________________
॥१२८॥
उत्तराप्ययनसूत्रम्
"अथाष्टमाध्ययनम्"
व्याख्यातं सप्तममध्ययनं, अथ कपिलमुनिप्रणीतत्वेन कापिलीयाख्यमष्टममारभ्यते, अस्य चाय सम्बन्धोऽनन्तराध्ययने रसगृद्धित्याग उक्तः, स च निर्लोभस्यैव स्यादित्यत्र निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्याऽस्स प्रस्ताबनार्थमादी कपिलमुनिचरितमुच्यते । तत्रायं सम्प्रदायः
तथाहि पुर्या कौशाम्यां, जितशत्रुमहीशितुः ॥ पुरोधाः काश्यपाहोऽभू-विद्याम्भोनिधिपारगः ॥१॥ यशखिनी यशा नानी, तस्यासीत्प्राणवलभा ॥ अजनिष्ट तयोः सूनुः, क्रमेण कपिलाभिधः ॥२॥ कपिलेच शिशावेष, विपदे काश्यपोऽन्यदा ॥ कालः कालमकालं वा, न हि मृत्योरपेक्षते ॥३॥ मृते तस्मिनपोऽन्यस्मिन् , पुरोहितपदं न्यधात् ॥ अस्तङ्गते रवी तेजः, प्रदोष इव दीपके ॥ ४ ॥ हयारूढं धृतच्छत्रं, तं नूतनपुरोहितम् ॥ गच्छन्तमन्यदापश्य-धशा भूरिपरिच्छदम् ॥ ५॥ तद्दर्शनानिलोद्भूत-भूरिदुःखानलार्दिता ॥ सारं स्मारं निजं कान्तं, रुरोद विवशा यशा ॥ ६ ॥ कपिलोऽपि निजामम्बां, रुदतीं वीक्ष्य दुःखितः ॥ रुदनित्यवदन्मात-स्त्वं रोदिषि कुतोऽनि
॥ साऽवादीदस्य विप्रस्य, या सम्पत् पुत्र! वर्तते ॥ साऽभवत्त्वत्पितुः सर्वा, गता च त्वयि निर्गुणे॥८॥ सत्यपि त्वयि पुत्रे यत्, क्रमायाताऽप्यऽगाद्रमा ॥ ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम् ॥ ९॥ सुतः प्रोचे ब्रूहि मात-विद्याभ्यासाय पाठकम् ॥ यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ॥ १०॥ यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति ॥ यो हि त्वां पाठयेत्तस्मै, कुप्यन्नन्यपुरोहितः॥११॥ तद्वत्स ! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् ॥ इन्द्रदत्तद्विजः प्राज्ञः, स हि त्वां पारयिष्यति ॥ १२ ॥ ततः स गत्वा श्रावस्ती-मिन्द्रदत्तं प्रणम्य च ॥ आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ॥ १३ ॥ उपाध्यायोऽभ्यधावत्स !, युक्तस्तेऽसौ मनोरथः ॥ विशेषं नाहं कञ्चित् , पश्यामि पशुमूढयोः॥ १४ ॥ किन्तु ते भोजनं दातुं, निःसत्वादक्षमोऽस्म्यहम् ॥ तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यसि ? ॥ १५ ॥ भ्रातुष्पुत्राय ते विद्यार्थिने प्राघुर्णकाय च ॥ भोज्यदानेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ॥ १६ ॥ अलपत्कपिलस्तात !, कृतं चिन्तनयाऽनया ॥ भिक्षावृत्त्या करिष्येऽहं, प्रत्यहं प्राणधारणम् ॥ १७ ॥ उवाच पाठको भिक्षा-वृत्त्याऽध्येतुं न शक्ष्यते ॥ तदेहि तव भुक्यथै, प्रार्थये कञ्चिदीश्वरम् ॥ १८ ॥ इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् ॥ जगाम कुअर इव, कलभेन समं सरः ॥१९॥ ॐभूर्भुवःस्खरित्यादि-गायत्रीमंत्रवादिनम् ॥ दत्ताशिषं तमिभ्योऽपि, किं कार्यमिति पृष्टवान् ॥ २०॥ ऊचे द्विजोऽमुं मन्मित्र-पुत्रमध्येतुमागतम् ॥ भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः ॥ २१ ॥ सहर्ष शालिभद्रेण, तद्वाक्ये खीकृतेऽन्वहम् ॥ पपाठ पाठकोपान्ते, भुक्त्वा तद्धानिमाणवः ॥ २२ ॥ भोक्तुगतस्य तद्गहे, कपिलखानुवासरम् ॥
१ अल्पवयस्कः । दाखका तरुणी भोज्यं, शोभनं पर्यवेषयत् ॥ २३ ॥ तस्य विद्याभिरात्मानं, भोज्यैरङ्गश्च पुष्णतः ॥ उदमूद्यौवनं दाक्ष्या-रोजीवनजीवनम् ॥ २४ ॥ हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत ॥ यौवनं हि विकाराणां, सर्वेषामादिकारणम् ॥ २५ ॥ तया च रक्तया साकं, कपिलोऽरमताऽनिशम् ॥ तदेकचित्ता तश्चैव-मूचे दास्यन्यदा रहः ॥ २६ ॥ त्वमेव मे प्रियः किन्तु, निःखोऽसीत्यपरं नरम् ॥ सेवे वखादिहेतो- ते कोपः प्रजायते ॥२७॥ अन्वमन्यत निर्मन्यु-स्तत्रार्थे कपिलोऽपि ताम् ॥ तस्यां पुर्याश्चान्यदाऽऽसी-दासीनामुत्सवो महान् ॥ २८ ॥ तदा च प्रेक्ष्य ता दासी-मुद्विमा कपिलो द्विजः ॥ कुतस्तवारतिरिति, पप्रच्छ मेहमोहितः ॥ २९॥ साऽवादीदद्य दासीना-मुत्सवः समुपस्थितः ॥ न च मे पत्रपुष्पादे-मूल्यं किञ्चन वियते! ॥ ३०॥ तद्विना तु सखीमध्ये, लभिप्येऽहं विगोपनाम् ॥ सश्रियो हि स्त्रियो निःखां, हीलयन्ति सखीमपि ॥ ३१ ॥ तच्छ्रुत्वा कपिलोप्यन्त-रघृताऽधृतिमुच्चकैः ॥ याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ॥ ३२ ॥ ततस्तमवदद्दासी, सुन्दर ! त्वं विषीद मा॥ अत्रास्ति श्रेष्ठिषु श्रेष्ठो, धनाख्यो धनदोपमः ॥ ३३ ॥ यस्तं प्रबोधयेत्सुसं, स तस्मै स्वर्णमाषको ॥ ददातीति निशाशेषे, याहि त्वं तस्य मन्दिरे ॥ ३४ ॥ कल्पकाले च कल्याणिन् , कान्तैः कल्याणभाषितैः ॥ प्रबोधयेस्तं राजीवमिवार्कः कोमलैः करैः ॥ ३५ ॥ इत्युक्त्वा कश्चिदन्यः प्राग, मा यासीदिति शङ्कया ॥ औत्सुक्याज्ञातकाला सा, निशीथे प्रजिघाय तम् ॥ ३६ ॥ स च राजनरैश्चौर, इति बद्धः पथि ब्रजन् ॥ प्रसेनजिन्महीजानेः, पुरः प्रातरनी