________________
उत्चराप्ययनसूत्रम्
॥१५॥ तस्याप्यन्यैः सह समं, भूपो भार्ग प्रकल्पयन् ॥ द्वितीयः प्रोच्यते मूढ-स्तृतीयस्तु पिता मम ! ॥ ४४ ॥ स हि पूर्वार्जितं सर्व, बुभुजे चित्रयन् सभाम् ॥ विनार्जनां भुज्यमानं, वित्तं हि स्यात्कियचिरम् ? ॥ ४५ ॥ अथ यत्किञ्चिदादाया-गतायां मयि भोजनम् ॥ स याति देहचिन्तायै, न तु पूर्व करोति ताम् ॥ ४६॥ ततश्च शीतलीभूतं, तद्भोज्यं विरसं भवेत् ॥ सदन्नेपि हि शीते स्या-द्वैरस्यं किं पुनः परे ? ॥४७॥ तादृशं च विधायान्नं, भुआनो मत्पितानिशम् ॥ तृतीयः प्रोच्यते जाल्म-श्चतुर्थस्तु भवान्मतः ! ॥ ४८ ॥ आगमो हि कदाप्यत्र, न सम्भवति केकिनाम् ॥ तत्स्यात्कौतस्कुतः पात-स्तत्पिच्छस्पेह कुट्टिमे ? ॥ ४९ ॥ अयात्रापि तदानीतं, स्यात्केनापीति चेत्तदा ॥ तस्य प्राग् निर्णयः कार्य-स्तद्रोमस्फुरणादिना ॥ ५० ॥ तं विना तु क्षिपन् पाणि-मसिंस्त्वं मूढ एव हि ! ॥ ततोवादीन्नृपः सत्य-महं पादस्तुरीयकः ॥ ५१ ॥ दध्यौ च भूपतिरहो !, अस्या वचनचातुरी ॥ अहो बुद्धिरहोरूपमहो लावण्यमद्धतम् ॥५२॥ पाणौकृत्य तदेनां खं, करोमि सफलं जनुः ॥ ध्यायन्निति निजं धाम, रुत्सुकः ॥ ५३॥ तातं प्रभोज्य तस्याञ्च, गतायां खगृहे नृपः ॥ प्रैषीचित्राङ्गदाभ्यणे, श्रीगुप्ताभिधधीसखम् ॥५४॥ तेनार्थितः पार्थिवार्थ, कनी कनकमअरीम् ॥ चित्राङ्गदोवदद्युक्त-मदः किन्त्वस्मि निर्धनः ॥ ५५ ॥ तद्विवाहोत्सवं राज्ञः, पूजाश्च विदधे कथम् ? ॥ दुःस्थानां खुदरापूर्ति-रपि कृच्छ्रेण जायते ! ॥ ५६ ॥ सचिवेनाथ तद्वाक्ये, राज्ञः प्रोक्ते नृपोप हि ॥ धनधान्यहिरण्याथै-स्तस्य गेहमपूरयत् ॥ ५७ ॥ शुभे चाह्नि महीशस्ता-मुपयेमे महामहैः ॥ ददौ च तस्यै प्रासाद, दासाधं च परिच्छदम् ॥ ५८ ॥ तस्य राज्ञोऽभवन् राज्यो, बहुलास्तासु चान्वहम् ॥ भूपतेसिसौधेगा-देकैका खखवारके ॥ ५९॥ तस्मिन्दिने तु भूपेना-दिष्टा कनकमंजरी ॥ ययौ दास्या समं राज्ञो, गेहं भूषणभूषिता ॥ ६० ॥ तत्रागमयमाना सा, नृपं तस्थौ तु विष्टरे ॥ राज्यागते च विनय-मभ्युत्थानादिकं व्यधात् ॥६१ ॥ भूपेऽथ सुप्ते शय्याया-मेवं मदनिकाभिधा ॥ पूर्वसङ्केतिता दासी, जगौ कनकमंजरीम् ॥ ६२ ॥खामिनि! त्वं कथां हि, काश्चित्कौतुककारिणीम् ॥ सा प्रोचे राज्ञि निद्राणे, कथयिष्यामि तामहम् ॥ ६३ ॥ तच्छृत्वा भूधवो दध्या-वस्थाश्चातुर्यपेशले ॥ वचने श्रूयमाणे हि, शर्करा कर्करायते ॥ ६४ ॥ ततोऽनया वक्ष्यमाण-माख्यानमहमप्यहो ! ॥ शृणोमीति नृपो ध्यायन् , सुष्वापालीकनिद्रया ॥६५॥ अथोचे मदना देवि !, सुप्तो राट् कथ्यतां कथा ॥ साऽवदत्सावधाना त्वं, शृणु तां वच्मि तद्यथा ॥६६॥ श्रीवसंतपुरे श्रेष्ठी, वरुणाख्यो दृषन्मयम् ॥ अचीकरदेवकुल-मेकमेककरोच्छ्रयम् ॥ ६७ ॥ तत्र देवकुले देवं, चतुर्हस्तं न्यधत्त सः॥ तदाकर्ण्य जगौ जात-कोतुका मदनेति ताम् ॥ ६८॥ एकहस्ते सुरगृहे, चतुर्हस्तः सुरः कयम् ? ॥ मातीति संशयं छिन्धि, स हि खाद्कुरुते हदि ॥ ६९ ॥ देवी माहाधुनायाति, निद्रा मे तत्परेचवि ॥ इदं वक्ष्यामि ते को हि, निद्रासुखमुपेक्षते ? ॥७॥ एवमस्त्विति जल्पन्ती, ततोऽगान्मदना गृहम् ॥ अथो यथोचितस्थाने-ऽस्खपीत्कनकमंजरी ॥७१ ॥ भूपस्त्वचिन्तयदियं, वार्ता सङ्गच्छते कथम् ? ॥ तस्या रहस्यं पृच्छामि, तदेनामधुनैव हि ॥७२॥ यद्वा वक्ष्यत्यसो जाल्म-मस्मिन् प्रश्ने कृते हि माम् ॥ अ/दिता च वार्ता स्या-द्वल्लभातोपि वलभा॥७३॥ श्वस्त नेपि दिने दास्से, तदस्या एव वारकम् ॥ यथार्थकथिता वार्ता, श्रूयते खयमेव सा ॥ ७४ ॥ ध्यात्वेत्यदान्नृपस्तस्यै, द्वितीयेप्यहि वारकम् ! । तथैव राज्ञि सुप्से ता-मदो मदनिकाऽवदत् ! ॥ ७५ ॥ तामोक्तां कथां ब्रूहि, तयेत्युक्ते च साऽब्रवीत् ॥ देवश्चतुर्भुजः सोऽभू-न तु तन्मानभूघनः ॥ ७६ ॥ अथाख्याहि कथामन्या-मेवं मदनयोदिता ॥ राज्ञी जगौ वने कापि, रक्ताशोकद्रुमोऽभवत् ॥ ७७ ॥ शाखाशताकुलस्यापि, तस्य छाया तु नाभवत् ॥ जगाद मदना तस्य, छाया न स्यात्तरोः कथम् ? ॥७८ ॥ साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव ॥ ततस्तस्यै ददौ भूप-स्तृतीयेप्यहि वारकम् ॥ ७९ ॥ प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया ॥ तरोस्तस्याभवच्छाया-ऽधस्तादूर्धन्तु नाऽभवत् ॥८॥ आख्यानमन्यदाख्याही-त्युक्ता मदनया पुनः ॥ सावादीत् क्वाप्यभूदामे, कोपि दासेरपालकः ॥ ८१ ॥ तस्य चैको महाकायो, रवणोन्तर्वणं चरन् ॥ एकं बबूलमद्राक्षीत् , फलपुष्पभराकुलम् ॥ ८२ ॥ ततः स तं द्रुममभि-ग्रीवां प्रासारयन्मुहुः ॥ पत्रमात्रमपि प्राप, न तु तस्य महातरोः ॥ ८३ ॥ जातकोपस्ततस्तस्य, द्रुमस्यो क्रमेलकः ॥ विण्मूत्रे व्यसृजत्को वा, कदर्येभ्यो न कुप्यति ? ॥ ८४ ॥ मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् ॥ तस्योपरि शकृन्मूत्रे, स दासेरो व्यधात्कथम् ? ॥ ८५ ॥राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् ॥ तुर्येप्यहि ततो राजा, तस्यै वारकमार्पयत् ॥ ८६॥ ततो दात्या तया पृष्टा, प्रोचे कनकमंजरी ॥ बबूलः स हि कूपेभू-तत्तं प्सातुं