________________
॥१४॥
उचराप्ययनस्त्रम् मूलम्-एअमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥२५॥ मूलम्-संसयं खलु सो कुणइ, जो मग्गे कुणइ घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुविज सासयं ॥२६॥
व्याख्या-संशयं सन्देहं खलु निश्चये स कुरुते यथा कदाचिन्मे गमनं न भवेदपीति यो मार्गे कुरुते गृहं, गमननिमये हि तत्करणायोगात् । ननु गमननिश्चये कुतो मार्गे गृहं न क्रियते इत्याह-यत्रैव वाञ्छितप्रदेशे गन्तुमिच्छेत् 'तत्थेति' सावधारणत्वाद्वाक्यस्य तत्रैव कुर्वीत खस्यात्मना आश्रयः खाश्रयस्तं, ततोऽयमर्थः-इदं तावदिहावस्थान मार्गावस्थानप्रायं तदिह गृहादि न क्रियते, यत्तु जिगमिषितमस्माभिर्मुक्तिपदं तदाश्रयविधाने च प्रवृत्ता एवं वयमिति सिद्धसाधनमेतदपीति सूत्रार्थः ॥ २६ ॥ मूलम्-एअमढे निसामित्ता, हेउकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥२७॥ मूलम्-आमोसे लोमहारे अ, गठिभेए अतकरे।नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ! २८
व्याख्या-आसमन्तात् मुष्णन्तीत्यामोषाश्चौरास्तान् , लोमहारा ये निर्दयतया खविघातशङ्कया च जन्तून् हत्वैव सर्वखं हरन्ति तांश्च, ग्रन्थिभेदा ये घुर्घरककर्तिकादिना प्रन्थिं मिन्दन्ति तांथ, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति शेषः । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! अनेन च यो न्यायी नृपः स चौरादीनिगृह्णाति, न्यायी नूपश्च त्वमिति सूचितमिति सूत्रार्थः ॥ २८॥ मूलम्-एअम निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २९ ॥ मूलम्-असई तु मणुस्सेहि, मिच्छादंडो पजुज्जए।अकारिणोत्थ वज्झंति, मुच्चइ कारगोजणो ॥३०॥
व्याख्या-असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यैर्नर्मिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवेशादिभिर्दण्डो देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्रेत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः मूलम्-एअमहं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी॥ ३१ ॥ व्याख्या-प्राग्वन्नवरमियद्भिः प्रश्नः स्वजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य
ति द्वेषाभावपरीक्षाये विजिगीपुतामूलत्वाद्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ॥ ३१॥ मूलम्-जे केइ पत्थिवा तुम्भ, न नमंति नराहिवा। वसे ते ठावइत्ताणं, तओ गच्छसि खत्तिआ !॥३२॥
न्याख्या-ये केचित् पार्थिवा नृपास्तुभ्यं न नमन्ति हे नराधिप ! हे राजन् ! वशे आत्मायत्तौ तान् नृपान् स्थापयित्वा वशीकृत्येत्यर्थः, ततो गच्छ क्षत्रिय ! । अनेन च यः समर्थो राजा सोऽनमनृपान् नमयति, समर्थपार्थिवश्व त्वमिति सूचितमिति सूत्रार्थः ॥ ३२॥ मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवो ॥ ३३ ॥ मूलम्-जो सहस्सं सहस्साणं, संगामे दुजए जिणे ।एगं जिणिज अप्पाणं, एससे परमो जओ॥३४॥
व्याख्या-यः सहस्रं सहस्राणां दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि संग्रामे दुर्जये जयेदभिभवेत् , स चेदेकं जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एषोनन्तरोक्तः ‘से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन एवातिदुर्जयत्वमुक्तम् ॥ ३४ ॥ ततश्चमूलम्-अप्पाणमेव जुज्झा हि, किं ते जुज्झेण बज्झओ। अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥३५॥
व्याख्या-'अप्पाणमेवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यख, किं १ न किञ्चिदित्यर्थः, ते तव युद्धेन बाबत इति बायपार्थिवानाश्रित्य, एवञ्च 'अप्पाणमेवत्ति' आत्मानं 'जइत्तत्ति' जित्वा सुखं ऐकान्तिकं मुक्तिसुखरूपमेधते प्रामोति ॥ ३५ ॥ कथमात्मन्येव जिते सुखावासिरित्याहमूलम् -पंचिंदिआणि कोहं, माणं मायं तहेव लोभं च । दुजयं चेव अप्पाणं, सबमप्पे जिए जिअं॥३६॥
व्याख्या–पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोमश्च 'दुजयं चेवत्ति' दुर्जयं इति विशेषणं सर्वत्र सम्बध्यते, चः समुचये, एवः पूर्ती, अतति गच्छति अनेकान्यज्यवसायान्तराणीति आत्मा मनः, नपुंसकनि