________________
॥ १५४ ॥
उत्तराध्ययनसूत्रम्
स नाशकत् ॥ ८७ ॥ प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमत्रवीत् ॥ भूपेन क्वापि केनापि, गृहीतौ द्वौ मलिम्लुचो ॥ ८८ ॥ मञ्जूषा निहितौ तौ च नृपो नद्यामवाहयत् ॥ दयार्द्रचेता न पुन - मारयामास तो स्वयम् ॥ ८९ ॥ यान्तीं नदीजले वीक्ष्य, तां पेटां केप्यकर्षयन् ॥ तां समुद्घाट्य ते चैव-मपृच्छंस्तौ विनिर्गतौ ॥ ९० ॥ युवयोः क्षिप्तयोरत्र, जज्ञिरे कति वासराः १ ॥ अद्य तुर्य दिनमिति तयोरेकोब्रवीत्तदा ॥ ९१ ॥ कथं तुर्यमहर्ज्ञात-मिति पृष्टा भुजयया ॥ देव्यूचे व इदं वक्ष्ये, निद्राकालो ह्युपस्थितः ॥ ९२ ॥ पञ्चमेपि दिने राज्ञा, कौतुकाहत्तवारका ॥ तथैव दास्या पृष्टा चे-त्यूचे कनकमंजरी ॥ ९३ ॥ तृतीयज्वरवानासी - दित्यज्ञासीत्स तं दिनम् ॥ इत्युक्त्वा सा कथामन्यां दास्या पृष्ठैवमब्रवीत् ॥ ९४ ॥ जज्ञिरे बहुला राज्ञ्यो, राज्ञः कस्यापि कुत्रचित् ॥ तासु चैकाभवत्तस्य, स्वप्राणेभ्योप वल्लभा ॥ ९५ ॥ राज्ञीनां शङ्कयान्यासां, कलादैर्भूगृहस्थितैः ॥ स च तस्याः कृते छन्न-मलङ्कारानकारयत् ॥ ९६ ॥ को हि कालोधुनास्तीति, कलादांस्तांश्च कौतुकात् ॥ कोप्यपृच्छत्तदा चैको, रात्रिरस्तीत्यभाषत ॥ ९७ ॥ तत्र रात्रिः कथं ज्ञाते-त्युक्ता राज्ञी भुजिष्यया ॥ प्रोचे प्रमीलाभ्येतीति, वक्ष्येऽनेद्युरिदं तव ॥ ९८ ॥ षष्ठप्यहि नृपप्राप्त - चारका साथ तां जगौ । भूगृहेपि निशान्धत्वा-त्स क्षपां ज्ञातवानिति ॥९९॥ कथान्तरञ्च पृष्टैवं, साख्यत्कस्यापि भूपतेः ॥ पेटां भूषणसपूर्णा, निद्रां कोप्यढौकयत् ॥ १०० ॥ तस्यां चानुद्घाटिताया - मेवापश्यन्नृपोऽखिलान् ॥ तन्मध्यस्थानलंकारा - न्दास्याख्यत्स्यादिदं कथम् १ ॥ १०१ ॥ राज्ञी स्माह तवेदं वो, वदिष्यामि शयेऽधुना ॥ प्राप्ता च वारकं प्राग्व-चेट्या पृष्टेवमभ्यधात् ॥ १०२ ॥ बभूव पेटिका सा हि खच्छस्फटिकनिर्मिता ॥ तत्तस्यां पिहितास्याया - मपि भूषा ददर्श राट् ॥१०३॥ आख्यानैरीदृशैर्यावत्, षण्मासान् सा नरेश्वरम् ॥ व्यमोहयत्ततः सोभू-तस्यामेव रतो भृशम् ॥ १०४॥ नृपाङ्गजा अप्यन्यास्तु, राज्ञीर्नाजल्पयन्नृपः ॥ ततस्ताः कुपिता नित्यं तस्यारिछद्राण्यमार्गयन् ॥ १०५ ॥ ऊच्चै - वमयं भूपो - Sनया नूनं वशीकृतः ॥ कुलीना अपि नस्त्यक्त्वा, यदस्यामेव रज्यते ॥ १०६ ॥ चित्रकूत्तनया सा तु, सुधीर्मध्यंदिनेन्वहम् ॥ स्थित्वा गर्भगृहे हित्वा वस्त्रभूषा नृपार्पिताः ॥ १०७ ॥ आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च । एकाकिनी खमात्मान – मेवमुचैरबोधयत् ॥ १०८ ॥ [ युग्मम् ] रे जीव ! मा मदं कार्षी- र्मा विधा ऋद्धिगौरवम् ॥ मा विस्मार्षीर्निजां पूर्वावस्थां प्राप्तोपि सम्पदम् ॥ १०९ ॥ अलङ्कारास्त्रपुमया, जीर्णानि वसनानि च ॥ निजानीमानि जानीहि सर्वमन्यत्तु भूपतेः ॥ ११० ॥ तद्दर्पमपहाय त्व- मात्मन् ! शान्तमना भव ॥ यथा सुचिरमेतासां पदं भवसि सम्पदाम् ॥ १११ ॥ अन्यथा तु नरेन्द्रस्त्वां गृहीत्वा गलकन्दले || निष्काशयिष्यति गृहातू, कुथिताङ्गीं शुनीमिव ॥ ११२ ॥ तच तचेष्टितं दृष्ट्वा, दुष्टास्तुष्टा छलान्विषः ॥ इत्युचिरेऽपरा राज्ञ्यो, जनेशं विजने स्थितम् ॥ ११३ ॥ यद्यपि त्वं प्रभोऽस्मासु, निःस्नेहोसि तथापि हि ॥ रक्षामस्त्वां वयं विघ्नात्, स्त्रियो हि पतिदेवताः ॥ ११४ ॥ त्वत्प्रिया सा हि कुरुते, कार्मणं किञ्चिदन्वहम् ॥ तया वशीकृतस्त्वं तु न जानासि तदप्यो ! ॥ ११५ ॥ अथ राज्ञा कथमिद - मित्युक्तास्ताः पुनर्जगुः ॥ यदि प्रत्येषि न तदा त्वं निरूपय केनचित् ॥ ११६ ॥ सा हि स्थित्वापवरके, पिधाय द्वारभन्वहम् ॥ कृत्वा कुवेषं मध्याह्ने, किञ्चिन्मुणमुणायते ! ॥ ११७ ॥ तन्निशम्य नृपस्तत्र, गतस्तद्वीक्षितुं स्वयम् ॥ प्राग्यत्स्वनिन्दां कुर्वत्या - स्तस्याः शुश्राव तां गिरम् ॥ ११८ ॥ ततस्तुष्टो नृपोध्यासी-दहो ! अस्याः शुभा मतिः ॥ अहो विवेकच्छेकत्व - महो मानापमाननम् ! ॥ ११९ ॥ मदोन्मत्ता भवन्त्यन्ये, खल्पायामपि सम्पदि ॥ असौ तु सम्पदुत्कर्ष, सम्प्राप्तापि न माद्यति ! ॥ १२० ॥ तदस्याः सन्ति सर्वेपि, गुणा एवेति निश्चितम् ॥ राज्ञ्यस्त्वेता गुणमपि, दोषं पश्यन्ति मत्सरात् । ॥ १२१ ॥ उक्तञ्च – “जाड्यं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम् ॥ शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि ॥ तेजखिन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे ॥ तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः १ ॥ १२२ ॥ ध्यात्वेति भूपतिस्तुष्टः, पट्टराज्ञीं चकार ताम् ॥ गुणैर्महत्वमाप्नोति, जनो न तु कुलादिभिः ॥ १२३ ॥ नृपो विमलचन्द्राख्य- सूरिपार्श्वे स चान्यदा ॥ समं कनकमअर्या, श्राद्धधर्ममुपाददे ! ॥ १२४ ॥ साथ चित्रकृतः पुत्री, क्रमान्मृत्वा दिवं ययौ ॥ अविराधितधर्माणः, सुरेष्वेव प्रजन्ति हि ॥ १२५ ॥ वैताढ्ये तोरणपुरे, दृढशक्तिमहीपतेः ॥ सुता कनकमालाख्या, जज्ञे वर्गाच्युता तु सा ॥ १२६ ॥ तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्यां मोहितोन्यदा ॥ हत्वानैषीदिह गिरौ, खेचरो वासवाभिधः ॥ १२७ ॥ विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् ॥ स व्यधाद्वेदिकामेनां यावदुद्रोदुमुद्यतः ॥ १२८ ॥ तावदत्रागतस्तस्या, अग्रजस्तां गवषयन् ॥ योद्धुमाहास्त कनक - तेजास्तं खेचरं क्रुधा ॥ १२९ ॥ विद्या