________________
उत्तराप्षयनवम्
॥१४७॥ इति" न किञ्चिदन्तःपुरादि मदीयमस्ति यत्रातव्यं स्यात् , अत एव मिथिलायां दसमानायां न मे दसते किचन खल्पमपीति सूत्रार्थः ॥ १४ ॥ इदमेव भावयितुमाहमूलम्-चत्तपुत्तकलत्तस्स, निवावारस्स भिक्खुणो । पिन विजए किंचि, अप्पिअंपिन विजए॥१५॥
व्याख्या-त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृष्यादिक्रियस्य मिक्षोः प्रियमिष्टं न विद्यते किञ्चिदल्पमपि, अप्रियमपि अनिष्टमपि न विद्यते । एतेन यदुक्तं नास्ति मे किञ्चनेति तत्समर्थितमिति सूत्रार्थः ॥ १५॥ एवमपि सुखेन वसनं जीवनं कथं स्थादित्याहमूलम् -बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो। सबओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥१६॥
व्याख्या-बहु भूरि खु निश्चये मुनेर्भद्रं सुखं अनगारख भिक्षोरपि सत इति शेषः । कीदृशस्य मुनेरित्याह-सर्वतो वासाभ्यन्तरपरिग्रहादिप्रमुक्तस्य । एक एवाहमित्यन्तो निश्चय एकान्तस्तं अनुपश्यतः पर्यालोचयत इति सूत्रार्थः ॥१६॥ मूलम्-एअमटं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥१७॥ मूलम् -पागारं कारइत्ता णं, गोपुरहालगाणिअ। ओसूलगसयग्घीओ, तओ गच्छसि खत्तिआ॥१८॥
व्याख्या-प्राकारं वप्रं कारयित्वा गोपुराट्टालकानि च । तत्र गोपुराणि प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटोपलक्षणं, अकानि च वप्रकोष्ठकोपरिवर्तीनि रणकरणस्थानानि । 'ओसूलगत्ति' खातिकाः, 'सयग्धीओत्तिशतन्यो यंत्ररूपाः, तत एवं सर्व निराकुलीकृत्य 'गच्छसित्ति' विभक्तिव्यत्ययाद्गच्छ हे क्षत्रिय !। हेतूपलक्षणञ्चेदं, यो यः क्षत्रियः स्यात् स स पुररक्षां कुर्वीत, यथा भरतादिः, क्षत्रियश्च भवानिति सूत्रार्थः ॥ १८ ॥ मूलम्-एअमहं निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी॥ १९ ॥ मूलम्-सद्धं च नगरं किच्चा, तव संवरमग्गलं । खंतीनिऊणपागारं, तिगुत्तं दुप्पधंसगं ॥ २० ॥
व्याख्या-श्रद्धां तत्वरुचिरूपां सर्वगुणाधारतया नगरं पुरं कृत्वा विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते । तपोऽनशनादि बाह्यमेवेह ग्राह्यं, तत्प्रधानः संवरस्तपःसंवरस्तं, अर्गलामित्युपलक्षणत्वादर्गलाकपाट कृत्वा शान्ति क्षमा, निपुणं श्रद्धाप्रत्यनीकस्यानन्तानुबन्धिकोपस्य रोधकत्वेन वैरनिवारणं प्रति कुशलं प्राकारं कृत्वा, उपलक्षणश्चैपा मानादिरोधकानां मार्दवादीनां । 'तिगुत्तंति' तिसृभिरट्टालकोत्सूलकशतघ्नीस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं दुष्प्रधर्षकं परैर्दुरभिभवं, वप्रविशेषणान्येतानि । अनेन प्राकारं कारयित्वेत्यादेः प्रतिवचनमुक्तं ॥ २० ॥ सम्प्रति तु सत्सु प्राकाराहालकेष्ववश्यं योद्धव्यं तच्चायुधेषु वैरिषु च सत्तेव स्यादत आह- . मूलम्-धणुं परकम किच्चा, जीवं च इरिअं सया। धिइं च केअणं किच्चा, सच्चेणं पलिमंथए ॥२१॥
व्याख्या-धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपं उत्साहं कृत्वा, जीवां च प्रत्यंचां च र्यामीर्यासमिति, उपलक्षणत्वाच्छेषसमितीश्च कृत्वा सदा । धृति च धर्माभिरतिरूपां केतनं शृङ्गमयधनुर्मध्ये काष्ठमयमुष्टयात्मकं कृत्वा, तत्केतनं सत्येन मनःसत्यादिना स्त्रायुस्थानीयेन 'पलिमंथएत्ति' बनीयात् ॥ २१ ॥ ततः किमित्याहमूलम्-तवनारायजुत्तेणं, भित्तूणं कम्मकंचुअं । मुणिविगयसंगामो, भवाओ परिमुच्चई ॥ २२ ॥
व्याख्या-तपः षड्विधमाभ्यन्तरं तदेव नाराचो लोहमयो बाणस्तद्युक्तेन प्रक्रमाद्धनुषा भित्वा विदार्य कर्मकञ्चुकं कर्मग्रहणेन चात्मवोद्धतो वैरी भवतीत्युक्तं भवति, वक्ष्यति च"अप्पा मित्तममित्तं च, दुपटिअसुपट्ठिएत्ति” मुनिः साधुः कर्मभेदे जेयस्य जितत्वात् विगतसंग्रामो यस्य स विगतसंग्रामः भवात् संसारात् परिमुच्यते । अनेन सूत्रत्रयेण प्राकारं कारयित्वेत्यादिसूत्रस्य सिद्धसाधनतोक्तेति सूत्रत्रयार्थः ॥ २२ ॥ मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ २३ ॥ मूलम्-पासाए कारइत्ताणं,वद्धमाणगिहाणि अ। वालग्गपोइआओअ,तओ गच्छसि खत्तिआ!॥२४॥
व्याल्पा-प्रासादान् कारयित्वा वर्धमानगृहाणि चानेकधा वास्तुशास्त्रोक्तानि 'वालग्गपोईआओत्ति' देशीभाषया वलभीय कारयित्वा, अशेषरचनाविशेषोपलक्षणश्चैतत् , ततो गच्छ क्षत्रिय ! । अनेन यः प्रेक्षावान् स सति सामर्थ्य गृहादि कारयति, प्रेक्षावांच भवानिति सूचितमिति सूत्रार्थः ॥ २४ ॥