________________
उचराष्पयनसूत्रम्। राजन् !, बाधते किन्तु मां स्मरः ॥ ६६ ॥ तचदिच्छसि मे क्षेम, तदा मदनमअरीम् ॥ देहि पुत्रीं निजां मर्स, नो चेद्वह्नौ विशाम्यहम् ॥ ६७ ॥ द्विमुखोपि ददौ तस्मै, निजां पुत्रीं महामहैः ॥ ताश्चावाप्य निजं जन्म, सोपि धन्यममन्यन ॥६८॥ व्यसृजहिमुखस्तं चा-न्यदा दत्वा हयादिकम् ॥ प्रद्योतोपि ततोयासी-पुरीमुजयनीं मुदा ॥६९॥
उपस्थिते शक्रमहे-ऽन्यदा च द्विमुखो नृपः ॥ नागरानादिशच्छक-ध्वजः संस्थाप्यतामिति ॥ ७० ॥ ततः पटु ध्वजपटं, किङ्किणीमालभारिणम् ॥ माल्यालिमालिनं रत्न-मौक्तिकावलिशालिनम् ॥ ७१॥ वेष्टितं चीवरवरै-नान्दीनिर्घोषपूर्वकम् ॥ द्रुतमुत्तम्भयामासुः, पौराः पौरन्दरं ध्वजम् ॥ ७२॥ [युग्मम् ] अपूजयन् यथाशक्ति, तं च पुष्पफलादिभिः ॥ पुरस्तस्य च गीतानि, जगुः केपि शुभखराः ॥ ७३ ॥ केचित्तु ननृतुः केचि-दुचैर्वाद्यान्यवादयन् ॥ अर्थितान्यर्थिनां केपि, ददुः कल्पद्रुमा इव ॥७४ ॥ कर्पूरमिश्रघुसृण-जलाच्छोटनपूर्वकम् ॥ मिथः केचित्तु चूर्णानि, सुरभीणि निचिक्षिपुः ॥७५॥ एवं महोत्सवैरागा-त्पूर्णिमा सप्तमे दिने ॥ तदा चापूजयद्भूरि-विभूत्या भूधवापि तम् ॥ ७६ ॥ सम्पूर्ण चोत्सवे वस्त्र-भूषणादि निजं निजम् ॥ आदाय काष्ठशेष त, पाराः पृथ्व्यामपातयन् ॥ ७७ ॥ परेधुस्तञ्च विण्मूत्र-लिप्तं कुस्थानसंस्थितम् ॥ आक्रम्यमानं बालाद्यै-भूपोऽपश्यद्वहिर्गतः॥७८॥ ततः संवेगमापन्नो दध्यौ चैवं धराधिपः॥ य एवं पूज्यमानोऽभू-त्सर्वैर्लोकैर्गतेऽहनि ॥ ७९ ॥ स एवाद्य महाकेतुः, प्राप्नोत्रोतां विडम्बनाम् ॥ दृश्यते क्षणिकत्वं तत्, क्षणिकानामिव श्रियाम् ॥ ८०॥ आयाति याति च क्षिप्रं. या सम्पत्सिन्धुपुरवत् ॥ पाशुलायामिव प्राज्ञ-स्तस्यां को नाम रज्यते ॥८१॥ त्यक्त्वा विडम्बनप्राया. तदेनां राज्यसम्पदम ॥ श्रये निःश्रेयसकरी. शमसाम्राज्यसम्पदम् ॥८२॥ ध्यात्वेति विध्यातममत्ववहिः, कत्वा स्वयं लोचमुपात्तदीक्षः॥प्रत्येकबुद्धो द्विमुखः सुपर्व-वितीर्णलिङ्गो व्यहरत् पृथिव्याम्॥८३॥ [इति श्रीद्विमुखनृपकथा ॥२॥] __ अथ प्रत्येकबुद्धस्य, नमिनानो महात्मनः ॥ बलयात् प्रतिबुद्धस्य, तृतीयस्य कथां ब्रुवे ॥१॥ तथा खत्रैव भरते. देशे मालवकाभिधे ॥ आसीहासीकृतखर्ग, सुदर्शनपुरं पुरम् ॥ २॥ तत्रासीच्छत्रुवित्रासी, राजा मणिरथाभिधः ॥ युगबाहुस्तदनुजो, युवराजोऽभवत्सुधीः ॥ ३॥ सौन्दर्येणातिवर्येण, जयन्ती जयवाहिनीम् ॥ जिनवाणीसुधापान-ध्वस्ताज्ञानहलाहला ॥ ४॥ निश्चलं शैलरेखाव-दधती शीलमुत्तमम् ॥ युगबाहोश्च मदन-रेखासंज्ञाऽभवप्रिया
५॥[युग्ममा तस्या गणामताप्रणे-श्चन्द्रोज्वलयशोद्युतिः ॥ सुतश्चन्द्रयशाश्चन्द्र, इवानन्दप्रदोऽभवत् ॥६॥ भ्रातृजायां तां च दृष्ट्वा-ऽन्यदा मणिरथो नृपः ॥ इत्यन्तश्चिन्तयामास, व्यथितो मान्मथैः शरैः ॥७॥ यदि भोगान्न भुजेह-मनयागनया समम् ॥ अवकेशिद्रुमस्येव, तदा मे निष्फलं जनुः ॥ ८॥ कथं पुनर्विनारागं, स्वादस्याः सङ्गमो मम ॥ नखेकपक्षया प्रीत्या, कामिनां कामितं भवेत् ! ॥९॥ तदस्याः प्रणयोत्पत्ते-रुपायान् रचयाभ्यहम्॥ पश्चाद्विज्ञाय तद्भावं, करिष्यामि यथोचितम् ॥ १० ॥ ध्यात्वेति तस्मै ताम्बूल-पुष्पभूषांशुकादिकम् ॥ प्रैषीहास्या समं काम-विवशानामहो ! कुधीः ॥११॥ सा तु ज्येष्ठप्रसादोय-मिति ध्यात्वा तदाददे ॥ अथान्यदा नृपोवादी-द्विजने तामिति खयम् ॥ १२ ॥ त्वद्रूपं प्रेक्ष्य रक्तं मां, पुमांसं खीकरोषि चेत् ॥ सुन्दरि : त्वां तदा कुर्वे, खामिनी राज्यसम्पदाम् ॥ १३ ॥ सा प्रोचे स्त्रीत्वपण्ढत्व-हीनस्य भवतः खतः ॥ पुंस्त्वमस्त्येव तत्कस्मा-न्मया न प्रतिपद्यते ॥ १४ ॥ त्वद्धातुर्युवराजस्य, पन्या मे राज्यसम्पदः ॥ खाधीना एव सन्तीति, शून्यमेतत्प्रलोभनम् ॥ १५ ॥ किञ्च खीकुर्वते मृत्यु-मपि सन्तो महाशयाः ॥ लोकद्वयविरुद्धं तु, न चिकीर्षन्ति जातुचित् ! ॥१६॥ अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् ॥ नेच्छन्ति किं पुनः पुत्री-तुल्यां प्रातुर्लघोः स्त्रियम् ॥ १७ ॥ परनारीरिएंसापि, रावणस्येव दुःखदा ॥ महतामपि जायेत, तन्महाराज! मुञ्च ताम् ॥ १८॥ तच्छत्वा दुष्टधीकूपो, भूपोन्तर्ध्यातवानिति ॥ युगबाहुर्भवेद्याव-तावन्नेच्छति मामसौ ॥ १९ ॥ तद्विसम्भण तं हत्वा, ग्रहीयेहं बलाद{ ॥ स भ्रातापि रिपुन, योऽस्याः सङ्गेन्तरायकृत् ॥२०॥ इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् ॥ कामभूतातुराणां हि, सुत्यजं लेहचीवरम् ॥ २१ ॥ मदना तु न तां वाता, जगाद युगवाहवे ॥ निवृत्तो मदिरा ज्येष्ठो, दुर्भावादिति जानती ॥ २२ ॥ सा चान्यदा विधुं खमे, दृष्ट्वा पत्ये न्यवेदयत् ॥ सोप्यूचे चन्द्रवद्विधा-नन्दिनं लप्स्यसे सुतम् ॥ २३ ॥ ततः प्रमुदितखान्ता, सुतगर्भ बभार सा ॥ पारिजाततरोर्वीज-मिव मेरुवसुन्धरा ॥ २४ ॥ पूजयामि जिनान् साधून् , शृणोमि जिनसङ्कथाः ॥ इत्यभूहोहदस्तस्याः, काले गर्भानुभावतः ॥ २५॥ तसिंग दोहदे पूर्णे, गर्भः स ववृधे सुखम् ॥ अथान्यदा वसन्त -रागाद्रागिजनप्रियः ॥ २६ ॥ मलया.