________________
॥१५॥
उत्तराप्ययनसूत्रम् मूलम्-हिरणं सुवण्णं मणिमुत्तं, कसं दूसं च वाहणं ।
कोसं वड्डावइत्ता णं, तओ गच्छसि खत्तिआ !॥ ४६॥ व्याख्या-हिरण्यं घटितवर्ण, सुवर्ण ततोऽन्यत् , मणयश्चन्द्रनीलाद्या मुक्ताश्च मौक्तिकानि मणिमुक्तं, काख कांस्यभाजनादि, दूष्यं वस्त्रं, चकारः खगतानेकभेदसूचकः, वाहनं रथाश्वादि, कोशं भाण्डागारं, वर्धयित्वा पूर्ति नीत्वा ततो गच्छ क्षत्रिय ! अयं भावः-यो यः साकांक्षः स स धर्मानुष्ठानायोग्यः, साकांक्षश्च भवान्, आकांक्षणीयखर्णादिवस्तूनां सम्पूर्णत्वाभावादिति सूत्रार्थः ॥ ४६॥ मूलम्-एयमझु निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥१७॥ मूलम्-सुवण्णरुप्पस्स उ पव्वया भवे, सिआ हु केलाससमा असंखया ।
नरस्स लुद्धस्स न ते हिं किंचि, इच्छा हु आगास समा अणंतिआ ॥४८॥ व्याख्या-सुवर्ण च रूप्यं च सुवर्णरूप्यं तस्य, तुः पूर्ती, पर्वताः पर्वतप्रमाणा राशयः ‘भवेत्ति' भवेयुः स्यात्कदाचित् , हुरवधारणे भिन्नक्रमश्च, ततः कैलाससमा एव, न तु लघुगिरिप्रमाणाः, कैलासश्चात्र मेरुरिति वृद्धाः, तेप्यसंख्यकाः संख्यारहिता न तु द्वित्राः, नरस्य लुब्धस्य न तैः ताशैरपि खर्णरूप्यपर्वतैः किञ्चिदपि खल्पमपि परितोषकारणं स्यादिति गम्यं । कुत इत्याह-इच्छा अभिलाषो हुरिति यस्मात् आकाशेन समा आकाशसमा अनन्तिका अन्तरहिता। उक्तश्च-"न सहस्राद्भवेत् तुष्टि-ने लक्षान्न च कोटितः॥न राज्यान्नैव देवत्वा-नेन्द्रत्वादपि देहिनाम् ॥ १॥” इति ॥४८॥ तथामूलम्-पुढवी साली जवा चेव, हिरणं पसुभिस्सह। पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे॥४९॥
व्याख्या-पृथ्वी भूमिः, शालयो लोहितशाल्यादयः, ययाः प्रतीताः, चः शेषधान्यसमुच्चयार्थः, एवोऽवधारणे भिन्नक्रमोऽने योक्ष्यते, हिरण्यं, सुवर्ण, रूप्याद्युपलक्षणमेतत् , पशुभिर्गवादिभिः सह प्रतिपूर्ण समस्तं नैव अलं समर्थ प्रक्रमादिच्छापूर्तये एकस्य जन्तोरिति शेषः । इत्येतत्पूर्वोक्तं 'विजत्ति' विदित्वा तपो द्वादशविधं चरेत्तत एव निःस्पृहतयेच्छापूर्ति सम्भवादनेन च सन्तोष एवाकांक्षापोहे क्षमो न तु वर्णादीत्युक्तं । ततः सन्तुष्टस्य मे खर्णादौ साकांक्षत्वमेव नास्तीति तद्वर्धनोधमो दूरापास्त एवेति सूत्रद्वयार्थः ॥ ४९ ॥ मूलम्-एयम निसामित्ता, हेउकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ५॥ मूलम्-अच्छेरगमब्भुदए, भोए चयसि पत्थिवा! । असंते कामे पत्थेसि, संकप्पेण विहण्णसि ॥५१॥ _ व्याख्या-आश्चर्यमिदं वर्त्तते यत् त्वमेवंविधोपि 'अम्भुदएत्ति' अडतकानाश्चर्यरूपान् भोगान् सजसि हे पार्थिव ! तथाऽसतोऽविद्यमानान् कामान् प्रार्थयसे। तदप्याचर्यमिति सम्बन्धः । अथवा कस्तवात्र दोष ? सङ्कल्पेनोत्तरोत्तरभोगाभिलाषरूपेण विकल्पेन विहन्यसे बाध्यसे, अनन्तत्वादेवं विधसङ्कल्पस्य । परं यो विवेकी स प्राप्तान् कामानप्राप्तकामाकांक्षया न त्यजेद्विवेकी च भवानिति सूत्रार्थः ॥५१॥ मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविदं इणमब्बवी ॥५२॥ मूलम्-सल्लं कामा विसं कामा, कामा आसी विसोवमा।कामे पत्थेमाणा, अकामा जति दुग्गइं॥५३॥
म्याख्या-शल्यमिव शल्पं कामाः शब्दादयः, विषमिव विषं कामा, कामा आशीविषोपमाः, आशीविषः सर्पस्तदुपमाः। किञ्च कामान् प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावाचान्ति दुर्गति, ततः कथं तत्परिहार आचर्य ? असद्भोगप्रार्थनमपि यद्भवता सम्भाषितं तदप्ययुक्तं, मुमुक्षूणां कचिदपि कांक्षाया अभावात् । उक्तं हि-"मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः" इति ॥ ५३॥ कथं पुनः कामान् प्रार्थयमाना दुर्गतिं यान्तीत्साहमूलम्-अहे वयइ कोहेणं, माणेणं अहमा गई। माया गइपडिग्घाओ, लोहाओ दुहओ भयं ॥५४॥
व्याख्या-अधो नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, 'मायत्ति' सुव्यत्ययान्मायया गतेः प्रस्तावासगतेः प्रतिषातो विनाशो गतिप्रतिघातो, लोभात् 'दुहओत्ति' द्विप्रकारमैहिकं पारत्रिकं च भयं, स्वादिति सर्वच