________________
॥१४॥
उत्तरायगनसूत्रम्। तथपोहाय तत्रैवा-रण्ये रम्भागृहेऽखपीत् ॥ ७१ ॥ क्रमान पग्रिनीनाथे, रागवत्यपरागते ॥ तहुःखादिव सङ्कोच-माश्रिते पमिनीकुले ॥ ७२ ॥ रविकण्ठीरवाभावा-निःशकं. भुवने वने ॥ विहरत्सु तमःपुज-कुआरेषु निरन्तरम् ॥ ७३ ॥ उडुपूजृम्भमाणेपु, निशावल्लीसुमेष्विव ॥ निशावियुक्ते चक्राङ्ग-चके क्रन्दति दारुणम् ॥ ७४ ॥ तमोमिव्याप्तिगहनी-भूते च गहनान्तरे ॥ रात्रिोतेत्यवहिता, सा बभूव महासती ॥ ७५ ॥ [ चतुर्भिः कलापकम् ] तदा च व्याघ्रसिंहादि-गुजितैयूंकघूत्कृतैः ॥ घोणिघोणारवाल-फूत्कृतैः फेरुफेत्कृतैः ॥ ७६ ॥ विभ्यती सा नमस्कार-मंत्रं सस्मार मानसे ॥ स हि सर्वाखवस्थासु, सहायो हेतुमन्तरा ॥ ७७॥ [युग्मम् ] अर्धरात्रे च तत्कुक्षा-वुत्पेदे भूयसी व्यथा ॥ मार्गश्रमभयोद्भत-गर्भसञ्चलनोद्भवा ॥ ७८ ॥ सुषुवे साथ कृच्छेण, सुतं लक्षणलक्षितम् ॥ तत्स्पर्धयेव पूर्वापि, बालार्क सुषुवे तदा ॥ ७९ ॥ तयोरेव तदा जज्ञे, बालयोरुपमा मिथः ॥ सचक्रानन्दिनोस्तेज-खिनोः कोमलपादयोः ॥ ८० ॥ कन्धरालम्बितयुग-बाहुनामाकमुद्रिकम् ॥ तं बालं तत्र मुक्त्वाथ, रत्नकम्बलवेष्टितम् ॥ ८१॥ खं मनो रक्षकमिव, तत्समीपे विमुच्य सा ॥ यगौ सरसि वासांसि, क्षालयामास तत्र च ॥८२॥ [ युग्मम् ] मज्जनाय प्रविष्टां च, तटाके तां जलद्विपः ॥ धावन् करेण जग्राह, बकोट: शफरीमिव ॥ ८३ ॥ उच्चैरुल्लालयामास, तां स कन्दुकलीलया ॥ आयाति दुर्दशायां हि, खाजन्यादिव दुर्दशा ॥ ८४ ॥ पतन्तीमम्बरात्तां च, नेत्रकैरवकौमुदीम् ॥ विद्याधरोऽग्रहीनन्दी-श्वरद्वीपं ब्रजन् युवा ॥ ८५ ॥ वैताब्धे तेन नीना च, रुदती सा तमत्रवीत् ॥ गतरात्रौ महाभाग !, प्रसूतास्मि सुतं वने ॥८६॥ तं च रम्भागृहे मुक्त्वा स्नानार्थ सरसीं गता ॥ जलद्विपेनोत्क्षिप्ताहं, पतंती भवताऽऽददे ॥ ८७॥ तत् श्वापदेन केनापि, स बालो मारयिष्यते ॥ आहारविरहाद्यद्वा, खयमेव मरिष्यति ! ॥ ८८ ॥ तन्मे पुत्रप्रदानेन, प्रसादं कुरु सुन्दर ! ॥ तमिहानय तत्राशु, नय मां वा नयाश्रय !॥ ८९ ॥ उवाच खेचरश्चेन्मां, रमणं प्रतिपद्यसे । तदा सदा दास इवा-5s देशकारी भवामि ते ॥ ९०॥ किश्चात्र शैले गान्धार-देशे रत्नावहे पुरे ॥ श्रेणिद्वयप्रभुरभू-मणिचूडाभिधो नृपः ॥९१॥ तस्य पुत्रोस्मि कमला-वतीकुक्षीसमुद्भवः ॥ नाना मणिप्रभो भूरि-महाविद्याबलान्वितः ॥ ९२ ॥ अन्यदा मत्पिता श्रेणि-द्वयराज्यं प्रदाय मे ॥ चारणश्रमणोपान्ते, विरक्तो व्रतमाददे ॥९३॥ क्रमाञ्च विहरनत्रा-ऽऽगतः सोऽभूगतेऽहनि ॥ चैत्यानि वन्दितुं नन्दी-श्वरे चाध गतोऽधुना ॥९४ ॥ तञ्च नन्तुं ब्रजस्तत्र, त्वां पतन्तीं विहायसः ॥ कल्पवल्लीमिवानन्द-दायिनीमहमाददे ॥ ९५ ॥ ततो यथा रक्षिता त्वं, पतनोपद्रवान्मया ॥ मदनोपद्रवाद्भद्रे !, तथा त्वमपि रक्ष माम् ॥ ९६ ॥ अन्यच त्वत्सुतं पाहा-पहृतो मिथिलापतिः॥ निरपत्योऽग्रहीत्पद्म-रथराट् पर्यटन् वने ॥ ९७ ॥ क्षणान्मिलितसैन्यश्च, गत्वा पुर्या तमार्पयत् ॥ महिष्याः पुष्पमालायाः, सापि तं पाति पुत्रवत् ॥ ९८॥ प्रज्ञप्तीविद्यया ह्येत-न्मयोक्तं तच्च नान्यथा ॥ तत्प्रसीद शुचं मुञ्च, सफलीकुरु यौवनम् ॥ ९९ ॥ मां विधायाधिपं सर्व-खेचरीणां भवेश्वरी ॥ दृशा वाचा च मां रक्तं, सम्भाव सुलोचने ! ॥ १०० ॥ तदाकर्ण्य सती दध्यौ, विपाकः कर्मणामहो! ॥ अन्यान्यव्यसनाऽङ्कर-पूधात्री गवामि यत् । ॥१.१॥ विहाय पुत्रसाम्राज्य-परिच्छदधनादिकम् ॥ यत्रातुं निरगा भङ्ग-स्तस्येहाप्युपतिष्ठते । ॥१०२॥ तत् प्राणिनामपुण्यानां, गरीयानप्युपक्रमः ॥ दुःखायैव भवेत्किं वा, पौरुषं विमुखे विधौ १ ॥ १०३ ॥ यदुक्तं-"छित्त्वा पाशमपास्य कूटरचनां भक्त्वाबलाद्वागुरां ॥
पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ॥ व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः ।
कूपान्तः पतितः करोतु विधुरे किं वा विधी पौरुषम् ? ॥ १०४ ॥" सत्यप्येवं मया शीलं, नैव त्याज्यं कथञ्चन ॥ पीडनव्यसनेपीक्षु-माधुर्य किं विमुञ्चति ? ॥ १०५ ॥ अयश्च मदनोन्मादो-न्मत्तो वेत्ति न किञ्चन ॥ तदुपायेन केनामुं, दुर्बोध बोधयाम्यहम् ॥ १०६ ॥ अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् ॥ स हि प्रशस्थत प्रा-रशुभे समुपस्थिते ॥ १०७ ॥ ध्यात्वेति साभ्यधाहक्ष !, नीत्वा नन्दीपरेऽद्य माम् ॥ देवान् वन्दय तत्राहं, करिष्यामि तव प्रियम् ॥ १०८ ॥ ततः स तां विमानस्थां, हृष्टो नन्दीश्वरेऽनयत् ॥ तत्र चाहद्गृहाः सन्ति, द्वापञ्चाशदनश्वराः ॥ १०९ ॥ दीर्धेषु योजनशतं, तदर्धे पृथुलेषु च ॥ चैत्येषु तेषु