________________
॥१४६॥
उचराप्पयनदधम् व्याख्या--एतमनन्तरोक्तमर्थे निशम्य, हतुः पञ्चावयवाक्यरूपः, कारणचान्ययानुपपत्तिमात्र, ताम्यां चोदितः प्रेरितो हेतुकारणचोदितः, इह च हेतुकारणे कोलाहलकसङ्कलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि-अयुक्तमिदं तव निष्क्रमणमिति प्रतिज्ञा १ । आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः २ । यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तवर्मापिनामयुक्तं, यथा प्राणातिपातादिरिति दृष्टान्तः ३ । आफन्दादिदारुणशब्दहेतुधेदं तव निष्क्रमणमित्युपनयः ४ । तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति ५। पञ्चावयवमनुमानवाक्यमिह हेतुः । आक्रन्दादिदारुणशम्दहेतुत्वं त्वनिष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मात्रं तु शेषावयवविवक्षारहितं कारणं, अनयोः पृथगुपादानं तु साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिदेवेन्द्रमिदमब्रवीदिति सूत्रार्थः ॥ ८॥ यदवादीत्तदाहमूलम्--मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूर्ण बहुगुणे सया ॥९॥
ब्याख्या-मिथिलायां पुरि, चितिरिह प्रस्तावात् पत्रपुष्पाधुपचयस्तत्र साधु चित्यं चित्यमेव चैत्यमुद्यानं तस्मिन् 'वच्छेत्ति' सूत्रत्वादृक्षो विद्यत इति शेषः । कीदृशः ? इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिधः पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः फलादिभिर्भृशमुपकारी सदा सर्वकालं, एकारश्चात्र सूत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति सूत्रार्थः ॥९॥ तत्र किमित्याहमूलम्-वाएण हीरमाणंमि, चेइअंमिमणोरमे । दुहिआ असरणा अत्ता, एए कंदति भो ! खगा ॥१०॥ ___ व्याख्या-वातेन वायुना ह्रियमाणे इतस्ततः क्षिप्यमाणे 'चेइअंमित्ति' चितिरिहेष्टकादिचयस्तत्र साधुर्योग्यो वा चित्यः स एव चैत्यस्तस्मिन् कोऽर्थोऽधोबद्धपीठिके उपरि चोच्छूितपताके मनोरमे मनोहरे तस्मिन् वृक्ष इति शेषः । दुःखं जातं येषां ते दुःखिताः, अशरणास्त्राणरहिता अत एवार्ताः पीडिता एते प्रत्यक्षा क्रन्दन्ति आक्रन्दान् कुर्वन्ति भो! इत्यामंत्रणे खगाः पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्त इति यत्स्वजनाक्रन्दनमुक्तं तत्खगाक्रन्दनप्रायमात्मा च वृक्षकल्पस्तत्वतो हि खल्पकालमेव सहावस्थानेन उत्तरकालं च खगतिगामितया द्रुमाश्रितखगोपमा एवामी खजनादयः । उक्तञ्च-"यद्वद्रुमे महति पक्षिगणा विचित्राः, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेव कुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ १॥ इति" ततथाक्रन्दादिदारुणशब्दानां मनिष्क्रमणहेतुकत्वमसिद्धं, खखकार्यहेतुकत्वात्तेषां । आह च-"आत्मार्थ सीदमानं खजनपरिजनो रौति हाहारवार्तो, भार्या चात्मीयभोगं गृहविभवसुखं खं वयस्याश्च कार्यम् । क्रन्दन्त्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्माच किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥१॥" तथा च सलि भवदुक्ते हेतुकारणे असिद्धे एवेति सूत्रार्थः ॥१०॥ मूलम्-एअम निसामित्ता, हेऊकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥११॥ ___ व्याख्या-एनमर्थ निशम्य हेतुकारणयोः पूर्वोक्तयोश्चोदितोऽसिद्धे भवदुक्ते हेतुकारणे इत्युपपत्या प्रेरितो हेतुकारणचोदितः, ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥ ११ ॥ मूलम्-एस अग्गी अ वाऊ अ, एअं डज्झइ मंदिरं । भयवं अंतेउरं तेणं, कीसणं नाव पिक्खह १२
व्याख्या-एष प्रत्यक्षोऽमिश्च वायुश्च एतत्प्रत्यक्षं दह्यते मन्दिरं गृहं तवेति शेषः, अमिवायू च तदा शक एवादर्शयदिति वृद्धाः, हे भगवन् ! 'अंतेउरतेणंति' अन्तःपुराभिमुखं 'कीसत्ति' कस्मात् 'ण' वाक्यालंकारे नावप्रेक्षसे नावलोकसे ? यद्यदात्मीयं तत्तत्रातव्यं, आत्मीयञ्चेदं तवान्तःपुरादीति सूत्रार्थः ॥ १२ ॥ मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १३ ॥ व्याख्या-स्पष्टं नवरं हेतुकारणचर्चा इहोत्तरत्र च बृहट्ठीकातोवसेयेति ॥ १३ ॥
मूलम्-सुहं वसामो जीवामो, जेसिं मो नत्थि किंच णं ।
मिहिलाए डज्झमाणीए, न मे डज्झइ किंच णं ॥ १४ ॥ व्याख्या-सुखं यथा खादेवं वसामस्तिष्ठामः जीवामः प्राणान् धारयामः येषां 'मोचि' अस्माकं नास्ति किंचन पस्तुजातं यतः-“एकोहं न च मे कश्चित् , खः परो वापि विद्यते । यदेको जायते जन्तु-म्रियते चैक एव हि॥१॥