________________
उत्तराप्ययनसूत्रम्
१९३॥ मम परिपूर्णता कृतेति न सन्तुष्टिमाप्नुयात् । यदुक्तं-“न वहिस्तृणकाष्ठाये-नंदीभिर्वा महोदधिः ॥ न चैवात्मार्थसारेण, शक्यस्तर्पयितुं क्वचित् ॥ १॥ इत्यमुना प्रकारेण दुःखेन पूरयितुं शक्यो दुष्पूरः सएव दुष्पूरकः 'इमेत्ति' असं प्रत्यक्ष आत्मा जीवस्तदिच्छायाः पूरयितुमशक्यत्वादिति सूत्रार्थः ॥ १६ ॥ असन्तोषे वविदितं हेतुमाहमूलम्-जहा लाहो तहा लोहो, लाहा लोहो पवडइ । दोमासकयं कजं, कोडीएवि न निहि ॥ १७॥
व्याख्या-यथा लामो द्रव्यप्राप्तिः तथा लोभो मूर्छा भवतीति शेषः, किमेवमित्याह- यतो लाभालोमः प्रवर्धते, यथा यथा लाभस्तथा तथा लोभः प्रवर्धत इत्यर्थः । कुतश्चैवमित्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं कार्य प्रयोजन दास्याः पुष्पताम्बूलमूल्यरूपं कोट्यापि दीनाराणां न निष्ठितं न निष्पन्न, उत्तरोत्तरविशेषाभिलाषादिति सूत्रार्थः ॥ १७ ॥ द्विमाषकृतं च कार्य स्त्रीमूलमिति तत्परिहारोपदेशमाह
मुलम्-णो रक्खसीसु गिज्झिज्जा, गंडवच्छासु णेगचित्तासु।।
जाओ पुरिसं पलोभित्ता, खेलंति जहा वा दासे हिं ॥ १८ ॥ व्याख्या-नो नैव, राक्षस्य इव राक्षम्यः श्रियस्तासु, यथा हि राक्षस्यो रक्तसर्वखमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति, एवमेता अपि तत्वतो हि ज्ञानादीन्येव जीवितं, ज्ञानादीनि च ताभिरपहियन्त एवेत्येवमुक्तं । 'गिझिजत्ति' गृध्येदभिकांक्षावान् भवेत्, कीरशीषु ? 'गंडवच्छासुत्ति' पिशितपिण्डरूपत्वाद्गण्डे इव गण्डे कुचौ वक्षसि यासां तास्तथा तामु, वैराग्योत्पादनार्थश्चेत्थमुक्त । अनेकान्यनेकसंख्यानि चञ्चलतया चित्तानि गासां तास्तथा तासु, उक्तञ्च-"हृद्यन्यद्वान्यन्यत् ,कर्मण्यन्यत् पुरोऽथ पृष्ठेऽन्यत् ॥ अन्यत्तव मम चान्यत् , स्त्रीणां सर्वे किमप्यन्यत् ॥१॥" याः स्त्रियः पुरुषं कुलीनमपि प्रलोभ्य त्वमेव मे शरणं त्वमेव च मे प्रिय इत्यादिकाभिर्वाग्भिर्विप्रतार्य खेलन्ति क्रीडन्ति 'जहावत्ति' वाशब्दस्यैवकारार्थत्वात् यथैव दासैरहि याहि मा वायासीरित्यादिभिः क्रीडाभिर्दासमिव पुरुषं प्रवर्तयन्यो विलसन्तीति सूत्रार्थः ॥ १८ ॥ पुनस्तासामेवातिहेयतां दर्शयन्नाह
मूलम्-नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे ।
धम्मं च पेसलं णच्चा, तत्थ ठविज भिक्खू अप्पाणं ॥ १९ ॥ व्याख्या-नारीषु नो नैव प्रगृध्येत् प्रशब्दः प्रारम्भे, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः । 'इत्यित्ति' स्त्रियो 'विप्पजहेति' विप्रजयात् त्यजेत् , पूर्व नारीग्रहणान्मानुष्य एवोक्ता, इह तु देव तिर्यसम्बन्धिन्योपि त्याज्या उक्ता इति न पीनरुत्तयं । अनगारो मुनिः, किं पुनः कुर्यादित्याह-'धम्म चत्ति' चशब्दस्यावधारणार्थत्वात् धर्ममेव ब्रह्मचर्यादिरूपं पेशलमत्र परत्र चैकान्तहितत्वेनाऽतिमनोकं ज्ञात्वावबुध्य तति धर्म स्थापवेद्भिक्षुर्मुनिगत्मानमिति सूत्रार्थः ॥ १९ ॥ अध्ययनार्थोपसंहारमाह
मूलम्-इति एस धम्मे, अक्खाए कविलेणं च विमुद्धपण्णेणं ।
___ तरिहिंति जे काहिंति, तेहिं आराहिअ दुवेलोगत्ति बेमि ॥२०॥ व्याख्या-इत्यनेन प्रकारेण एष पूर्वोक्तो धर्मो मुनिधर्म आख्यातः कथितः, केनेत्याह-कपिलेनेति पूर्वसङ्गतिकवादमी मवचनं प्रतिपद्यन्तामित्यात्मानमेव निर्दिशति, चः पूत्तौं, विशुद्धप्रज्ञेन निर्मलज्ञानेन । अथार्थसिद्धिमाह'तरिहंतित्ति' तरिष्यन्ति भवाब्धिमिति शेषः, के ? इत्याह-ये नराः करिष्यन्ति प्रक्रमादमुं धर्म, अन्यच, तैराराधितो द्वौ लोको इहलोकपरलोकरूपौ, इह महाजनपूज्यतया परत्र च खर्गापवर्गादिप्राप्तिरिति सूत्रार्थः ॥ २०॥ इति प्रवीमीति प्राग्वत् ॥
യറുകയായ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायत्रीमुनिविमलगणिशिष्यो-नि पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ अष्टमाध्ययनं सम्पूर्णम् ॥ ८॥S