________________
उतराष्ययनसूत्रम्
॥ १३५ ॥
तम्मा भैषीर्मा कृथाभ, शोकं नीचजनोचितम् ॥ ३७ ॥ इत्युक्त्वा तापस श्रेष्ठ - स्तस्यै वनफलान्यदात् ॥ आतिथ्यं इतिथेः श्रीणामनुसारेण जायते ॥ ३८ ॥ पारेर्णवं पोत इव, नीत्वा पारेवनं च ताम् ॥ दर्शयन् बसतो प्रामानित्युवाच तपोनिधिः ॥ ३९ ॥ सीरकृष्टां भुवं नैवा - कामामो वयमित्यहम् ॥ नायास्यामि पुरस्त्वं तु, निर्भयातः परं ब्रजेः ॥ ४० ॥ देशो दन्तपुरस्यायं, दन्तवक्रोऽत्र भूपतिः ॥ गत्वा पुरेत्र चम्पायां, गच्छेः सार्थेन संयुता ॥ ४१ ॥ इत्युदित्वा न्यवर्तिष्ठ, शिष्टात्मा तापसाग्रणीः ॥ सापि दन्तपुरे प्राप्ता, साध्वीनामन्तिके ययौ ॥ ४२ ॥ कृतप्रणामां विधि- त्ताश्च पार्थिवकामिनीम् ॥ श्राद्धे ! त्वं कुत आयासी - रित्यपृच्छत् प्रवर्त्तिनी ॥ ४३ ॥ साप्युवाच निजां बार्ता, बिना गर्भ यथास्थिताम् ॥ स्मृतानुभूतदुःखा च जज्ञेश्रुक्लिन्नलोचना ॥ ४४ ॥ ततः प्रवर्त्तिनी प्रोचे, मा खिद्यस्व महाशये ! ॥ कर्मणां हि परीणामो ऽप्रतिकार्यः सुरैरपि ॥ ४५ ॥ " किञ्च - " वातोद्धूतध्वजप्रान्त - चञ्चलैश्वर्यशर्मणि ॥ चलेष्टजनसङ्गेस्मिन् भवे सौख्यं न किञ्चन ॥ ४६ ॥ जन्मरोगजराशोक - मृत्युदौः स्याद्युपद्रवैः ॥ व्याकुलेत्र भवे दुःख - मेव प्रायो भवेद्विशाम् ॥ ४७ ॥ यचेह स्यात्सुखं किञ्चि-द्विषयाद्युपभोगजम् ॥ दुःखानुषङ्गातदपि दुःख एव निमज्जति ॥ ४८ ॥ यत एव च संसारो, दुःखानामेकमास्पदम् ॥ प्रपद्यन्ते मोक्षमार्ग - मत एव विवेकिनः ॥ ४९ ॥ इति तद्देशनां श्रुत्वा, विरक्ता साददे व्रतम् ॥ पृष्टाप्याचष्ट नो गर्भ, चारित्रादानशङ्कया ॥५०॥ गर्भवृद्धौ च साध्वीभिः, पृष्टा किमिदमित्यसौ ॥ सत्यमूचे ततस्तास्तां, साध्वीं गुतमरक्षयन् ॥ ५१ ॥ गर्भकाले च सम्पूर्णे, शय्यान्तरगृहस्थिता ॥ असूत सुतरलं सा, मणिं रोहणभूरिव ॥ ५२ ॥ ततो गृहीत्वा तं बालं, गत्वा प्रेतवनेऽमुचत् ॥ तत्तातनाममुद्राङ्कं रत्नकम्बलवेष्टितम् ॥ ५३ ॥ द्रष्टुं तद्ब्राहकं साथ, तञ्च त्रातुमुपद्रवात् ॥ प्रच्छन्नं संस्थिताद्राक्षी-दृशा प्रेमासृतार्द्रया ॥ ५४ ॥ तत्रायातस्तदा प्रेत-वनेशोऽपत्यवर्जितः ॥ जगृहे तं निजगृहे, नीत्वा पत्न्यै च दत्तवान् ॥ ५५ ॥ तस्यावकर्णक इति, सानन्दः सोभिधां व्यधात् ॥ आर्यापि तद्गृहं वीक्ष्य, जगामोपाश्रयं निजम् ॥ ५६ ॥ क्व गर्भ इति साध्वीभिः, पृष्टा चेत्यवदन्मृषा ॥ मृतः सुतो मया जातः, स च त्यक्तः क्वचिततः ॥ ५७ ॥ साध्व्योपि सरलाः सर्वा - स्तत्तथा प्रतिपेदिरे ॥ बालस्तु ववृधे तस्य, सौधे पङ्क इवाम्बुजम् ॥५८॥ वत्सं गौरिव तं बालं, ध्यायन्ती सा तु संयता ॥ जगाम प्रत्यहं प्रेत- वनपालस्य धामनि ॥ ५९ ॥ तत्पया च समं प्रेम, चक्रे सम्भाषणादिभिः ॥ अलालयच्च तं बाल-महो ! मोहोतिदुर्जयः ॥ ६० ॥ अवाप यच्च भिक्षायां, शोभनं मोदकादिकम् ॥ तद्वालायार्पयत्सोपि, तस्यां रागं दधौ ततः ॥ ६१ ॥ जन्मतस्तस्य देहे च, रूक्षकण्डूरभूद्भृशम् ॥ स च वृद्धिङ्गतो बालैः, समं क्रीडन्नदोवदत् ॥ ६२ ॥ अहं वो नृपतिस्तस्मा-धूयं दत्त करं मम ॥ बालाः प्रोचुः करस्थाने, ब्रूहि किं ते प्रदीयते १ ॥ ६३ ॥ स प्रोचे चण्डकण्डूको, मां कण्डूयध्वमुच्चकैः ॥ करणानेन तुष्टोस्मि कृतं तदपरैः करैः ॥ ६४ ॥ ततस्तस्याभिधां बालाः, करकण्डूरिति व्यधुः ॥ गुणक्रियादिभिर्नाम, नवीनमपि जायते ॥ ६५ ॥ किञ्चित्प्रौढत्वमापन्नः, श्मशानं च ररक्ष सः ॥ तदेव हि कुले तस्मिन् गीयते कार्यमुत्तमम् ॥ ६६ ॥ हेतोः कुतश्विदायाती, श्मशाने तत्र चान्यदा ॥ द्वौ मुनी वंशजालान्त - दण्डमेकमपश्यताम् ॥ ६७ ॥ तयोरेको यतिर्दण्ड- लक्षणज्ञो महामतिः । तं वंशं दर्शयन्नेव - मवादीदपरं मुनिम् ॥ ६८ ॥ यावता वर्धते चत्वा - - लान्यपराण्ययम् ।। तावत्प्रतीक्ष्य यो येन-मादत्ते स भवेन्नृपः ॥ ६९ ॥ तच साधुवचो वृक्ष - निकुआन्तरवर्तिना ॥ तेन मातङ्गपुत्रेण, द्विजेनैकेन च श्रुतम् ॥ ७० ॥ ततो वंशस्य तस्याधः, खनित्वा चतुरङ्गुलम् ॥ छित्त्वा प्रछन्नवृत्त्या तं, वाडवो दण्डमाददे ॥ ७१ ॥ तच प्रेक्ष्य द्विजेनात्तं, करकण्डुः क्रुधा ज्वलन् ॥ आछिद्य जगृहे को वा, राज्यलक्ष्मीं न कांक्षति ? ॥ ७२ ॥ ततस्तं करणे नीत्वा दण्डं देहीत्यवग् द्विजः ॥ स प्रोचेऽसौ श्मशाने मे, जातस्तन्न ददामि ते ॥ ७३ ॥ विप्रोवोचदनेनैव कार्य मे वर्त्तते ततः ॥ अस्य स्थानेन्यमादाय, दण्डमेनं प्रदेहि मे ॥ ७४ ॥ तेनेत्युक्तोपि तं दण्डं, करकण्डुरनर्पयन् ॥ कुतोऽमुं न ददासीति, पृष्टः कारणिकैस्तदा ॥ ७५ ॥ बालोब्रवीत्सुरस्येव दण्डस्यास्य प्रभावतः ॥ भविष्यामि नृपो नूनं, तदस्यामुं ददे कथम् १ ॥ ७६ ॥ ततो विहस्य तं बाल - मेवं कारणिका जगुः ॥ राज्यावासौ द्विजस्यास्य, ग्राममेकं त्वमर्पयेः ॥ ७७ ॥ तत्प्रपद्य निजं धाम, करकण्डुर्ययौ द्रुतम् ॥ द्विजोप्यन्यान् द्विजानेव— मूचे गत्वा खमास्पदम् ॥ ७८ ॥ दण्डं ममापि जग्राह, बलाच्चाण्डालबालकः ॥ ततः कथञ्चित्तं हत्वा दण्डमादद्महे वयम् ॥ ७९ ॥ कथमप्येतदाकर्ण्या-वकर्णकपिता ततः ॥ पत्नीपुत्रान्वितोनश्य - त्सुतरक्षाकृते क्षणात् ॥ ८० ॥ गत्वा च काञ्चनपुरे, ते त्रयोपि पुराद्वहिः ॥ कुत्रापि सुषुपुः