SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ॥ १५२ ॥ उत्तराष्ययनसूत्रम् उपरमन्ते 'भोगेत्ति' भोगेभ्यो यथा स नमी राजर्षिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ ६२ ॥ इति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेषं प्रस्तूयते तवेदं अथ नग्गतिसंज्ञस्य, सम्बुद्धस्याम्रपादपात् ॥ तुर्यप्रत्येकबुद्धस्य, कथां वक्ष्यामि तद्यथा ॥ १ ॥ अत्रैव भरतक्षेत्रे, देशे गान्धारसंज्ञके ॥ श्रीपाण्डुवर्धनपुरे, राजा सिंहरथोऽभवत् ॥ २ ॥ अन्यदा तस्य भूभर्त्तु-द्वयश्वावुत्तरापथात् ॥ उपायने समायातौ शत्रवाजिविजित्वरौ ॥ ३ ॥ तयोर्मध्ये बभूवैक- स्तुरङ्गो वक्रशिक्षितः । तमारोहन्नृपो देवा - द्वितीर्यं तु तदङ्गजः ॥ ४ ॥ ततः सैन्यान्वितो राजा, निर्गत्य नगराद्वहिः ॥ वाहकेलीगतो वाह-वाहनार्थ प्रचक्रमे ॥ ५ ॥ प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच्च तम् ॥ ततः स तुरगः सिन्धु-पूरादप्यचलङ्कृतम् ॥ ६ ॥ तं रक्षितुं नृपो वल्गा - माचकर्ष यथा यथा । तथा तथा हयो जज्ञे, जवनः पवनादपि ॥ ७ ॥ गच्छन्नेवं योजनानि, द्वादशातिगतो हयः ॥ तमरण्येऽनयन्नद्याः, पूरस्तरुमिवोदधौ ॥ ८ ॥ आकृष्याकृष्य निर्विण्णो, वल्गां तत्रामुचन्नृपः ॥ तुरङ्गमोपि तत्रैव, तस्थौ तत्क्षणमात्मना ॥ ९ ॥ ततस्तं वाजिनं ज्ञात्वा, भूशको वक्रशिक्षितम् ॥ बद्धा कापि द्रुमे भ्राम्यन्, प्राणवृत्तिं व्यधात्फलैः ॥ १० ॥ रात्रिवासाय चारूढो, गिरिमेकं महीपतिः ॥ ददर्शकं दर्शनीयं प्रासादं सप्तभूमिकम् ॥ ११ ॥ तस्य मध्ये प्रविष्टश्वा - द्राक्षीदेकां मृगेक्षणाम् ॥ रूपलावण्यतारुण्य - तिरस्कृतरतिश्रियम् ॥ १२ ॥ ससम्भ्रमं समुत्थाय, प्रमोदभरमेदुरा ॥ ददौ साप्यासनं तस्मै, सोऽपि तस्मिन्नुपाविशत् ॥ १३ ॥ मिथस्तावन्वरज्येतां, क्षणाहूतीकृतेक्षणौ ॥ अन्योन्यदर्शनोद्भूत - लेहावेशहतत्रपौ ॥ १४ ॥ कासि त्वं १ सुभगे ! किञ्च तिष्ठस्येकाकिनी बने ? ॥ अथेति भूभुजा पृष्टा, सोत्कण्ठं सैवमब्रवीत् ॥ १५ ॥ भवनेस्मिन्वेदिकायां, पूर्वमुद्वह मां प्रभो ! ॥ पश्चास्वस्थमनाः सर्व, वक्ष्ये वृत्तान्तमात्मनः ॥ १६ ॥ तत्कर्णामृतमाकर्ण्य, वाक्यं तस्या धराधिपः ॥ सरसं भोजनं प्राप्य, बुभुक्षुरिव पिप्रिये ॥ १७ ॥ भवने तत्र सानन्दं प्रविष्टश्च जिनालयम् ॥ सोऽपश्यत्तस्य तु पुरो, वेदिकां शुभबेदिकाम् ॥ १८ ॥ ततो नत्वा जिनं सन्ध्या-समये वेदिकां गतः ॥ गान्धर्वेण विवाहेनो-विशस्तामुदुवाह सः ॥ १९ ॥ aat are गवा, विलासैर्विविधैः सुखम् ॥ अतिवाह्य निशां प्रातस्तौ जिनेन्द्रं प्रणेमतुः ॥ २० ॥ राज्ञः सिंहासनस्थस्यो-पविष्टार्धासने मुदा ॥ साथ राज्ञी जगौ राजन् ! वार्ता मे श्रूयतामिति ॥ २१ ॥ अत्रैव भरतक्षेत्रे, शालिलक्ष्मीविभूषिते ॥ क्षितिप्रतिष्ठितपुरे - ऽभवद्विजितशत्रुराट् ॥२२॥ स चान्यदा सभामेकां, कारयित्वा मनोहराम् ॥ सर्वा चित्रकर श्रेणी-माहूयैवमवोचत ॥ २३ ॥ यावन्ति वो गृहाणि स्यु- र्भागैस्तावन्मितैरियम् ॥ चित्रणीया सभा चित्रै - श्वित्रैश्वित्रैकहेतुभिः ॥ २४ ॥ प्रमाणमाज्ञेत्युक्त्वाथ, नैके चित्रकृतोपि ताम् ॥ आरेभिरे चित्रयितुं, करस्तेषां स एव हि ॥ २५ ॥ तत्र चैको जरी चित्र - करश्चित्राङ्गदाभिधः ॥ अचित्रयत्सभां नित्य-मसहायः सुतोज्झितः ॥२६॥तस्य चैकाभवत्पुत्री, नाम्ना कनकमंजरी ॥ रूपयौवनचातुर्य- कलासर्वस्वसेवधिः ॥ २७ ॥ सा प्रत्यहं सभास्थस्य, गत्वा भक्तमदात् पितुः ॥ स तु तस्यामागताया - मगान्नित्यं वहिर्भुवि ॥ २८ ॥ अन्येद्युर्भक्तमादाय, प्रस्थिता सा जनाकुले ॥ राज्यमार्गे ययौ याव - त्कनी मन्थरगामिनी ॥ २९ ॥ तावत्तत्र जवेनाद्रि - वाहिनीपूरजिष्णुना ॥ वाहयन्तं हयं भूप-मश्ववारं ददर्श सा ॥ ३० ॥ ततो भीता प्रणष्टा सा, गते तत्र सभामगात् ॥ सभक्तामागतां तां च, वीक्ष्य वृद्धो बहिर्ययौ ॥ ३१ ॥ तस्य पुत्री तु तत्रस्था, कौतुकात्कुट्टिमेऽलिखत् ॥ विविधैर्वर्णकैरेकं, केकिपिच्छं यथास्थितम् ॥ ३२ ॥ अत्रान्तरे सभां द्रष्टुं तत्रायातो महीपतिः ॥ तत्केकिपिच्छमादातुं चिक्षेप करमअसा ॥ ३३ ॥ तत्पिच्छं तत्करे नागा- न्नखभङ्गस्त्वजायत । प्रवृत्तिर्हि विना तत्त्व-ज्ञानं स्यान्निष्फला नृणाम् ॥ ३४ ॥ ततो विलक्षं क्ष्मापालं, वीक्षमाणमितस्ततः ॥ सविलासं विहस्येति, प्रोचे कनकमअरी ॥ ३५ ॥ मञ्चको हि त्रिभिः पादैः, स्थितो न भवेदिति ॥ पश्यन्त्यास्तुर्यपादं मे, तुर्यमूर्खोऽमिलद्भवान् ॥ ३६ ॥ केऽन्ये त्रयः कथञ्चाहं, तुर्यः ? इत्यवनीभृता ॥ पृष्टा सा पुनरित्यूचे, तं राजानमजानती ॥ ३७ ॥ अहं चित्राङ्गदाहस्य, वृद्धचित्रकृतः सुता ॥ इहस्थस्य पितुर्हतो - रायान्यादाय भोजनम् ॥ ३८ ॥ रहसा भूयसा वाहं, वाहयन्तं चतुष्पथे ॥ अद्यैकं मर्त्यमद्राक्षं स मूर्खः प्रथमो मतः ॥ ३९ ॥ [ युग्मम् ] राजमार्गो हि बालस्त्री - वृद्धाद्यैः सङ्कुलो भवेत् ॥ इति तत्र जवेनाश्वान्, वाहयन्ति न धीधनाः ॥ ४० ॥ निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् ॥ खट्टायामादिमः पादः, कथ्यते बालशाग्रणीः ! ॥ ४१ ॥ द्वितीयस्तु महीपालो - ऽविज्ञातपरवेदनः ॥ शिल्पिनां वेश्मतुल्यांशै - र्योऽदाचित्रयितुं सभाम् ॥ ४२ ॥ सन्ति चित्रकृतोऽनेके - ऽन्येषु सर्वेषु वेश्मसु ॥ मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्व विद्यते ॥ ४३ ॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy