________________
॥१४५॥
उत्तराप्ययनवम् मूलम्-चइऊण देवलोगाओ, उबवण्णो माणुसंमि लोगंमि ।
उवसंतमोहणिज्जो, सरइ पोराणि जाइं ॥१॥ ब्याख्या-च्युत्वा देवलोकात् शुक्राभिधखर्गात् , उत्पन्नो मानुष्यके लोके मनुष्यभवे, उपशान्त अनुदितं मोहनीयं दर्शनमोहनीयात्मकं यस्य स उपशान्तमोहनीयः, स्मरति पुराणामेव पौराणिकी चिरन्तनी जाति जन्म, वर्तमाननिर्देशस्त्वत्र सर्वत्र तत्कालापेक्षया इति सूत्रार्थः ॥ १॥ ततः किमित्याहमूलम्-जाइं सरित्तु भयवं, सहसंबुद्धोअणुत्तरे धम्मे । पुत्तं ठवित्तु रजे, अभिनिक्खमई नमीराया ॥२॥
व्याख्या-जातिं स्मृत्वा, भगशब्दस्य धैर्यसौभाग्यमाहात्म्ययशोवैराग्यैश्चर्यसूर्यपुण्यप्रयनस्त्रीचिहादिवाचकत्वेनानेकार्थत्वेपि भगशब्दोत्र घटमाने धैर्यादावर्थे वर्त्तते, ततो भगवान् धैर्यादिमान् ‘सहत्ति' खयमेव सम्बुद्धो न त्वन्येन प्रतिबोधितः, केत्याह-अनुत्तरे सर्वोत्कृष्टे धर्मे चारित्रधर्मे, पुत्रं स्थापयित्वा राज्ये अभिनिष्क्रामति प्रव्रज्यामादचे नमिनामा राजेति सूत्रार्थः ॥ २॥ किं कृत्वाभिनिष्क्रामतीत्याहमूलम्-सो देवलोगसरिसे, अंतेउरवरगओवरे भोए । अँजित्तु नमी राया, बुद्धो भोगे परिचयइ॥३॥
व्याख्या-स पूर्वोक्तो देवलोकसदृशान् , इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मञ्चाः क्रोशन्तीत्यादौ मञ्चशब्देन मञ्चस्थपुरुषवत् । ततो देवलोकस्थभोगतुल्यान् 'अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान् मोगान् मनोजशब्दादीन् भुक्त्वानुभूय नमी राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरपशीलविनयानुग्रहार्थमिति सूत्रार्थः ॥ ३ ॥ किञ्च
मूलम्-मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सवं ।
चिच्चा अभिनिक्खंतो, एगंतमहिडिओ भयवं ॥४॥ व्याख्या-मिथिलां मिथिलाभिर्धा नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्तते या सा तथा तां, बलं हस्त्यादिचतुरङ्ग, अवरोधश्चान्तःपुरं, परिजनं परिवारं, सर्व निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजितः एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु “एकोहं नास्ति मे कश्चि-नाहमन्यस्य कस्यचित् ॥ न तं पश्यामि यस्याहं, नासौ दृश्योस्ति यो मम ॥१॥” इति भावनया एक एवाहमित्यन्तो निश्चय एकांतस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थः ॥ ४ ॥ तदा च यदभूत्तदाह
मूलम्-कोलाहलगब्भू, आसी मिहिलाइ पत्वयंतंमि ।
तइआ रायरिसिम्मि, नमिम्मि अभिनिक्खमंतंमि ॥ ५॥ व्याख्या-कोलाहलो विलापादिकलकलः, स एव कोलाहलकः, स भूतो जातो यर्मिस्तत्कोलाहलकभूतं, आसीदभूमिथिलायां सर्व गृहारामदेवकुलादीति गम्यते । प्रव्रजति प्रव्रज्यामाददाने तदा तस्मिन्काले, राजा चासो राज्यावस्थापेक्षया, ऋषिश्च तत्कालापेक्षया राजर्षिस्तस्मिन्नमौ अभिनिष्क्रामति गृहान्निर्गच्छति सतीति सूत्रार्थः ॥५॥ अत्रान्तरे च यदभूत्तदाहमूलम्-अब्भुटि रायरिसिं, पवजाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ॥६॥
व्याख्या-अभ्युत्थितमभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन्नुत्तमे श्रेष्ठे, सूत्रत्वाद्विभक्तिव्यत्ययः, शक्र इन्द्रो माहनरूपेण द्विजवेषेणाऽऽगत्येति शेषः, तदाहि तदाशयं परीक्षितुकामः शक्रः खयमागादिति । ततः स इदं वक्ष्यमाणं वचनमब्रवीदिति सूत्रार्थः ॥ ६ ॥ यदब्रवीत्तदाहमूलम्-किं नु भो अज मिहिलाए, कोलाहलगसंकुला। सुच्चंति दारुणा सहा, पासाएसु गिहेसुअ॥७॥ ___ व्याख्या-किमिति प्रश्ने, नु इति वितर्के, भो! इत्यामंत्रणे, अघ मिथिलायां पुर्या कोलाहलकेन बहलकलकलरूपेण सकुला व्याप्ताः कोलाहलकसकुलाः श्रूयन्ते ? दारुणा हृदयोद्वेगकराः, शब्दा विलापाक्रन्दादयः, प्रासादेषु, रहेषु तदितरेषु, च शब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥७॥ ततश्चमूलम्-एअमहं निसामित्ता, हेऊकारणचोइओ। तओ नमिरायरिसी, देविंदं इणमब्बवी ॥८॥