________________
उत्तराध्ययनसूत्रम्
॥ अथ नवमाध्ययनम् ॥
॥ अर्हम् ॥ उक्तमष्टमाध्ययनं, अथ नमिप्रव्रज्याख्यं नवममारभ्यते, अस्य चायमभिसम्बन्धोनन्तराध्ययने निर्लोभत्वमुक्तं, निर्लोभवेहापि शक्रादिपूज्यः स्यात्तदुपदर्शनायेदमुच्यते, इत्यनेन सम्बन्धनायातस्यास्य प्रस्तावनार्थं नमिचरितं तावदिहावश्यं वाच्यम् । यथाचायं प्रत्येकबुद्धस्तथान्येपि करकण्डादयस्त्रयः प्रत्येकबुद्धास्तत्समकालखर्गच्यवनदीक्षोपादानकेवलज्ञानमहानन्दपदभाजो बभूवुर्यद्वक्ष्यति, “करकंडू कलिंगेसु, पंचालेसु अ दुम्मुहो ॥ नमी राया विदेहेसु, गंधारेमु अ नग्गर ॥ १ ॥ त्ति" ततः प्रसङ्गात्तचरितान्यपीहोच्यन्ते ।
॥ १३४ ॥
तत्रादौ वृषभं वीक्ष्य, प्रतिबुद्धस्य धीनिधेः ॥ करकण्डुमहीजाने-श्चरितं वच्मि तद्यथा ॥ १ ॥ अत्रैव भरते चम्पा -नगर्यां गुरुविक्रमः ॥ भूपोभूगुणरत्नाना - मुदधिर्दधिवाहनः ॥ २ ॥ पुत्री चेटकभूभर्तुः, शीलादिगुणसेबधिः ॥ राज्ञी तस्याभवत्पद्मावती पद्मा हरेषि ॥ ३ ॥ भुआना भूभुजा साकं, भोगाभोगान् यथासुखम् ॥ बभूव सा क्रमादन्त - नी पत्नी महीपतेः ॥ ४ ॥ कृतपार्थिवनेपथ्या, धृतच्छत्रा धराभृता । विहराम्यहमारामे, पट्टेभस्कन्धमाश्रिता ॥ ५ ॥ इत्यभूद्दोह दस्तस्याः, काले गर्भानुभावतः ॥ तस्यापूर्णे च सा कार्श्य, कृष्णपक्षेन्दुवदधौ ॥ ६॥ [ युग्मम् ] ततः पृथ्वीभृता पृष्टा, महिषी कार्यकारणम् ॥ जगौ तं दोहदं राज्ञः, प्रमोदद्रुमदोहदम् ॥ ७ ॥ ततो भूपस्तया साक-मारुह्य जयकुञ्जरम् ॥ स्वयं तदुपरि छत्रं दधत्पूर्णेन्दुसुन्दरम् ॥ ८ ॥ सानन्दं पौरपौरीभिः, प्रेक्ष्यमाणो बलान्वितः ॥ प्रावृट्कालप्रवेशेन, रम्यमाराममासदत् ॥ ९ ॥ [ युग्मम् ] तदा च नव्यपाथोद - पाथः सङ्गमसम्भवः ॥ गन्धः प्रादुरभूद्भूमेः सुरभिर्नासिकन्धयः ॥ १० ॥ तच गन्धं समाधाय, ध्यायन् विन्ध्याचलाटवीम् ॥ व्यालः काल इवोत्तालः, कान्तारं प्रत्यधावत ॥ ११ ॥ व्यावर्तमानो विक्रान्तै- भूयोभिरपि स द्विपः ॥ कदाग्रहादिव शठो, गमनान्न न्यवर्तत ॥ १२ ॥ कुर्वाणैर्विविधोपायान् स्वल्यमानोपि मानवैः ॥ न तस्थौ सिन्धुरः सिन्धु-पूरः शरणैरिव ॥ १३ ॥ विहस्तेषु ततस्तेषु, पश्यत्स्वेव स हस्तिराट् ॥ पश्यतोहरवद्रूप - राज्ञ्यौ हत्वा वनेऽनयत् ॥ १४ ॥ तत्र प्रेक्ष्य क्षमापालो, दूरादेकं वटद्रुमम् | देवीमूचे गजो श्लेष, गन्ताऽमुष्य तरोरधः ॥ १५ ॥ तत्र चास्मिन् गते सद्यः, शाखां न्यग्रोधशाखिनः ॥ गृह्णीयास्त्वं ग्रहीष्येत -च्छाखामहमपि प्रिये ! ॥ १६ ॥ आवां ततो गमिष्यावो, गजं हित्वा निजं पुरं ॥ अन्यथा त्वावयोर्भावी, वनेस्मिन् कोप्युपद्रवः ॥ १७ ॥ प्रतिपन्नाप्यदो वाक्यं, वटस्याधो गते गजे ॥ तच्छाखाग्रहणायालं, नाभूद्राज्ञी चिरक्रिया ॥ १८ ॥ क्ष्मापस्तु दक्षस्तच्छाखा - मालम्व्योदतरद्वटात् ॥ प्राणप्रियामपश्यंश्च, व्यलापीदिति दुःखितः ॥ १९ ॥ अयि कांते ! कदा भावी ?, सङ्गमः पुनरावयोः ॥ अमुना रिपुरूपेण, करिणा वञ्चितोस्मि हा ! ॥ २० ॥ त्वद्वियोगोद्भवं दुःखं, दावाभेरपि दुःसहम् ॥ असोढपूर्व दयिते !, सहिष्येहं कियच्चिरम् १ ॥ २१ ॥ दुःखमेतद् घटेम्भोधि-रिव माति न मे हृदि ॥ तत्किं कुर्वे ? क गच्छामि १, पुरः कस्य ब्रवीमि वा १ ॥ २२ ॥ इत्यादि विलपन् दुःख - भरभङ्गुरमानसः ॥ दन्तिपादानुसारेण ययौ चम्पापुरीं नृपः ॥ २३ ॥ राज्ञः प्रियां तु तां दन्ती, निन्ये निर्मानुषाटवीम् ॥ पिपासाविवशस्तत्रा - विशच्चैकं महासरः ॥ २४ ॥ बाऔं सुरभवत्तत्र, क्रीडति द्विरदे शनैः ॥ उत्ततार ततो राज्ञी, कुरङ्गीव महागिरेः ॥ २५ ॥ सरस्तीर्त्वा च हंसीव, पुलिनोद्देशमागता ॥ पश्यन्ती परितोपश्य - दरण्यानीं भयप्रदाम् ॥ २६ ॥ यूथच्यूतकुरङ्गीव, ततः सात्यर्थमातुरा ॥ मुक्तकण्ठं रुरोदोचे - रोदयन्ती खगानपि ॥ २७ ॥ कथञ्चिद्धैर्यमालम्व्य, दध्यौ चैवं नृपाङ्गना || दुष्कर्मदोषतो शाप - दियमापतिता मम ॥ २८ ॥ न चातिचिकणः कर्म-मलो रोदनसम्भवैः ॥ विनेतुं शक्यते नीर - स्तदलं, रोदनेन मे । ॥ २९ ॥ किञ्चास्मिन् गहने व्याघ्र - सिंहादिश्वापदाकुले ॥ उपद्रवोपि कोपि स्यात्, तत् प्रमादं जहाम्यहम् ॥ ३० ॥ इति ध्यात्वा कृतचतुः - शरणा सा महाशया ॥ क्षमयित्वाखिलान् सत्त्वान्, निन्दित्वा दुरितं निजम् ॥ ३१ ॥ साकारानशनं कृत्वा - ऽरण्यनिस्तरणावधि || स्मरन्ती प्रकटं पञ्च परमेष्ठिनमस्त्रियाः ॥ ३२ ॥ मध्वानं निजपुर्याश्च, दिग्मूढत्वादजानती ॥ गन्तुं प्रववृते काञ्चिद्दिशमुद्दिश्य सत्वरम् ॥ ३३ ॥ [ त्रिभिर्विशेषकम् ] रङ्गता च सा प्रेक्ष्य, तत्र कञ्चनतापसम् ॥ पिप्रियेऽन्तः पयः प्राप्य, पिपासुरिव जङ्गले ॥ ३४ ॥ कृताभिवादन ताश, पप्रच्छेति स तापसः ॥ मातः ! कुत इहायासी - स्त्वं देवीव मनोरमा ॥ ३५ ॥ अहं चेटकराट्रपुत्री, दधिवाहनराड्वधूः ॥ इहानीता द्विपेनेति, स्ववृत्तं साप्यवोचत || ३६ || अहं चेटकभूभर्तुर्बान्धवोस्मि महाशये !