________________
॥ १३८ ॥
उत्तराध्ययनसूत्रम
महाविभूत्या च यक्षस्वाप्युपयाचितम् ॥ २२ ॥ दत्ता मदनयक्षेण, मअरीखप्रसूचिता ॥ इति तामवदत्ताती, नाम्ना मदनमअरी ॥ २३ ॥ क्रमाश्च वर्द्धमाना सा, कल्पवलीव नन्दने ॥ जगन्मनोहरं प्राप, यौवनं रूपपावनम् ॥ २४ ॥ आदर्शादिषु संक्रान्तात्, तदीयप्रतिबिम्बतः ॥ अन्यत्र नाभवत्तस्या, रूपस्यानुकृतिः कचित् ॥ २५ ॥ इतश्वोज्जयनी भर्तु- धण्डप्रद्योत भूभृतः ॥ दूतः केनापि कार्येण, काम्पिल्यनगरं ययौ ॥ २६ ॥ स च प्रत्यागतोबन्ती - मिति प्रद्योतमब्रवीत् ॥ खामिन् । काम्पिल्यनाथस्य, जातमस्ति मुखद्वयम् ॥ २७ ॥ राज्ञाथ कथमित्युक्ते, सोवादीत्तस्य भूपतेः ॥ मौलिरेकोस्ति तस्मिंश्चा-रोपिते स्यान्मुखद्विकम् ॥ २८॥ तच्छ्रुत्वा स नृपो जात-लोभः कोटीरहेतवे ॥ वाग्मिनं प्राहिणोहूतं, पार्श्वे द्विमुखभूभुजः ॥ २९ ॥ ततः स गत्वा नत्वा च पाञ्चालाधीशमब्रवीत् ॥ चण्डप्रतापः श्रीचण्ड - प्रद्योतस्तेऽवदत्यदः ॥ ३० ॥ मुखद्वयकरं मौलि - रलं मे प्रेषयेद्द्रुतम् ॥ नोचेद्रणाय प्रगुणो, भवेः किं भूरिभाषितैः १ ॥ ३१ ॥ ततोवादीन्नृपो दूत !, यदि प्रद्योत भूधवः ॥ दत्ते मे याचितं किञ्चित्, तदाहमपि तं ददे ॥ ३२ ॥ किं वः प्रार्थ्यमिति प्रोक्ते, दूतेन क्ष्माधवोऽभ्यधात् ॥ रदांशुनिकरोन्मिश्र - स्मितबिच्छुरिताधरः ॥ ३३ ॥ गन्धद्विपोऽनलगिरि-रभिंभीरू रथोत्तमः । राज्ञी शिवाभिधा लोह - जंघः संदेशहारकः ॥ ३४ ॥ स्वराज्यसाराण्येतानि, दीयन्ते तेन चेन्मम ॥ तदा मयापि मुकुटो, राज्यसारः प्रदीयते ! ॥ ३५ ॥ गत्वा दूतोपि तत्सर्व, प्रद्योताय न्यवेदयत् ॥ ततो दिदीपे तस्योच्चैः, कोपो वायोरिवानलः ॥ ३६ ॥ ततो भेरीं प्रयाणार्थं, प्रवाद्योज्जयनीपतिः ॥ चचाल प्रति पाञ्चालं, चलयन्नचलां बलैः ॥ ३७ ॥ पूरयन्तो दिशः सर्वा, बृंहितैर्गर्जितैरिव ॥ धारासारैरिव रसां, सिञ्चन्तो मदवारिभिः ॥३८॥ खर्णादिभूषणैर्विद्युद्दण्डैरिव बिराजिताः ॥ लक्षद्विकं द्विपा रेजु - सत्सैन्येऽब्दा इषाम्बरे ॥ ३९ ॥ [ युग्मम् ] पञ्चायुतानि तुरगा - स्त्वराधरितवायषः ॥ तत्सेनां भूषणानीवाम्बुजनेत्रां व्यभूषयन् ॥ ४० ॥ आयुक्तवाजिनो नाना-विधैः प्रहरणैर्भूताः ॥ शताङ्गा विंशतिशती - मितास्तत्र विरेजिरे ॥ ४१ ॥ तद्वलं प्रबलं चक्रु - ि क्रमक्रमशालिनाम् ॥ कृतवैरिविपत्तीनां पत्तीनां सप्त कोटयः ॥ ४२ ॥ सज्जया सज्जयार्थिन्या, संयुतः सेनयाऽनया ॥ पाञ्चालसन्धिमच्छिन्नैः, प्रयाणैः स नृपो ययौ ॥ ४३ ॥ तञ्चायान्तं चरैर्ज्ञात्वा द्विमुखोपि महाबलः ॥ जयेच्छुराजयेऽगच्छत्, सीनि देशस्य संमुखः ॥ ४४ ॥ दुर्भेदं गरुडव्यूहं, चण्डप्रद्योतपार्थिवः ॥ खसैन्ये विदधे वार्धिव्यूहं द्विमुखराट् पुनः ॥ ४५ ॥ उत्साहितेषु वीरेषु, रणनिखाननिखनैः ॥ अथ प्रववृते युद्धं, सैन्ययोरुभयोर्मिथः ॥ ४६ ॥ तदा च शस्त्रसङ्गोत्थ-स्फुलिङ्गकणवर्षणैः ॥ वीराः केपि दिवाप्युल्का - पातोत्पातमदर्शयन् ॥ ४७ ॥ लघुइस्ता भटाः केपि, मुमुचुर्बिशिखांस्तदा ॥ तदादानधनुर्न्यासा - कर्षणादिष्वलक्षिताः ॥ ४८ ॥ निस्त्रिंशैर्निशितैः केषि, कुम्भिकुम्भानभेदयन् ॥ तुङ्गानि शैलशृङ्गाणि, तडिद्दण्डैरिवाम्बुदाः ॥ ४९ ॥ केचिद्भटोत्तमा भिन्न- देहा अप्यभिमानिभिः ॥ घातव्यथां न विविदुः, सम्परायपरायणाः ॥ ५० ॥ दण्डैरखण्डयन् केपि, विपक्षान् केपि मुङ्गरैः ॥ सशस्यांश्चक्रिरे शल्यैः केचित्केचित्तु शक्तिभिः ॥ ५१ ॥ एवं रणे जायमाने, कालरात्रिनिभे विशाम् || मौलेस्तस्य प्रभावेणा - जय्यो भूद्विमुखो नृपः ॥ ५२ ॥ तत्सैन्येन ततोपास्तं, प्रद्योतस्याखिलं बलम् ॥ विदुद्राव द्रुतं भानु-धाना धाम विधोरिव ॥ ५३ ॥ तदा चोज्जयनीनाथं, नश्यन्तं द्विमुखो द्रुतम् ॥ जग्राह शशकग्राहं, क्रौञ्चबन्धं बबन्ध च ॥ ५४ ॥ तं गृहीत्वाविशद्भूमा - नुत्पताकं निजं पुरम् ॥ सानन्दं वन्दिभिरिब, पौरैः कृतजयारवः ॥ ५५ ॥ न्यधापयच्च निविडं, निगडं तत्पदात्नयोः ॥ महानपि जनो लोभात्, कां कां नापदमञ्जत १ ॥ ५६ ॥ प्राप्तोपि दुर्दशां देवान्मा नृपः खिद्यतामयम् ॥ इति तं सुखितं चक्रे, भूपः खानादनादिना ॥ ५७ ॥ राज्ञेोभ्यर्णे सभास्थस्य, प्रद्योतोप्यन्वहं ययौ ॥ न्यवीविशद्विशामीशो - ऽर्धासने तञ्च गौरवात् ॥ ५८ ॥
अन्यदा च सुतां राज्ञो दृष्ट्वा मदनमअरीम् ॥ प्रद्योतो जातगाढानु - रागो भूद्वाढमाकुलः ॥ ५९ ॥ ध्यायतस्तस्य तां सृष्टेः, सारं सारङ्गलोचनाम् ॥ नागान्निद्रा निशीर्ष्यालुः, कामिनीवापरा रतेः ॥ ६० ॥ स्मरोन्मादसमुद्भूत-चिम्तादाघज्वरार्दितः ॥ पुष्पतल्पेपि सुप्तोसौ, स्वास्थ्यं नाप मनागपि ॥ ६१ ॥ वर्षायितां च तां रात्रिं, कथञ्चिदतिबाह्य सः ॥ प्रातः सभां ययौ तञ्चो- द्वीनं वीक्ष्याब्रवीन्नृपः ॥ ६२ ॥ अद्य ते विद्यते राजन्!, किं पीडा कापि रोगजा १ ॥ हेमन्तेब्जमिव म्लान -मास्त्रं ते कथमन्यथा ! ॥ ६३ ॥ पृष्टोप्येवं प्रतिवचः, प्रद्योतो न ददौ यदा ॥ दातिन्याकुलो भूपः सनिर्बन्धमदोवदत् ॥ ६४ ॥ राजन् ! प्रतिबचो देहि, निवेदय निजां व्यथाम् ॥ अब्रुवाणे त्वयि कर्थ, भाविनी तत्त्रतिक्रिया १ ॥ ६५ ॥ ततः स दीर्घ निःश्वस्य, जगौ लब्बां विहाय च ॥ न व्याधिर्वायते