________________
॥१३॥
उत्तराप्ययनसूत्रम् अहं दुर्गतिं नरकादिकां 'न गच्छेजत्ति' न गच्छेयं । अत्र च तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनामावेपि । यदेवमुक्तं तत्प्रतिवोधनीयपूर्वसङ्गतिकापेक्षमिति सूत्रार्थः॥१॥ एवञ्च भगवतोद्गीते तालान् कुट्टयद्भिश्चौरेच प्रत्यु. द्वीतेऽस्मिन् ध्रुवके पुनर्भगवानाह
मूलम्-विजहित्तु पुवसंजोगं, न सिणेहं कहिचि कुविज्जा ।
__ असिणेह सिणेहकरेहि, दोसपओसेहिं मुञ्चए भिक्खु ॥२॥ व्याख्या-विहाय त्यक्त्वा पूर्वसंयोगं. पूर्वपरिचितानां मातापित्रादिखजनानामुपलक्षणत्वाइनस्य च सम्बन्ध, न अहमभिष्वङ्ग कचिद्वाऽभ्यन्तरे वा परिग्रहे कुर्वीत कुर्यात् , तथा च को गुणः १ इत्याह, अस्नेहः प्रतिवन्धरहितः प्राकृतत्वाद्विसर्गलोपः, स्नेहकरेष्वपि पुत्रकलत्रादिषु आस्तामन्येषु, अपिश्चात्र लुप्तो द्रष्टव्यः, दोषाश्च इहैव मनस्तापादयः, प्रदोषाश्च परत्र नरकप्राप्त्यादयो दोषप्रदोषास्तैर्मुच्यते त्यज्यते भिक्षुरिति सूत्रार्थः ॥२॥ पुनर्यदसौ कृतवास्तदाह
मूलम्-तो णाणदंसणसमग्गो, हिअनिस्सेअसाए सबजीवाणं।
तेसिं वि मोक्खणहाए, भासई मुणिवरो विगयमोहो ॥३॥ व्याख्या-'तोत्ति' ततोऽनन्तरं भाषते मुनिवर इति सम्बन्धः, स च कीदृश इत्याह । ज्ञानदर्शनाभ्यां प्रस्तावा. केवलाभ्यां समग्रः समन्वितः, किमर्थ भाषते ? इत्याह । 'हिअनिस्सेअसाएत्ति' सूत्रत्वात् हितो भावारोग्यहेतुत्वात् पथ्यो यो निश्रेयसो मोक्षस्तस्मै तदर्थ, केषां ? सर्वजीवानां, 'तेसिंति' चस्स गम्यत्वात्तेषाञ्च पञ्चशतचौराणां विमोक्षणार्य भाषते वक्ति वर्तमान निर्देशस्तत्कालापेक्षया मुनिवरो विगतमोहः क्षपितमोहनीयकर्मा। इह च 'हिमनिस्सेअसाए सबजीवाणमित्यनेनैव चरितार्यत्वेऽपि तेसिं विमोक्खणहाएत्ति' यत् पुनरभिधानं तत्तदा भगवतस्तानेवोद्दिश्य प्रवृत्तिरिति प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ ३॥ यचासौ भाषते तदाहमूलम्-सवं गंथं कलहंच, विप्पजहे तहाविहं भिक्खू। सबेसु कामजाएसु,पासमाणोन लिप्पई ताई ॥४॥
व्याख्या-सर्वमशेषं अन्यं वायं धनादिकं आन्तरं मिथ्यात्वादिकं परिग्रहं, कलहहेतुत्वाकलहः क्रोधलं, च शब्दान्मानादींच, आन्तरग्रन्थरूपत्वेऽप्येषां पृथक ग्रहणं बहुदोपताख्यापनार्थ, 'विप्पजहेत्ति' विप्रजयात्त्यजेत् , तथाविधं कर्मबन्धहेतुं धर्मोपकरणमपीत्यभिप्रायः । भिक्षुर्मुनिः ततश्च किं स्थादित्याह, सर्वेषु कामजातेषु शब्दादिविषयसमूहेषु 'पासमाणोत्ति' पश्यन् अत्यन्तकटुकं तदोषमिति शेषः, न लिप्यते न सज्यते ताइचि' त्रायते रक्षयात्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ ४ ॥ इत्थं ग्रन्थत्यागे गुणमुक्त्वा व्यतिरेके दोषमाह
मूलम्-भोगामिसदोसविसन्ने, हिअनिस्सेअसबुद्धिविवज्जत्थे ।
बाले अ मंदिए मूढे, बज्झई मच्छिआ व खेलंमि ॥५॥ व्याख्या-मोगा एव रद्धिहेतुत्वादामिषं भोगामिषं, तदेवात्मदूषणाहोषो मोगामिषदोषस्तस्मिन् विविधं समो निममो भोगामिषदोषविषण्णः, हिते निश्रेयसे मोक्षे बुद्धिस्तल्लाभोपायविषया मतिविपर्यस्ता विपर्ययवती यस स हितनिश्रेयसबुद्धिविपर्यस्तः, बालबाज्ञः, मैदिएत्ति' सूत्रत्वान्मन्दो धर्मकरणम्पसलसः, मूढो मोहाकुलितचेताः मध्यते श्लिष्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव श्लेष्मणि रजसेति गम्यते । अयं भावः-यथाऽसौ तद्भन्धेनाकृप्यमाणा खेले मजति, ममा च रेवादिना बध्यते, एवं जीवोपि भोगामिषममः कर्मणेति सूत्रार्थः ॥ ५॥ ननु ययेवं कर्मबन्धहेतवो भोगासहि किं न सर्वेऽपि तांस्त्यजन्तीत्याह
मूलम्-दुपरिश्चया इमे कामा, नो सुजहा अधीरपुरिसेहि।
अह संति सुबया साहू, जे तरंति अतरं वणिआ वा ॥६॥ व्याख्या-दुष्परित्यजा दुःखेन परित्यक्तुं शक्या इमे प्रत्यक्षाः कामा शब्दाद्याः नो नैव 'सुजहत्ति' आषत्वात्सुहानाः सुत्सजाः, कैः १ अधीरपुरुषै ! असात्विकनरैः, यह दुःपरित्यजा इत्युक्त्वा पुनर्न सुजहा इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापकं, अधीरग्रहणात्तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह "अहेत्यादि' अथेति वाक्यान्तरोपन्यासे, सन्ति विद्यन्ते, सुब्रता निष्कलङ्कव्रताः साधवो ये तरन्ति अतिकामन्ति अतरं तरीतुमशक्यं भवमित्यर्थः । वणिज इव, वाशब्दस्य इवार्थत्वात् । यथा हि वणिजोऽतरं नीरषिं यानपात्रादिना तरन्ति एवमेतेऽपिप्रतादिना भवमिति ।