________________
॥१४॥
उत्तराप्पयनसूत्रम् मिलशैलूष-प्रयोगारन्धनर्तनाः ॥ दधलीनटील-त्पलबोलासिहस्तकाः ॥ २७ ॥ माकन्दमजरीपुख-मधुगुलर लिब्रजम् ।। कोकिलध्वनिमंत्रास्त-मानिनीमानकुप्रहम् ॥ २८ ॥ पुष्पिताशोकतिलक-लवङ्गबकुलाकुलम् ॥ विले. रकुसुमस्रस्त-परागल्लिनभूतलम् ॥ २९ ॥ क्रीडासक्तप्रियायुक्त-व्यक्तकिन्नरसेवितम् ॥ पोरगौरपौरखी-गीतानीतमृगग्रजम् ॥ ३० ॥ वसन्तसङ्गमाद्रम्य-मुधानं रन्तुमुद्यतः ॥ प्रमदात्प्रमदायुक्तो युगवार्ययो तदा ॥३१॥
पञ्चभिः कुलकम 1 दिनं च नानालीलामि-रतिवास स निश्यपि ॥ तत्रैवास्थादल्पतंत्रो, रम्भावेश्मनि चालपीत् ॥ ३२ ॥ तदा मणिरयो दध्यौ, खल्पतंत्रो ममानुजः ॥ निशान्यासतमोघोरे, बायोधानेऽद्य तिष्ठति ॥३३॥ तत्तत्र गत्वा तं हत्वा, पूरयिष्यामि कामितम् ॥ ध्यात्वेति खङ्गमादाय, ययावुद्यानमुद्यतः ॥ ३४ ॥ यामिकानिति चाप्राक्षी-धुगबाहुः क विद्यते ? ॥ रम्भागृहेत्र सुतोस्ती-त्यूचिरे तेपि सम्भ्रमात् ॥ ३५ ॥ मा भूदातुर्वनस्थखो-प. द्रवः कश्चिदित्यहम् ॥ इहागामिति सजल्पन् , सोपि रम्भागृहेऽविशत् ॥ ३६ ॥ ससम्भ्रमं समुत्याय, नमन्तं स्मार चानुजम् ॥ भ्रातात्र निशि स्थातुं, युक्तमागच्छ तत्पुरे ॥ ३७ ॥ उल्लंघ्या नामजस्थाज्ञा, तातस्पेवेति चिन्तयन् ॥ युगबाहुस्ततो याव-त्पुरे गन्तुं प्रचक्रमे ॥ ३८ ॥ तावत्पापापकीर्त्यादि-भयमुत्सृज्य दुर्मतिः ॥ प्रीवायामसिना भूप-स्तं विश्वस्तं जघान सः ! ॥ ३९ ॥ प्रहारवेदनाक्रान्ते, तसिंच पतिते भुवि ॥ अहो। अक्षत्रमक्षत्रं, पूष. कारेति तत्प्रिया ॥४०॥ ततो दधाविरे कृष्ट-मण्डलायोटा नटाः। किमेतदस्तीत्यूचाना-नित्यूचे तांश्च भूपतिः ॥४१॥ मत्करात्पतितः खगः, प्रमादात्तदलं मिया ॥ तेनेत्युक्ते च तेऽजानन्, सर्व तस कुचेष्टितम् ॥१२॥ ततो मणिरथं दूर-मप सार्य बलेन ते ॥ युगबाहोः खरूपं तत्, तत्पुत्राय न्यवेदयन् ॥४३॥ सोपि शोकाकुलो वैवान् , समाहूयागमहने ॥ प्रणकर्माणि यत्नेन, पितुथाकारयत्कृती ॥४४॥ क्षणान्तरे च निधेष्टो, नष्टवाग्मीलितेक्षणः ॥ युगवाहुरभूद्रक्त-निर्गमात्पाण्डुविग्रहः ॥४५॥ ततो ज्ञात्वा तमासन्न-मृत्यु धीरा मृदुखरम् ॥ प्रोचे मदनरेखेति, सत्कर्णाभ्यर्णमाश्रिता ॥ ४६ ॥ धीर ! धीरत्वमादृत्य, चेतःखास्थ्यमुरीकुरु ॥ कस्याप्युपरि रोष च, मा कास्त्विं धियांनिधे । ॥ ४७ ॥ सहख व्यसनं घेद-भागतं निजकर्मणा ॥ अपराध्यति जन्तोर्हि, निजं कमेव नापरः ॥ ४८ ॥ उक्तञ्च-"जं जेण कयं कम्मं, अन्नभवे इहभवे अ सत्तेणं ॥ तं तेण वेइअवं, निमित्तमित्त परो होइ ॥४९॥" किश्चाईत्सिद्धनिर्ग्रन्थ-धर्माणां शरणं कुरु ॥ जीवहिंसादीनि पाप-स्थानान्यष्टादश त्यज ॥५०॥ महामते ! गृहाण त्वं, परलोकाध्वशम्बलम् ॥ शल्यवहुःखदानिन्द, दुराचारान् पुराकृतान् ॥५१॥ धमयखापराघच, सर्वेषां प्राणिनां प्रभो ! ॥ तत्कृतानपराधांच, क्षमस त्वमपि खयम् ॥५२॥ नाशयेनिजमेवार्थ, देषस्तस्माद्विमुश्च तम्॥ सुहदो मम सर्वेपि, जीवा इति विभावय ॥५३॥ देवं सर्वज्ञमहन्तं, गुरुंच गुणिनो मुनीन् । धर्म जिनप्रणीतं च, यावजीवमुरीकुरु ॥ ५४ ॥ जीवहिंसानृतस्तेया-प्रमचर्यपरिप्रहान् ॥ त्रिविधं त्रिविधेन त्वं, प्रत्याख्याहि महामते ! ॥५५॥ धनखजनमित्रादा-बभिष्वङ्गश्च मा कृथाः ॥ न हि प्राणभतां तानि, भवेयुः शरणं भवे ॥ ५६ ॥ धर्मो धनं सुहद्वन्धु-रिति चान्तर्विभावय ॥ दुःखहत्सुखदाता च, यत्स एवात्र जन्मिनाम् ॥ ७ ॥ इदानी मुञ्च सावध-माहारश्च चतुर्विधम् ॥ उच्छासे चरमे देह-मपि व्युत्सृज धीर ! हे ॥ ५८ ॥ स्मृतेन वेष पापोपि, जन्तुः स्थानियतं सुरः । परमेष्ठिनमस्कार-मंत्र तं स्मर मानसे ॥ ५९॥ इत्यादि तद्वचः सर्ष, खमौलिरचिताअलिः ॥ युगवाहुः प्रतिपेदे, विपेदे च क्षणान्तरे ॥ ६०॥ पञ्चमे सुरलोके च, शक्रतुल्यः सुरोऽभवत् ॥ महो! मही
महीयान महिमा. धर्मस्य घमणेरपि ॥६१॥ ततः प्रववृते चन्द्र-यशाः क्रन्दितुमुन्मनाः॥दच्यो मदनरेखा तु, धीरधीरिति चेतसि ॥ २॥ धिग् विग् लोममिवानर्थ-मूलं रूपमिदं मम ॥ बढीक्ष्य क्षुब्धचित्तेन, राज्ञा मातापि मारितः॥ ६३ ॥ असारस्यास्य रूपस, हेतोः क्षणविनाशिनः ॥ घिद कृतं तेन मूढेन, किमकार्यमिदं हहा ! ॥ ६४ ॥ अथायं पापकृच्छीला-पायं कर्ता बलान्मम ॥ तदर्थमेवानर्थोय-मनेन विहितोऽस्ति यत् ॥६५॥ सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः ॥ प्राणेषु सत्सु नो हर्तु, शक्यन्ते किन्तु केनचित् ॥ ६६ ॥ बतिष्ये परलोकार्थ, तद्गत्वा नीवृदन्तरे ॥ नो चेन्मे पुत्रमप्येतं, हनिष्यति स दुष्टधीः! ॥६७ ॥ ध्यात्वेति सा महासत्वा, निशीथे निरगात्ततः ॥ अलक्षिता चन्द्रयशो-मुख्यैः शोकांशुकावृतैः ॥ ६८ ॥ पूर्वाममिव्रजन्ती च, भूरि दुःखभरातुरा ॥ प्रातः प्रापाटवीमेकां, नैकापदसधुलाम् ॥ ६९ ॥ तत्र यान्ती च मध्याहे, प्रापदेकं महासरः ॥ मुखादि तत्र प्रक्षाल्य, प्राणवृत्तिं व्यधात्फलैः ॥ ७० ॥ साकारानशनं कृत्वा, साथ मार्गश्रमाकुला ॥