते कनकमालया ॥ त्यर्थं मुदितो देव-श्विरं भूपमवार्तयत् ॥ १६० ॥ दिव्यं भोज्यं च मध्याह्ने, सभार्यो बुभुजे नृपः ॥ इत्थं स्थित्वा मासमेकं, सोन्यदेत्यवदत्प्रियाम् ॥ १६१ ॥ अरक्षकं भोज्यमिव द्विका राज्यं मम द्विषः ॥ उपद्रोष्यन्ति तद्भन्तु - मनुमन्यस्व मां प्रिये ! ॥ १६२ ॥ सावदत्स्त्वत्पुरं दूरे, पादचारेण तत्कथम् ॥ इतो यास्यसि तत्र त्वं ततो वात्रागमिष्यसि ? ॥ १६३ ॥ तत्प्रज्ञसीं महाविद्यां गृहाण त्वं मदन्तिकात् ॥ ततो राजा गृहीत्वा तां विधिपूर्वमसाधयत् ॥ १६४ ॥ अगाच्च व्योममार्गेण, प्रियां पृष्ट्वा निजं पुरम् ॥ लोकैः पृष्टश्च सकलं, यथावृत्तमचीकधत् ॥ १६५ ॥ ततः कृतोत्सवाः पौराः, प्रोचुरेवं सविस्मयाः ॥ अहो ! भूमीविभोर्भाग्या-भ्युदयो भुवनाद्भुतः ॥ १६६ ॥ सम्पदामास्पदेप्यन्ये विन्दन्ति विपदं विशः ॥ असौ तु भाग्यवान् व्याप-दास्पदेप्याप सम्पदम् ॥ १६७ ॥ भृप्रियस्तु प्रियां ध्यायन् पञ्चमेहि ययौ नगम् ॥ दिनानि कतिचित्तत्र, स्थित्वायासीत्पुनः पुरे ॥ १६८ ॥ एवं मुहुर्मुहुः शैले, व्रजन्तं तं नृपं प्रजाः ॥ नगेस्मिन् गतिरस्येति, नाम्ना नग्गतिमूचिरे ॥ १६९ ॥ तं चान्यदा गतं तस्मिन्नद्रावित्यवदत्सुरः ॥ आदेशं खप्रभोः कर्तुं यास्याम्यहमितोधुना ॥ १७० ॥ यद्यप्येनां विहायाहं, कापि नो गन्तुमुत्सहे ॥ अनुलंध्यां प्रभोराज्ञां तथाप्युलंघये कथम् ॥ १७१ ॥ कालक्षेपश्च मे भूयान् भविता तत्र भूपते ! ॥ इतः स्थानाच्च नान्यत्र, सुता मे लप्स्यते रतिम् ॥ १७२ ॥ तद्यथैकाकिनी न स्या- दसौ