________________
उत्तराम्ययनसूत्रम्
॥१४९॥ देशस्त सर्वत्र सूत्रत्वात् , सर्वमेतदिन्द्रियादि उपलक्षणत्वान्मिथ्यात्वादि च आत्मनि जीवे जिते जितं, ततो वाखारिजयमुपेक्ष्यात्मन एव जये प्रवृत्तोस्म्यहमिति सूत्रत्रयार्थः ॥ ३६ ॥ मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नर्मि रायरिसिं, देविंदोइणमब्बवी ॥३७॥
न्याख्या-स्पष्टं, नवरमेतावता तस्स रागद्वेषाभावं निश्चित्याधुना जिनधर्मस्थैर्य परीक्षितुमिन्द्र इदमवादीत् ॥३७॥ मूलम्-जइत्ता विउले जपणे, भोइत्ता समणमाहणे।दच्चा भुच्चा य जहाय, तओ गच्छसि खत्तिआ! ३८ __ व्याख्या--'जइत्तत्ति' याजयित्वा विपुलान् विस्तीर्णान् यज्ञान् , भोजयित्वा श्रमणब्राह्मणान् , दत्वा द्विजादिभ्यो गोभूमिखर्णादि, भुक्त्वा च मनोज्ञशब्दादीन् , इष्ट्वा च स्वयं यागान् , ततो गच्छ क्षत्रिय ! अनेन यद्यत् प्राणिप्रीतिकरं तत्तद्धर्माय, विप्रादिप्राणिप्रीतिकरश्च यागादि इति सूचितमिति सूत्रार्थः ॥ ३८॥ मूलम्-एअमहं निसामित्ता, हेउकारण चोईओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥३९॥ मूलम्-जा सहस्सं सहस्साणं,मासे मासे गवं दए। तस्सावि संजमो सेओ,अदितस्सावि किंचणं॥४०॥
व्याख्या-यः सहस्रं सहस्राणां दशलक्षाणीत्यर्थः, मासे मासे गवां दद्यात्, तस्याप्येवंविधदातुरपि संयमो हिंसाद्याश्रवविरमणात्मकः श्रेयानतिप्रशस्यः, अददतोपि किञ्चन खल्पमपि वस्तु । एवञ्च संयमस्य प्रशस्यतरत्वं वदता यज्ञादीनां सावधत्वमर्थात् ज्ञापितं । यदुक्तं याज्ञिकैः-“षट् शतानि नियुज्यन्ते, पशूनां मध्यमेहनि ॥ अथमेधस्य वचना-न्यूनानि पशुभित्रिभिः ॥ १॥" ततः पशुहिंसात्मकत्वात्सावद्या एव यागाः। तथा दानान्यपि अशनादीनां धर्मोपकरणानाञ्च धर्माय भवन्ति, वर्णगोभूम्यादीनां तु दानानि प्राण्युपमर्दहेतुत्वात्सावधान्येव सावचत्वाञ्च यागादीनि न प्राणिप्रीतिकराणीतिभाव इति सूत्रार्थः ॥४०॥ मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥४१॥
व्याख्या-प्राग्वन्नवरं जिनधर्मस्थैर्यमवधार्य व्रतं प्रति दाढ्य परीक्षितुमिदमाचचक्षे हर्यश्वः॥४१॥ मूलम्-घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं। इहेव पोसहरओ, भवाहि मणुआहिवा ! ॥ ४२ ॥
व्याख्या-घोरोत्यन्तदुरनुचरः सचासावाश्रमश्च घोराश्रमो गार्हस्थ्यं, तस्यैवाल्पसत्वैर्दुष्करत्वात् । उक्तञ्च"गृहाश्रमपरो धमो, न भूतो न भविष्यति ॥ पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः॥ अन्यं प्रार्थयसे ? आश्रमं दीक्षालक्षणं, नेदं हीनसत्वोचितं भवाशां युक्तं । तर्हि किं युक्तमित्याह-इहास्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पोषधोऽष्टम्यादितिथिषु व्रतविशेषस्तत्र रतः पौषधरतो भव हे मनुजाधिप । अणुप्रताधुपलक्षणश्चैतत्, अस्यैवोपादानं तु पौषधदिनेष्यवश्यम्भावात्तपोनुष्ठानख्यापकं । इह च यद्यद्घोरं तत्तद्धर्माधिनाऽनुष्ठेयं, घोरथायं गृहाश्रम इति घोरपदेन सूचितमिति सूत्रार्थः ॥ ४२ ॥ मूलम् --एअमढे निसामिसा, हेउकारण चोइओ। तओ नमी रायरिसी, देविंदं इमामब्बवी ॥४३॥ मूलम्-मासे मासे उ जो बालो,कुसग्गेणं तु भुंजए।न सो सुअक्खायधम्मस्स,कलं अग्घइ सोलसिं॥४४॥ __व्याख्या-मासे मासे एव तुशब्दस्यैवकारार्थत्वान्नत्वर्धमासादौ यः कश्चिद्धालो निर्विवेकः कुशाग्रेणैष दर्भाग्रेणैव मुंक्ते, न तु कराकुल्यादिभिः । न नैव स तादृशतपोनुष्ठायी, सुष्टु शोभनः सर्वसावधविरतिरूपत्यादाख्यातस्तीर्थकरैः कथितः खाख्यातो धर्मो यस्य स खाख्यातधर्मो मुनिः तस्य कला भागमति अर्हति षोडशी षोडशांशसमोपि न स्यादितिभावः । ततो यत्वाख्यातं न स्यात् तद्घोरमपि धर्मार्थिना नानुष्ठेयं, आत्मघातादिवत् । खाख्यातश्च मुख्यतया मुनिधर्म एव, न तु गृहाश्रमस्ततो गृहाश्रमादयमेव श्रेयानिति । ननु ? पूर्वसूत्रे इहैव 'पोसहरओ भवाहीति' वाक्येन देशविरतेः कर्तव्यता शक्रेणोक्ता, देशविरतश्च बालपण्डित उच्यते, 'समणोवासया मालपंडिआ' इति वचनात्, तत्कथमिह बालशब्देन देशविरतो व्यपदिष्ट इतिचेदुच्यते-देशविरतस्य बालपण्डितत्वे सत्यपि एकादशाविरतिमत्तापेक्षया बाल्यांशस्य प्राधान्यविवक्षयवमुक्तं सम्भाव्यते । दृश्यते हि समये साखादनवतां ज्ञानांशवत्त्वेऽपि तत्प्राधान्यविवक्षया ज्ञानित्वव्यपदेश इति सूत्राथेः ॥४४॥ मूलम्-एअमह निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥४५॥ न्याख्या-पुनर्नीरागतामेव परीक्षितुमदोऽवददिन्द्रः ॥ ४५ ॥