________________
॥ १४२ ॥
उचराप्यमनस्त्रम्
तुझेषु, योजनानि सिसतिम् ॥ ११० ॥ चतुर्विशं शतं सन्ति, प्रतिमाः शाश्वताईताम् ॥ सर्वरत्नमयाः वच-कु व्रतसमुच्छ्रयाः ॥ १११ ॥ [ युग्मम् ] ततो विमानादुत्तीर्य, मदनाखेचरौ मुदा ॥ पूजापूर्वमत्रन्देतां, ऋषभाधान जिनोत्तमान् ॥ ११२ ॥ चतुर्ज्ञानघरं तं च मणिचूडमहामुनिम् ॥ तावुभावपि वन्दित्वा यथौचित्वं न्यकदताम् ॥ ११३ ॥ ततो ज्ञानेन विज्ञाय, मदनाचरितं मुनिः ॥ धर्मे मणिप्रमायेति, समयाईमुपादिशत् ॥ ११४ ॥ - च परत्र-निदानं सम्पदां पदम् ॥ पालनीयं यथाशक्ति, सर्वतो देशतोऽथवा ॥ ११५ ॥ सर्वखीणां परित्यागे, सर्वतो ब्रह्म कथ्यते ॥ परनारीनिषेधे तु तदुक्तं देशतो जिनैः ॥ ११६ ॥ ततो यः सकला नारी- विहातुं न प्रभुवेत् ॥ तेनापि पररामा तु, त्याज्या नरकदायिनी ॥ ११७ ॥ नरः परस्त्रियां रक्तः, क्षणिकं सुखमीक्षते ॥ न तु तत्सङ्गमोत्पन्न-मनन्तं दुःखमायतौ ॥ ११८ ॥ परस्त्रीसेवनात्सौख्य-मभिकांक्षति यो जडः ॥ विषवल्लीफलाखादास हि वाञ्छति जीवितम् ! ॥ ११९ ॥ तत्कलङ्ककुलस्थानं, कीर्तिवलीकुठारिका ॥ हेया पराङ्गनाऽवश्यं, नरकाध्वप्रदीपिका ॥ १२० ॥ श्रुत्वेति खेचरो बुद्धः, क्षमयित्वा स तां जगौ ॥ अथ त्वमसि जामिर्मे, ब्रूहीष्टं किं करोमि ते ॥ १२१ ॥ सापि प्रीतात्रवीद्धातः !, सर्वमिष्टं त्वया कृतम् ॥ इदं दर्शयता तीर्थ, वच्मि तत्किमतः परम् ॥ १२२ ॥ अथ मे लघुपुत्रस्य, वृत्तान्तं कथय प्रभो ! ॥ तयेत्युक्तो मुनिः प्रोचे, शृणु भद्रे ! समाहिता ॥ १२३ ॥ इहैव जम्बूद्वीपे प्राग् - विदेहावनिमण्डने ॥ विजये पुष्कलावत्यां पुरे श्रीमणितोरणे ॥ १२४ ॥ जज्ञेऽमितयशाची, तस्य पुष्पवती प्रिया ॥ तयोश्चास्तां सुतौ पुष्प- शिखरलशिखाभिधौ ॥ १२५ ॥ [ युग्मम् ] राज्यं चतुरशीतिं स - पूर्वलक्षाः प्रपाल्य तौ ॥ प्रात्राजिष्टां भवोद्विनौ, चारणश्रमणान्तिके ॥ १२६ ॥ चारित्रं पालयित्वा च, पूर्वलक्षाणि पोडश ॥ अभूतामच्युते कल्पे, शक्रसामानिकौ सुरौ ॥ १२७ ॥ द्वाविंशतिं सागराणि, तत्र जीवि - तमुत्तमम् ॥ दिव्यैः सुखैर्नवनवे - रतिवाह्य च्युतौ च तौ ॥ १२८ ॥ धातकीखण्डभरते, हरिषेणार्धचक्रिणः ॥ समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ॥ १२९ ॥ [ युग्मम् ] आद्यः सागरदेवाहो - ऽपरः सागरदत्तकः ॥ दृढसुत्रतसार्वान्ते, दान्तौ प्रात्रजतां च तौ ॥ १३० ॥ तृतीये चाहि सुध्यानौ, तडित्पातेन मारितौ ॥ जातौ शुक्रे सुरौ सप्त- दशसागरजीवितौ ॥ १३१ ॥ द्वाविंशस्यार्हतो नेमे-र्ज्ञानोत्पत्तिमहोत्सवम् ॥ विधातुं तौ गतौ देवा - विति प्रभुमपृच्छताम् ॥ १३२ ॥ इतो भवाश्च्युतावावां, कुत्रोत्पत्स्याव हे प्रभो ! ॥ स्वाम्यूचेनैव भरते, मिथिलाख्यास्ति सत्पुरी ॥ १३३ ॥ तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः ॥ भावी सुदर्शनपुरे, युगबाहोः परः पुनः ॥ १३४ ॥ तत्वतस्तु युवां तत्र, पितापुत्रौ भविष्यथः ॥ इत्यईद्वाक्यमाकर्ण्य, तौ देवौ जग्मतुर्दिवम् ॥ १३५ ॥ तयोश्चैकच्युतः पूर्व, विदेहाभिधनीवृति ॥ मिथिलायां महापुर्या, जयसेनस्य भूपतेः ॥ १३६ ॥ महिष्या वनमालायाः, कुक्षौ समवतीर्णवान् ॥ क्रमाज्जातं च तं प्रोचे, नाम्ना पद्मरथं नृपः ॥ १३७ ॥ [ युग्मम् ] यौवनस्थं च तं राजा, राज्ये न्यस्याददे व्रतम् ॥ ततः पद्मरथो राज्यं, शास्ति शस्तपराक्रमः ॥ १३८ ॥ द्वितीयस्तु सुरश्युत्वा भद्रे ! तव सुतोऽभवत् ॥ तञ्च रम्भागृहे मुक्त्वा, यावत्त्वं सरसीं गता ॥ १३९ ॥ तावत्तत्रागतः पद्म-रथोश्वापहृतो भ्रमन् ॥ तं प्रेक्ष्य प्राग् भवप्रेम्णा, प्रमोदाद्वैतमासदत् ॥ १४० ॥ दुःस्थो निधिभिव सेहा - धावद्राजा तमाददे ॥ तावत्तत्सैन्यमप्यागा-तत्र वाजिपदानुगम् ॥ १४१ ॥ गजारूढस्ततो राजा पुर्या गत्वा तमार्पयत् ॥ महिष्याः पुष्पमालाया - चक्रे जन्मोत्सवं तथा ॥ १४२ ॥ पुण्यवांस्ते सुतो भद्रे !, ससुखं तत्र वर्धते ॥ सन्निधिः सन्निधिस्थायी, पुण्यं हि प्राणिनां भवे ॥ १४३ ॥ एवं मुनौ वदत्येव, मणिस्तम्भविभूषितं ॥ किङ्किणीजालमुखरं, रुचिन्यञ्चितभास्करम् ॥ ॥ १४४ ॥ शोभितं तोरणैर्द्वार - मुखपत्रलतोपमैः ॥ लम्बमानोड्डुमालाभ - मुक्तादामविराजितम् ॥ १४५ ॥ उन्तुङ्गशिखरं सूर्य-ध्वानापूर्णदिगन्तरम् ॥ रम्यं विमानं तत्रैक-मन्तरिक्षादवातरत् ॥ १४६ ॥ [ त्रिभिर्विशेषकम् ] तस्माच्च निरगादेकः, सुरो भासुरभूषणः ॥ अमरीनिकरप्रोक्त-जयशब्दो महामहाः ॥ १४७ ॥ स त्रिः प्रदक्षिणीकृत्य, मदनामादितोऽनमत् ॥ मुनिं तु पश्चादानम्य, यथास्थानमुपाविशत् ॥ १४८ ॥ निरीक्ष्यानुचितं तच दूनचेता मणिप्रभः ॥ इत्युवाचामरं वाचा, न्यायपादपकुल्यया ॥ १४९ ॥ सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः ॥ त एव चेता लुम्पन्ति, तदान्येषां किमुच्यते १ ॥ १५० ॥ कलितं सकलैः साधु-गुणैर्दोषैर्विनाकृतम् ॥ मुक्त्वा मुनिम देव !, किं त्वया प्राग् नताङ्गना ॥ १५१ ॥ सुरोऽब्रवीदिदं सत्यं शृणु किं त्विह कारणम् ॥ आसीत्सुदर्शनपुरे, राजा मणिरथाभिधः ॥ १५२ ॥ तेन स्वभ्रातृजायार्थ, युगबाहुर्निजोऽनुजः ॥ शिरोधावसिना जम्ने, वसन्ते