________________
उत्तराप्ययनसूत्रम् ।
॥१५॥ गम्यं । कामेषु च प्रार्थ्यमानेष्ववश्यं भाविनः क्रोधादयते चशा इति कथं न तत् प्रार्थनया दुर्गतिरिति सूत्रद्वयार्थः ॥५४ ॥ इत्थमनेकैरप्युपायैस्तं क्षोभयितुमशक्तः शक्रः किमकरोदित्याह
मूलम्-अवउज्झिऊण माहणरूवं विउरूविऊण इंदत्तं ।
वंदइ अभित्थुणंतो इमाहिं महुराहिं वग्गूहि ॥ ५५ ॥ व्याख्या-अपोय त्यत्तवा ब्रामणरूपं 'विउरूविऊणत्ति' विकृत्य इन्द्रत्वं उत्तरवैक्रियमिन्द्ररूपं वन्दते नमति अभिष्टुवन् स्तुतिं कुर्वन् इमाभिर्वक्ष्यमाणाभिर्मधुराभिर्मनोहराभिर्वाग्भिर्वाणीभिरिति सूत्रार्थः ॥ ५५ ॥ तथा हि
मूलम्-अहो ते निजिओ कोहो, अहो ते माणो पराजिओ।
अहो ते निरकिआ माया, अहो ते लोहो वसीकओ ॥ ५६ ॥ व्याख्या-अहो ! इति विस्मये ते त्वया निर्जितः क्रोधः, यतस्त्वमनमनपवशीकरणाय प्रेरितोपि न क्षुभितः । तथा अहो ! ते मानः पराजितो यस्त्वं मन्दिरं दसत इत्याधुक्तोपि कथं मयि जीवतीदं स्यादिति नाहकृति कृतवान् ! अहो ! ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु मायाजन्येषु प्राकाराहालकोत्सूलकादिषु मनो न विन्यस्तवान् ! तथाऽहो! ते लोभो वशीकृता यस्त्वं हिरण्यादिवर्द्धनाय नोदितोपि इच्छाया आकाशसमत्वमेवाभिहितवान् ! ।। ५६ ॥ तथामूलम्-अहो ते अजवं साहु, अहो ते साहु महवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा॥५७॥
व्याख्या- स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, क्षान्तिः क्रोधाभावः, मुक्तिर्निर्लोभतेति सूत्रद्वयार्थः ॥ ५७ ॥ इत्थं गुणैः स्तुत्वा फलोपदर्शनद्वारेण स्तुतिमाहमूलम्-इहंसि उत्तमो भंते, पेच्चा होहिसि उत्तमो।लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ॥५८॥
व्याख्या-इहास्मिन् लोके असि वर्तसे उत्तमः उत्तमगुणान्वितत्वात् , हे भदंत ! हे पूज्य ! 'पेचत्ति' प्रेस परलोके भविष्यसि उत्तमः, कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्तिं 'गच्छसित्ति' सूत्रत्वाद्गमिष्यसि, नीरजा निष्कर्मेति सूत्रार्थः ॥ ५८ ॥ उपसंहरतिमूलम्-एवं अभित्थुणंतो,रायरिसिं उत्तिमाइ सद्धाए।पायाहिणं कुणंतो, पुणो पुणो वंदए सक्को॥५९॥ न्याख्या-एवमुक्तन्यायेन अभिष्टुवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनवेन्दते प्रणमति शक्रः॥५९॥
मूलम्-तो वंदिऊण पाए, चकंकुसलक्खणे मुनिवरस्स।
__ आगासेणुप्पइओ, ललिअचवलकुंडलतिरीडी ॥ ६०॥ व्याख्या-ततस्तदनन्तरं वन्दित्वा पादौ चक्राशलक्षणो मुनिवरस्य आकाशेन उत्पतितः खर्गाभिमुखं गतः ललिते च ते सविलासतया चपले चञ्चलतया ललितचपले तादृशे कुण्डले यस्य स ललितचपलकुण्डलः सचासौ किरीटी च मुकुटवान् ललितचपलकुण्डलकिरीटीति सूत्रार्थः ॥ ६०॥ शक्रेणैवं स्तूयमानः स मुनिः किमुत्कर्ष व्यधादुत नेत्याहमूलम् नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही,सामण्णे पज्जुवडिओ ॥६१॥
व्याख्या-नमिर्नमयति खतत्त्वभावनया प्रहं करोत्यात्मानं खं नतूत्सेकं नयति । उक्तञ्च-"संतगुणकित्तणेणवि पुरिसा लज्जति जे महासत्ता ॥ इअरा पुण अलिअपसंसणेषि हिअए न मायंति ॥१॥" किम्भूतो नमिः ? साक्षाप्रत्यक्षीभूय शक्रेण चोदितःप्रेरितः त्यक्त्वा गेहं 'पइदेहित्ति' सूत्रत्वाद्विदेही विदेहदेशाधीशः श्रामण्ये पर्युपस्थितः उद्यतो न तु तत्प्रेरणयापि धर्माद्विच्युतोऽभूदिति भाव इति सूत्रार्थः॥११॥ अथामुष्य मुनिमुख्यस्य दृष्टान्तेनोपदेशमाह
मूलम्-एवं करिंति संबुद्धा, पंडिआ पविअक्खणा।
विणिअहति भोगेसु, जहा से नमी रायरिसित्ति बेमि ॥ ६२ ॥ व्याख्या-एवमिति यथामुना नमिनामा मुनिना निश्चलत्वं कृतं तथाऽन्येपि कुर्वन्ति, कीरशाः १ संबुद्धा अवगततत्वाः, पण्डिता निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयाक्रियाम्प्रति प्रवीणाः, ताशाश्च सन्तो विनिवर्तन्ते