________________
॥ १३६ ॥
उत्तराप्यमनस्त्रम्
श्रान्ताः,
खापो हि श्रमभेषजम् ॥ ८१ ॥ तदा च नगरे तत्रा-पुत्रो राजा व्यपद्यत । ततोधिवासयामासु सुरखं मंत्रिपुङ्गवाः ॥ ८२ ॥ तुरङ्गोऽपि भ्रमंस्तेषां सुप्तानामन्तिके ययौ ॥ तच प्रदक्षिणी चक्रे, बालं देवमिवास्तिकः ॥ ८३ ॥ तञ्च तेजखिनं श्रेष्ठ – लक्षणं वीक्ष्य नागराः ॥ तुष्टा जयारवं चक्रु- स्तूर्यनिर्घोषमिश्रितम् ॥ ८" ।। ध्यानेन तेन विध्वस्त- प्रमीलः सोथ बालकः ॥ जृम्भायमाण उत्तस्था - वारुरोह च तं हयम् ॥ ८५ सूर्यध्वनिप्रतिध्वाना - पूर्णद्यावाक्षमान्तरः ॥ पौरैः परीतः परित-स्तारापतिरिवोडुभिः ॥ ८६ ॥ युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः ॥ अरोषि मातङ्ग इति, मातङ्ग इव शूकरैः ॥ ८७ ॥ [ युग्मम् ] ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोकरोत् ॥ तस्य राज्यप्रदाने हि स एव प्रतिभूरभूत् ॥ ८८ ॥ निर्मितो ज्वलनेनेवा-ज्वलद्दण्डस्तदा चसः ॥ तच प्रेक्ष्य द्विजा भीता, नेशुः शरमिव द्विकाः ॥ ८९ ॥ पुरे प्रविष्टो राज्ये चा-भिषिक्तो धीसखादिभिः ॥ सोथ राजा सजातीया- न्मातङ्गान्विदधे द्विजान् ॥ ९० ॥ उक्तञ्च - "दधिवाहनपुत्रेण राज्ञा च करकण्डुना ॥ वाटधानकवास्तव्या -श्वाण्डाला ब्राह्मणीकृताः ॥ ९१ ॥” तस्यावकर्णक इति, त्यक्त्वाद्यं नाम नीरसम् ॥ बालोतमेव तत्प्रोचुः, करकण्डुरिति प्रजाः ॥ ९२ ॥ प्राप्तराज्यञ्च तं श्रुत्वा, दण्डच्छेदी स वाडवः । आगत्योवाच राजन्मे, देहि ग्रामं तदोदितम् ॥ ९३ ॥ कं ग्रामं ते ददामीति, राज्ञोकः स पुनर्जगौ ॥ चम्पायां मे गृहं तस्मा - तदेशे ग्राममर्पय ॥ ९४ ॥ ततो लेखं लिलेखैवं, करकण्डुनरेश्वरः ॥ दधिवाहनभूपालं, प्रति निष्प्रतिमो गुणैः ॥ ९५ ॥ “तथाहि—” खस्ति श्रीकाञ्चनपुरा-त्करकण्डुर्महीपतिः ॥ सम्भाषते नृपं चम्पा -धिपं श्रीदधिवाहनम् ॥ ९६ ॥ परमात्मप्रभावेण, कल्याणमिह विद्यते । श्रीमद्भिरपि तद्ज्ञाप्यं खशरीरादिगोचरम् ॥ ९७ ॥ किञ्चास्मै ब्राह्मणायैको, ग्रामो देयः समीहितः ॥ दास्ये वो रुचितं ग्रामं, नगरं वा तदास्पदे ॥ ९८ ॥ इदं कार्य ध्रुवं कार्य, नात्र कार्या विचारणा ॥ मूल्यावाप्तौ विमर्शो हि, व्यर्थ एवेति मङ्गलम् ॥ ९९ ॥ लेखमेनं समादाय, विप्रश्चम्पापुरी गतः ॥ आस्थानस्थस्य भूपस्य, पाणिपद्मातिथिं व्यधात् ॥ १०० ॥ तद्वाचनहविर्होम - दीसक्रोधहुताशनः ॥ तमित्यूचे धराधीशो, भ्रकुटीविकटनानः ॥ १ ॥ रे ! मातङ्गस्य किं तस्य, खजातिरपि विस्मृता १ ॥ अनात्मज्ञोलिखलेख, यो ममोपरि दुष्टधीः ॥ २ ॥ लेखेनानेन तं नीच -मस्पर्श्य स्पृष्टपूर्विणा ॥ अहं मलीनतां नीतो ऽज्ञानाद्वा किं न जायते १ ॥ ३ ॥ रे विप्र ! याहि याहि त्वं, नोचेन्मातङ्गलेखदः ॥ यास्यसि त्वं पतङ्गत्वं, मत्कोपज्वलनेधुना ॥ ४ ॥ तेनेत्युक्तो द्विजो गत्वा, तदूचे करकण्डवे ॥ क्रोधाध्मातस्ततः सोपि, यात्राभेरीमवीवदत् ॥ ५ ॥ चतुरङ्गचमूचक्र - र्भुवमाच्छादयन्निव ॥ जगाम चम्पानगरीं, सर्वतस्तां रुरोध च ॥ ६ ॥ वीराणामुत्सव इवा- नन्ददायी ततोन्वहम् ॥ पुरस्थायिबहिः स्थायि - सैन्ययोरभवद्रणः ॥ ७ ॥ ताच पद्मावती साध्वी, वार्ता श्रुत्वेत्यचिन्तयत् ॥ अज्ञानेन पितापुत्रौ कुरुतः समरं मिथः ॥ ८ ॥ भूयसां प्राणिनां नाशो, दाववहाविवाहवे ॥ तयोर्नरकदो भावी, तद्गत्वा शमयामि तम् ॥ ९ ॥ इति ध्यात्वा मुख्यसाध्वी - मापृच्छध च महासती ॥ करकण्डुसमीपेगा - त्सोप्युत्थाय ननाम ताम् ॥ १० ॥ साथ तस्मै रहः प्रोच्य, प्राच्यं वृत्तान्तमात्मनः ॥ इत्याख्यत्तव माताहं, पिता च दधिवाहनः ॥ ११ ॥ तसातेन समं युद्धं, न युक्तं ते महामते ! ॥ कुलीना हि न लुम्पन्ति, गुरूणां विनयं कचित् ॥ १२ ॥ तच्छ्रुत्वा तेन पृष्टौ तावूचतुः पितरावपि ॥ पुत्रो नः पालितोसि त्वं सम्प्राप्तः प्रेतकानने ॥ १३ ॥ साध्वीवाक्ये ततो जात - प्रत्ययोपि स पार्थिवः ॥ दर्पान्नापासरज्जन्या-द्राजन्यानां सौ बहुः ॥ १४ ॥ आर्या ययौ ततो मध्ये- पुरं राज्ञो गृहे द्रुतम् ॥ ताश्चोपालक्षयश्चेव्यः प्रणेमुश्च ससम्भ्रमम् ॥ १५ ॥ दिष्टया दृष्टाद्य मातस्त्व-मियत्कालं क च स्थिता ॥ चिरात्किं दर्शनं दत्तं किमिदं स्वीकृतं व्रतम् १ ॥ १६ ॥ इत्याद्युच्चैर्वदन्त्यस्ता, रुरुदुश्च मुहुर्मुहुः । इष्टानां दर्शने जीर्ण-मपि दुःखं नवायते ! ॥ १७ ॥ तं च कोलाहलं श्रुत्वा तत्रायातो धराधिपः ॥ तां प्रणम्यासनं दत्वा, क गर्भ इति पृष्टवान् ॥ १८ ॥ राजन् ! गर्भः स एवायं येनेयं वेष्टिता पुरी ॥ तयेत्यु काश्च स प्रापा - नन्दं वाचामगोचरम् ॥ १९ ॥ उत्कण्ठोत्कर्षपानीया - पूर्णमानसमानसः ॥ सुतेन तेन सङ्गन्तुं गन्तुं प्रववृते नृपः ॥ २० ॥ समायान्तं समाकर्ण्य, करकण्डुनृपोपि तम् ॥ अभ्यागात् पादचारेण, पादयोश्चापतत्पितुः ॥ २१ ॥ पितापि तं नतं दोर्भ्या-मादाय परिषखजे ॥ तदङ्गसङ्गपीयूषै-निजं निर्वापयन् वपुः ॥ २२ ॥ भूपाब्धेः पश्यतस्तस्या-दृष्टपूर्व सुतोडुपम् ॥ ललंघे लघु हृत्कूल - मुद्वेलैः प्रमदोदकैः ॥ २३ ॥ तञ्चाभ्यषिञ्चदङ्कस्थं नृपः प्राक् सम्मदाश्रुभिः ॥ राज्याभिषेकनीरैश्च, पश्चासिंहासनस्थितम् ॥ २४ ॥ इति चावोचदायुष्मन् !, राज्यमेतत्क्रमागतम् ॥ पालनीयं तथा