________________
उत्तराप्ययनसूत्रम् उक्तं च-विषयगणः कापुरुष, करोति वशवर्तिनं न सत्पुरुषम् ॥ बनाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥१॥" इति सूत्रार्थः ॥ ६ ॥ किं सर्वेऽपि साधवोऽतरं तरन्ति ? उत नेत्याह
मूलम्-समणामु एगे वयमाणा, पाणवहं मिआ अयाणंता ।
मंदा निरयं गच्छंति, बाला पाविआहिं दिहीहिं ॥७॥ व्याख्या-श्रमणाः स्मो वयमित्येके केचनान्यतीर्थिका वदमानाः खाभिप्रायं दीपयन्तः, 'दीप्तिज्ञानयनविमत्युपसम्भाषोपमंत्रणे वद इत्यात्मनेपदम् । प्राणवधं प्राणघातं मृगा इव मृगा मूढत्वात् अजानन्तः ! के प्राणिनः ? के वा तेषां प्राणाः १ कथं वा वधः? इत्यनवबुध्यमानाः । अनेन प्रथमव्रतमपिन विदन्ति आस्तां शेषाणीति सूचितं, अत एव मन्दा इव मन्दा मिथ्यात्वमहारोगाकुलिताः 'निरयं' नरकं गच्छन्ति, बाला निर्विवेकाः पापिकाभिः पापहेतुमिरष्टिभिर्दर्शनाभिप्रायरूपाभिः "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुज्यो वैश्य, तपसे शुद्र" तथा-“यस्य बुदिर्न
त, हत्वा सर्वमिदं जगत् ॥ आकाशमिव पङ्केन, नासौ पापेन लिप्यते ॥१॥" इत्यादिकाभिर्दयादमवावामिः, तेषां च नरकं गच्छतां वेषादिकं न त्राणाय स्याद्यदुक्तं-"चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः ॥ न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥ १॥” इति सूत्रार्थः ॥७॥ अत एवाह
मूलम्-न हु पाणवहं अणुजाणे, मुच्चिज कयाइ सबदुक्खाणं ।
एवं आरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ॥ ८॥ व्याख्या-न हु नैव प्राणवधं मृषावादादेरुपलक्षणश्चैतत्, 'अणुजाणेत्ति' अपेढुंसस्य दर्शनादनुजानन्नपि आस्तां कुर्वन् कारयन् वा मुच्येत त्यज्येत कदाचित् क्वापि काले 'सच्चदुक्खाणंति' सुव्यत्ययात्सर्वदुःखे, शारीरमानसैः क्लेशैः, ततो हिमादिनिवृत्ता एव श्रमणा भवं तरन्तीति तत्वम् । न चैतन्मयैवोच्यत इत्याह, एवमुक्तनीत्या आयैस्तीर्थकरादिमिराख्यातं कथितं, यैरायरसौ साधुधर्मो हिंसानिवृत्त्यादिः प्रज्ञप्तः प्ररूपित इति सूत्रार्थः ॥ ८ ॥ साधुधर्ममेवाहमूलम्-पाणे अ नाइवाइज्जा, से समिएत्ति वुच्चइ ताई। तओ से पावयं कम्मं, निजाइ उदगं व थलाओ९ __ व्याख्या-प्राणान्नातिपातयेत् , चकारात्कारणानुमत्योर्निषेधमाह । मृपावादादिपरिहारोपलक्षणश्चैतत् । किमिति प्राणान्नातिपातयेदित्याह, 'सेत्ति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, पायी अवश्यं प्राणित्राता, समितत्वेपि को गुणः १ इत्याह, ततः समितात् ‘से इति' अथ पापदं अशुभ कर्म निर्याति निर्गच्छति, उदकमिव स्थलादत्युनतरढभूप्रदेशादिति सूत्रार्थः ॥ ९॥ यदुक्तं प्राणान्नातिपातयेदिति तदेव स्पष्टयति
मूलम् जगनिस्सिएहिं भूएहि, तसनामहिं थावरेहिं च ।
नो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ॥ १०॥ व्याख्या-जगनिश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, प्रसनामसु प्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु पृथिव्यादिषु, चः समुचये, नो नैव तेषु आरभेत कुर्याद्दण्डं वधात्मकं 'मणसा वयसा कायसा चेवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चेवत्ति' समुच्चये, इदमिह तात्पर्य-“सधेवि दुक्खमिरू, सधेवि सुहाभिलासिणो सत्ता ॥ सधेवि जीवणपिआ, सचे मरणाओ बीहंति ॥ १॥” इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः ॥ १०॥ उक्ता मूलगुणा अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाह
मूलम्-सुद्धेसणाओ नच्चा णं, तत्थ दृविज भिक्खू अप्पाणं ।
जायाए घासमेसिजा, रसगिद्धे न सिआ भिक्खाए ॥ ११ ॥ व्याख्या-शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धैषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं, किमुक्तं भवति ? अनेषणीयत्यागेन शुद्धमेव गृह्णीयात्तदपि किमर्थम् ? इत्याह-'जायाएत्ति' यात्रायै संयमनिर्वाहाम् , 'घासंति' प्रासमेषयेद्वेषयत् । एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति प्रासैषणामाह- रसेषु निग्धमधुरादिषु