________________
उत्तराप्पयनसूत्रम्
११ ॥ कोका, यथा नैव स्मरन्ति माम् ॥ २५ ॥ नियोज्येमा राज्यभार-धुरां त्वयि धुरन्धरे ॥ धाखे धर्मधुरा युक्त-मिद हि समये विदाम् ॥ २६ ॥इत्युक्त्वा व्रतमादत्त, नृपः सद्गुरुसन्निधी॥करकण्डुधराधीश-कृतनिष्क्रमणोत्सवः ॥२७॥
अथ प्रतापदापानि-ध्वस्तवेरियशोद्रुमः॥ करकण्डनृपो राज्य-द्वयं सनयमन्वशात् ॥ २८॥ स चोशिः खमाबेन, भृशं वल्लभगोकुलः॥ खीचके तानि भूयासि, यादांसीव पयोनिधिः ॥ २९॥ स चान्यदा गतः कापि, गोकुले जलदात्यये । सुरभीः सौरभेयांश्च, तर्णकांश्च विलोकयन् ॥ ३०॥ गौरं गौरीगुरुगिरेः, शृङ्गाद्गङ्गाजलातात् ॥ एकं तर्णकमद्राक्षी-मुग्धं निग्धतनुच्छविम् ॥ ३१ ॥ जातप्रेमा ततस्तस्मिन् , भूमान् गोदुहमूचिवान् ॥ एतन्मातुः पयोस्यैव, देयं दोह्या तु नैव सा ॥ ३२ ॥ किञ्च वृद्धिं गतस्यास्य, मञ्चित्तानन्ददायिनः ॥ अन्यासामपि धेनूनां, पायनीयं पयोन्वहम् ॥३३॥ गोपालोऽपि महीपाल-वचनं प्रतिपद्य तत् ॥ तथैव विदधे को या, राज्ञामाज्ञां विलुम्पति ॥ ३४ ॥ सोथ वत्सो वर्धमानः, स्पर्धमानः शशिविपा ॥ पलोपचयदुर्लक्ष्य-कीकसः प्राज्यविक्रमः ॥ ३५ ॥ शोभमानोसकूटेन, कूटेनेवावनीधरः ॥ तीक्ष्णाप्रवर्तुलोत्तुङ्ग-शृङ्गस्तारुण्यमासदत् ।। ३६ ॥ [ युग्मम् ] तथा भूतं च तं मापो, कृपभैरपरैः समम् ॥ क्रीडयायोधयत्तं तु, नाजैपीत्कोपि शाङ्करः ॥ ३७॥ कालान्तरे च भूपालो, गतो गोकुलमीक्षितुम् ॥ घट्टयमानं पडकायै-र्ददर्शकं जरद्वम् ॥ ३८॥ महोक्षः स महावीर्यः, केत्यपृच्छच्च गोदु
१ हिमाद्रेः । हम् ॥ सोवादीद्देव ! वृषभः, स एवायं जरातुरः ॥ ३९ ॥ तन्निशम्य नृपोध्यासी-दध्यासीनः शुभाशयम् ॥ अहो । अनित्यता सर्व-भायानां वचनातिगा ॥ ४०॥ बलिनोपि बलीवर्दा, नेशुईप्सा अपि द्रुतम् ॥ यस्य हम्भारवेण ज्या-टकारेणेव पक्षिणः॥४१॥ चलदोष्ठो गलदृष्टि-नष्टौजा विश्रसावशात् ॥ सोऽधुना पडकैः क्लृप्तां, सहते परिघट्टनाम् ! ॥ ४२ ॥यद्रूपं पश्यतां नेन्दु-दर्शनेप्यादरोऽभवत् ॥ सोप्यद्य तनुते दृष्टो, जुगुप्सा हा पुरीपवत् !॥४३॥ तद्विक्रमवयोरूप-विभुत्वविभवादिकम् ॥ वीक्ष्यतेध्यक्षमेवैत-पताकाञ्चलचञ्चलम् ! ॥ ४४ ॥ सत्यप्येवं जनो मोहा-ज जानाति यथास्थितम् ॥तत्तमेव निगृह्णामि, गृह्णामि जनुषः फलम् ॥४५॥ध्यात्वेति कृत्वा खयमेव लोचं, विभ्रन्मुनेर्वेषममर्त्यदत्तम् ॥ प्रत्येकबुद्धः प्रतिबुद्धजीवी, भुवि व्यहार्षीत्करकण्डराजः ॥ ४६॥ [ इति करकण्डनृपकथा ॥१॥ ] __ अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् ॥ राज्ञो द्विमुखसंज्ञस्य, कथां वक्ष्यामि तद्यथा ॥१॥ पाञ्चालदेशतिलके, पुरे काम्पिल्यनामनि ॥ यवाभिधोभवद्भूपो, हरिवंशाब्धिचन्द्रमाः ॥२॥ तस्यासीगुणमालाढ्या, गुणमालाहया प्रिया ॥ तया समं नृपो भोगान्, भुआनः कालमत्यगात्॥३॥अन्यदा च गुणास्थान-मास्थानस्थःस पार्थिवः॥ देशान्तरागतं दूत-मिति पप्रच्छ कौतुकात् ॥ ४॥ राज्येन्येषां विद्यमानं, मद्राज्ये किं न विद्यते ? ॥ दूतोपादीत्तव विभो !, नास्ति चित्रसभा शुभा ॥५॥ ततः कार्यविदाकार्य, नृपतिः स्थपतीन् जगौ ॥ चित्रसत्रसभा चित्र-समा मे क्रियतामिति ॥ ६॥ प्रमाणमादेश इति, प्रोच्य तेपि शुभे क्षणे ॥ प्रारेभिरे भुवः खातं, सभान्यासविधित्सया ॥७॥ पञ्चमे च दिने तस्मा-तलातेजसा ज्वलन् ॥ मौलिः प्रादुरमूद्रन-मयो रविरिवार्णवात् ॥८॥ तत स्थपतयस्तुष्टा-स्तमाचक्षुः क्षमाभृते ॥ सोत्साहः सोत्सवं सोपि, तत्रागत्य तमाददे ॥९॥ अपूजयच स्थपति-प्रभृतीन् वसनादिभिः॥ तेपि चित्रसभां खल्प-कालेनैव वितेनिरे ॥१०॥ भित्तिन्यस्तैर्मणिगणै-र्नित्यालोकां विमानवत् ॥ देवीभिरिव माणिक्य-पुत्रिकाभिरधिष्ठिताम् ॥ ११ ॥ माणिक्यतोरणैः शक्र-चापैरिव विराजिताम् ॥ पञ्चवर्णमणिव्यूह-रचनाञ्चितकुट्टिमाम् ॥ १२ ॥ सभा सुधर्मा मत्तोपि, किं रम्येति समीक्षितुम् ॥ उचैः कृतं मौलिमिव, शिखरं गुरु विभ्रतीम् ॥ १३ ॥ विचित्रचित्ररचना-चित्रीयितजगत्रयीम् ॥ आह्वयन्तीमिवामान्, खोशायै चलङ्कजैः ॥ १४ ॥ प्रविश्य तां समां भूमि-बल्लभः शोभने दिने ॥ आरोपयन्निजे मौलौ, तं दिव्यं मौलिमुत्सवः ॥ १५॥ [पञ्चभिः कुलकम् ] तस्य मौलेर्महिमाभू-द्राज्ञस्तस्थाननद्वयम् ॥ रावणस्य या हार-प्रभावेण दशाननी ॥ १६ ॥ ततो द्विमुख इत्यूचे, तस्य नामाखिलैर्जनैः ॥ क्रमाच नृपतेस्तस्य, तनयाः सप्त जज्ञिरे ॥ १७ ॥ गुणमाला ततो दघ्यो, सुतेष्वेतेषु सत्खपि ॥ एकां छेकां विना पुत्री, मन्ये जन्म निरर्थकम् ॥ १८ ॥ लक्ष्मीरिव सुतापि स्था-काचित्पित्रोः शुभावहा ॥ ततस्तत्प्राप्तये कञ्चि-देवमाराधयाम्यहम् ॥ १९ ॥ध्यात्वेति मदनाख्यस्य, सा यक्षसोपयाचितम् ॥ चक्रे सुतार्थ खल्पं हि, सर्व गौरवमभुते ॥ २०॥ ततस्तस्याः सुताप्येका, जज्ञे सौन्दर्यसेवधिः ॥ मन्दारमजारीप्राप्ति-खनदर्शनसूचिता ॥ २१ ॥ ततो राज्ञा मुदा चक्रे, तस्या जन्ममहो महान् ॥ दत्तं