________________
उत्तराप्ययनसूत्रम्
॥१२९॥ बत ॥ ३७ ॥ राज्ञा पृष्टश्च वृत्तान्तं, सर्व सत्यं जगौ निजम् ॥ तच्छुत्वेत्यभ्यधाद्भपः, कृपारसमहोदधिः ॥ ३८॥ यन्मार्गयसि तत्तुभ्यं, ददामि वद कामितम् ॥ स्वामिन् विचार्य याचिष्ये, प्रोवाचेति ततो द्विजः ॥ ३९ ॥ सोऽय राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे ॥ दध्यौ वस्त्रादिकं भावि, न हि माषद्वयेन मे ॥४०॥ तत्सुवर्णशतं याचे, यद्वा तेनापि नो भवेत् ॥ गृहयानादि तनिष्क-सहस्रं प्रार्थये नृपात् ! ॥ ४१॥ यद्वा तेनापि नापत्य-विवाहादि भविष्यति ॥ तलक्षं प्रार्थये दातुः, सत्त्वे किं स्तोकयानया ॥ ४२ ॥ उद्धारो बन्धुदीनादे-लक्षेणापि न सम्भवी ॥ सम्पदां च फलं बन्धु-दीनादीनामुपक्रिया ॥ ४३ ॥ कोटि कोटिशतं कोटि-सहस्रं वा तदर्थये ॥ तस्येति ध्यायतः पुण्य-वशादियमभून्मतिः॥४४॥ माषद्वितयमूलस्या-प्यहो लोभमहीरुहः ॥ विस्फूर्जितं यत्कोटीनां, लामेऽप्युरः प्रवर्धते ! ॥ ४५ ॥ लोभः खल्पोऽपि लाभेना-ऽम्भोजनालमिवाम्भसा ॥ वृद्धिं यातीत्यलं तेन, सन्तोषसुखदस्युना ॥४६॥ विदेशं मातृनिर्देशा-द्विद्यार्थमहमागतः ॥ सापि नोपार्जिता किन्तु, व्यसनं महदर्जितम् ! ॥४७॥ मातुगुंरोश्च वाक्यानि, कुलाचारं च लुम्पता ॥ मया विषयगृद्धेन, कर्मानहमिदं कृतम् ! ॥४८॥ विषवद्विषमोदकविषयैस्तदलं. मम ॥ ध्यायन्नित्यादिसंवेगा-जातिस्मृतिमवाप सः ॥ ४९ ॥ खयंबुद्धः खयं कृत्वा, लोचं मूर्धनि शुद्धधीः ॥ देवतादत्तलिङ्गो द्राग, राज्ञोऽभ्यर्णे जगाम सः ॥ ५० ॥ विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः॥ निजां मनोरथश्रेणी, निवेद्येत्यवदन्मुनिः ॥५१॥ यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते ॥ माषद्वयाश्रितं कार्य, कोव्यापि न हि निष्ठितम् ! ॥ ५२ ॥ तन्निशम्य नृपस्तुष्टो-ऽवादीन्मुञ्च प्रतं द्रुतम् ॥ ददामि कोटीमपि ते, मुंश्व भोगान् यथासुखम् ! ॥५३॥ मुनिः माह कृतं द्रव्य-रसारैर्निस्पृहस्य मे ॥ जातो निर्ग्रन्थ एवाह, धर्मलाभोऽस्तु भूपते ! ॥ ५४ ॥ इत्युक्त्वा भूभुजोऽभ्यर्णा-निर्गत्योपं तपश्चरन् ॥ विचरन् भुवि षण्मास्या-केवलज्ञानमाप सः॥५५॥ __ इतश्च योजनान्यष्टा-दश सर्वत्र विस्तृता ॥ अटव्येकाऽभवद्राज-गृहाभिधपुराध्वनि ॥ ५६ ॥ तत्र चेत्कटदासाख्या-चौराः पञ्चशतीमिताः ॥ बलभद्रादयोऽभूवन् , पाताले पन्नगा इव ॥ ५७ ॥ विज्ञाय प्रतिबोधाी-स्तांश्च वि. ज्ञानचक्षुषा ॥ तेषामुपकृति कर्तु, तत्रारण्ये ययौ यतिः ॥ ५८ ॥ तमायान्तं द्रुमारूढो-पश्यदेको मलिम्लुचः ॥ आयाति श्रमणः कोपी-त्यन्येषाञ्च न्यवेदयत् ॥ ५९ ॥ अस्मानवगणय्यैव, समेत्ययमिति कुधा ॥ गृहीत्वा ते मुनि निन्यु-रुपसेनापतिं द्रुतम् ॥ ६०॥ ऊचे सेनापतिः क्रीडां, कुर्मोऽनेनेति चिन्तयन् ॥ साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ॥ ६१ ॥ वाद्यं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते ॥ तन्नृत्यं स्यात्कथं ? कार्य, न हि स्यात्कारणं विना ॥ ६२ ॥ वादितेष्वथ तालेषु, चौराणां पञ्चभिः शतैः ॥ ध्रुवकानुचकैर्गाय-अनर्त कपिलो मुनिः ॥ ६३ ॥ तद्यथा-"अधुवे असासयंमि, संसारंमि उ दुक्खपउराए ॥ किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेजा ॥६४॥ प्रतिध्रुवमिमं गायन, ध्रुवं कपिलकेवली ॥ जगौ सूरीन् ध्रुवान् शान्त-रसपीयूषसागरान् ॥६५॥ एतदध्ययनं जज्ञे, तैरेव ध्रुवकैर्धवम् ॥ शास्त्रत्वं प्रतिपद्यन्ते, वचस्सिपि हि तादृशाम् ॥ ६६ ॥ तेषु चाचं ध्रुवं श्रुत्वा, केप्यबुध्यन्त दस्यवः ॥ केचित्त्वन्य केचिदन्य-तरं तदपरे परम् ॥ ६७ ॥ इत्थं मुनीन्द्रः प्रतियोध्य तूर्ण-मदीक्षयत्पञ्चशतानि चौरान् ॥ विहृत्य पृथ्व्यां सुचिरं क्रमाव, बभूव निर्वाणपुराधिवासी ॥ ६८॥ इत्युक्तः सम्प्रदायः, साम्प्रतं सूत्रं प्रस्तूयते, तच्चेदं
मूलम्-अधुवे असासयंमि, संसारम्मि उ दुक्खपउराए ।
किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेजा ॥१॥ व्याख्या-कपिलो हि भगवान् खयं बुद्धश्चौरप्रतिबोधार्थ प्रथमममुं ध्रुवं जगौ। ध्रुवकलक्षणञ्चेदं-"ज गिजइ पुर्व चिअ, पुणो पुणो सबकत्वबंधेसु ॥ धुवयंति तमिह तिविहं, छप्पाय चउप्पयं दुपयं ॥१॥ ति" अत्र 'अधुवेत्ति' ध्रुव एकास्पदप्रतिबद्धः स्थिर इत्यर्थः, न तथा अध्रुवस्तस्मिन् संसार इति सम्बन्धः । भ्रमन्ति ह्यत्र सर्वस्थानेषु जन्तवः यदुक्तं-"रङ्गभूमिर्न सा काचि-च्छुद्धा जगति विद्यते ॥ विचित्रैः कर्मनेपथ्य-यंत्र जीवन नाटितम् ॥१॥" तथा अशाश्वते कालतोप्यनिये, अशाश्वतं हि सर्वमिदं राज्यादि, यदुक्तं-"चलं राज्यैश्वर्य धनकनकसारः परिजनो, नृपाद्वा वालभ्यं चलममरसौख्यं च विपुलं ॥ चलं रूपारोग्यं बलमिह चलं जीवितमिदं, जनो दृष्टो यो वै जनयति सुखं सोपि हि चलः ॥ १॥" संसारे भवे प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा, प्राकृतत्वाच न्यत्यये 'दुक्खपउराएत्ति' किमिचि प्रश्ने, नामेति वाक्यालङ्कारे, भवेत्तत् कर्मैव कर्मकमनुष्ठानं ? येन कर्मणा हेतुभूतेन