________________
११२६ ॥
उत्तराप्षयनवम् मूलम्-वेमायाहि सिक्खाहिं, जे नरा गिहिसुव्वया।उविति माणुपं जोणिं, कम्मसच्चा हु पाणिणो ॥२०॥
व्याख्या-विमात्राभिर्विविधपरिणामाभिः शिक्षाभिः प्रकृतिभद्रकत्वादेरभ्यासरूपाभिः, उक्तञ्च-"चउहि ठाणेटिं जीवा मणुस्साउअं निबंधंति, तंजहा-पगतिभद्दयाए, पगतिविणीअयाए, साणुकोसयाए, अमच्छरिअयाएत्ति"ये नराः गृहिणश्च ते सुव्रताश्च धृतसत्पुरुषत्रता गृहिसुव्रताः, सत्पुरुषव्रतश्च लौकिका अप्येवमाहुः-"विपधुपैः खे पदमनुविधेयं च महता, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् ॥ असन्तो नाभ्यर्थ्याः सुहृदपि न यान्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १॥" आगमोक्तवतधारणं त्वेषां न सम्भवति, देवगतिहेतुस्वात्तस्य । यत्तदोर्नित्याभिसम्बन्धात् ते उपयान्ति प्राप्नुवन्ति मानुषी योनि, किमित्येवमत आह-'कम्मेत्यादि । यस्मात् सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः, सूत्रत्वायत्यये कर्मसत्याः प्राणिनः इति सूत्रार्थः ॥ २०॥ अथ लब्धलाभोपनयमाहमूलम् जेसिं तु विउला सिख्खा, मूलिअंते अइथिआ।सीलवंता सविसेसा,अदीणा जंति देवयं ॥२१॥
व्याख्या-येषां तु विपुला निःशङ्कितादिरूपदर्शनाचारादिविषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकास्तीति शेषः, मौलिकं मूलधनरूपं मानुषत्वं ते नराः 'अहत्थिअत्ति' अतिक्रम्योलंघ्य शीलवन्तः, अविरतसम्यग्दृष्ट्यपेक्षया सदाचारवन्तः, विरताविरतापेक्षया त्वणुव्रतवन्तो विरतापेक्षया पुनर्महात्रतादिमन्तः, सह विशेषेण उत्तरोत्तरगुणप्रतिपत्तिरूपेण वर्तन्ते इति सविशेषाः, अत एवाऽदीनाः, कथं वयममुत्र भयिष्यामः ? इति वैक्लव्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्टसंहननादिसामग्रीसद्भावे तु मोक्षमपि यान्तीति सूत्रार्थः ॥ २१॥ उक्तमर्थ निगमयनुपदेशमाह-- मूलम् –एवमदीणवं भिक्खुं, आगारि च विआणिआ। कहं नु जिच्चमेलिक्खं,जिच्चमाणोन संविदे॥२२॥
व्याख्या-एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं मिर्धा मुनिमगारिणं च गृहस्थं विज्ञाय विशेषण तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिचंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकषायादिभिरिति शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभ, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त एव, संविदानश्च यथा न जीयते तथा यतेतेति भावः इति सूत्रार्थः ॥ २२॥ समुद्रदृष्टान्तमाह-- मूलम्-जहा कुसग्गे उदगं, समुद्देण समं मिणे। एवं माणुस्सगा कामा, देवकामाणमंतिए ॥२३॥
व्याख्या-यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात्, अयं भावः-यथा कोप्यज्ञः कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात् , न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति । एवं मानुष्यकाः कामा देवकामानामन्तिके समीपे, अयमाशयो यद्यपि का मनुष्यकामान् देवकामोपमान् मन्यत, परं कुशाग्रजलबिन्दुसमुद्रवन्मनुष्यदेवकामानां महदेवान्तरमिति सूत्रार्थः॥२३॥ उक्तमेवार्थ निगमयन्नुपदेशमाहमूलम्-कुसग्गमित्ता इमे कामा, संनिरुद्धम्मि आउए।कस्स हेडं पुरा काउं, जोगक्खेमं न संविदे॥२४॥
व्याख्या-कुशाप्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादिमाने दीर्घ आयुषि, ततः 'कस्स हेउंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलब्धस्स लामो योगो लब्धस्य पालनं क्षेमस्तयोः समाहारे योगक्षेमं, अप्राप्सविशिष्टधर्मावाप्तिं प्राप्तस्य च तस्य पालनं न संवित्ते न जानाति जन इति शेषः, अयं भावः-योगक्षेमाज्ञाने हि भोगाभिष्वङ्ग एव हेतुर्मनुष्यभोगाच धर्मप्रभावप्रभवदिव्य भोगापेक्षयाऽत्यल्पाः ततस्तत्त्यागतो भोगाभिलाषिणापि धर्म एव यतनीयमिति सूत्रार्थः ॥ २४ ॥ इत्यं दृष्टान्तपञ्चकमुक्तं, तत्र चादौ उरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमुक्त, अपायबहुलमपि यत्र तुच्छ न तत्परिहर्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ताभ्यां तत्तुच्छत्वं दर्शितं, तुच्छमपि लाभच्छेदात्मकन्यवहारामिझतया आय व्ययतोलनानिपुण एव त्यक्तुं शक्त इति वणिग्व्यवहारदृष्टान्तः, आयव्ययतोलना च कथं कार्येति समुद्रदृष्टान्तस्तत्र च दिन्यकामानामन्धिजलोपमत्वमुक्त, तथा च तेषामुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्वतो दर्शितमिति ध्येयं । इह च योगक्षेमासंवेदने कामानिवृत्त एव स्यादिति तस्य दोषमाह