________________
उत्तराप्ययनसूत्रम्
॥१७॥ मूलम्-इह कामा निअट्टस्स, अत्तहे अवरज्झइ। सोच्चा नेआउअंमग्गं, जं भुजो परिभस्सइ ॥ २५॥
व्याख्या-इहेति मनुष्यत्वे जिनमते वा प्राप्ते इति शेषः, कामेभ्योऽनिवृत्तोऽनुपरतः कामानिवृत्तस्तम्य आत्मनोऽर्थ आत्मार्थः स्वर्गादिरपराध्यति, अनेकार्थत्वाद्धातूनां भ्रश्यति । कुतश्चैवमित्याह-श्रुत्वा उपलक्षणत्वात्प्रतिपद्य च नैयायिकं न्यायोपपन्नं मार्ग रत्नत्रयरूपं मुक्तिमार्ग, यद्यस्माद्भूयः पुनः परिभ्रश्यति, कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मत्वात्ततः प्रतिपतति । ये तु श्रुत्वापि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति तेऽपि कामानिवृत्ता एवेति माव इति सूत्रार्थः ॥ २५ ॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाहमूलम्-इह कामनिअदृस्स, अत्तहे नावरज्झइ । प्रइदेहनिरोहेणं, भवे देवित्ति मे सुअं ॥ २६ ॥
व्याख्या-इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्यात्मार्थः स्वर्गादि पराध्यति न प्रश्यति, कुतः पुनरेवं ? यतः पूतिः कुथितो देह औदारिकं शरीरं तस्य निरोधोऽभावः पूतिदेहनिरोधस्तेन कामनिवृत्तो भवेहेवः सौधर्मादिकल्पवासी । उपलक्षणत्वात् सिद्धो वा । इत्येतन्मया श्रुतं परमगुरुभ्य इति शेष इति सूत्रार्थः ॥ २६ ॥ तदनु यदसौ प्राप्नोति तदाहमूलम्-इड्डी जुइ जसो वण्णो, आउं सुहमणुत्तरं । भुजो जत्थ मणुस्सेसु, तत्थ से उववजइ ॥ २७ ॥
व्याख्या-ऋद्धिः वर्णादिका, धुतिः शरीरकान्तिः, यशः पराक्रमकृता प्रसिद्धिः, वर्णो गाम्भीर्यादिगुणोत्था श्लाघा, गौरत्वादिर्वा, आयुर्जीवितं, सुखं यथेष्टविषयावाप्तिः, अनुत्तरं सर्वोत्कृष्टमिदञ्च सर्वत्र योज्यते । एतानि यत्र येषु मनुष्येषु भवन्ति प्राच्यम्य भूयःशब्दस्येह योगात् भूयः पुनस्तत्र तेषु स उपपद्यते जायते इति सूत्रार्थः ॥ २७ ॥ एवञ्च कामानिवृत्त्या यस्यात्मार्थो विनश्यति स पालः, इतरस्तु पण्डित इत्यर्थादुक्तं, सम्प्रति सूत्रत्रयेण पुनस्तयोः स्वरूपमुपदोपदेशमाहमूलम्-बालस्स पस्स बालतं, अहम्मं पडिवजिआ।चिच्चा धम्मं अहम्मिहे, नरएसु उववजह ॥२८॥
व्याख्या-बालस्य मूढस्य पश्य बालत्वं, किं तदित्याह-अधर्म विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्म भोगत्यागरूपं 'अहम्मिटेत्ति' प्राग्वन्नरके उपलक्षणत्वादन्यत्र दुर्गती उपपद्यते ॥ २८ ॥ तथा-- मूलम्-धीरस्स पस्स धीरत्तं, सबधम्माणुवत्तिणो।चिच्चा अधम्मं धम्मिहे, देवेसु उववज्जइ ॥ २९ ॥
व्याख्या-धिया राजते इति धीरो बुद्धिमान् , परीषहाद्यजय्यो वा धीरस्तस्य पश्य धीरत्वं, सर्वधर्म क्षान्त्यादिरूपमनुवर्तते तदनुकूलाचरणेन स्वीकरोतीत्येवंशीलो यः स सर्वधर्मानुवर्ती तस्य सर्वधर्मानुवर्तिनः । धीरत्वमेवाहसक्त्वा अधर्म भोगाभिष्वङ्गरूपं 'धम्मिटेत्ति' इष्टधर्मा देवेषूपपद्यते ॥ २९ ॥ ततः किं कर्तव्यमित्याहमूलम्-तुलिआ णं बालभावं, अबालंचेव पंडिए। चइऊण बालभावं, अबालं सेवए मुणिनि बेमि॥३०॥
॥इइ सत्तमज्झयणं सम्मत्तं ॥ व्याख्या-तोलयित्वा बालभावं बालत्वं, 'अवालंति' भावप्रधानत्वान्निर्देशस्य अबालत्वं, चः समुच्चये, 'एवेति' सूत्रत्वादनुखारलोपः, ततश्च एवमनन्तरोक्तन्यायेन पण्डितस्तत्त्वज्ञः त्यक्त्वा बालभावं 'अबालंति' अबालत्वं सेवते मुनिरिति सूत्रत्रयार्थः ॥ ३० ॥ इति ब्रवीमीति प्राग्वत् ॥
യറ്റുയാറുള്ളൂ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्री
भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तमाध्ययनं सम्पूर्णम् ॥ ७॥