________________
॥ १२५ ॥
उत्तराध्ययनसूत्रम् वाणिज्योद्यमं व्यधात् ॥ १२ ॥ विशिष्टाहारवसन - गन्धमाल्यविभूषणैः ॥ व्ययति स्माऽखिलं वित्तं स च नित्यमुपार्जितम् ॥ १३ ॥ दध्यौ तृतीयो दुर्बुद्धिः, संख्यातुमपि दुःशकम् ॥ पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधौ ॥ १४ ॥ तथापि वार्धकावृद्धो, वर्धमानस्पृहाकुलः ॥ सुदूरे प्राहिणोदस्मा - नपस्मारो गुणानिव ॥ १५ ॥ तद्द्रव्योपार्जनोपायान्, हित्वा संक्लेशकारकान् ॥ भोक्ष्येऽहं नीविकावित्त-मेव वह्निरिवेन्धनम् ॥ १६ ॥ ध्यात्वेति तद्धनं धूत - वेश्यामद्यामिषादिभिः ॥ गन्धमाल्याङ्गरागैश्चा- चिरात्सर्वं व्यनाशयत् ॥ १७ ॥ अथो यथोक्तकालान्ते, ते त्रयः स्वगृहं ययुः ॥ तेष्वाद्यं तत्पिता तुष्टः, सर्वस्वस्वामिनं व्यधात् ॥ १८ ॥ द्वितीयं तु सुतं गेह-व्यापारेषु नियुतवान् ॥ स चान्नादि सुखं लेभे न तु श्रीकीर्तिगौरवम् ॥ १९ ॥ छिन्नमूलं तृतीयं तु, खसौधान्निरकाशयत् ॥ स च भूयस्तरं दुःखं लेभेऽन्यप्रेष्यतादिभिः ॥ २० ॥ केप्याहुर्वणिजोऽभूवं-स्त्रयो वाणिज्यतत्पराः ॥ तेष्वेको भाग्यवान् लब्ध-लाभोऽमोदत बन्धुयुक् ॥ २१ ॥ लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो व्यवहर्तुमुत्कः ॥ लाभं विना मूल भोगी, लेभे तृतीयस्तु भुजिष्यभावम् ॥ २२ ॥ इति वणिक्त्रयदृष्टान्तः ॥
अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुत्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्यायेन धर्म धर्मविषये एनामेवोपमां विजानीतेति सूत्रार्थः ॥ १५ ॥ कथमित्याह -
मूलम् - माणुसतं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ १६ ॥
व्याख्या—मानुषत्वं मनुजजन्म भवेन्मूलमिव मूलं, खर्गापवर्गाद्युत्तरोत्तरलाभहेतुत्वात् । तथा लाभ इव लाभ नरजन्मापेक्षया विषयसुखादिभिर्विशिष्टत्वाद्देव गतिर्देवत्वावाप्तिर्भवेत्, मूलच्छेदेन नरगतिहान्यात्मकेन जीवानां नारकत्वं च ध्रुवं निश्चितं इदमिह पारम्पर्यम् - " यथा केपि त्रयः संसारिणो जीवा नरत्वं प्राप्ताः तेष्वेको मार्दवार्जवा - दिगुणाढ्यो मध्यमारम्भपरिग्रहवान् मृत्वा मूलरक्षकवणिग्वत् कार्षापणसहस्रस्थानीयं नृत्वमेव लेभे । द्वितीयस्तु सम्यक्त्वचारित्रादिगुणान्वितः सरागसंयमालब्धलाभवणिग्वलाभतुल्यां देवगतिं प्राप्तः । तृतीयस्तु हिंसामृषावादादिसावद्ययोगयुक्तश्छिन्नमूलवणिग्वत् मूलच्छेददेश्यां नरकतिर्यग्गतिमाससादेति सूत्रार्थः ॥ १६ ॥ मूलच्छेदमेव स्पष्टयतिमूलम् - दुहओ गइ बालस्स, आवई वहमूलिआ । देवत्तं माणुसत्तं च, जं जिए लोलया सढे ॥ १७ ॥
व्याख्या- 'दुहओत्ति' द्विधा गतिः प्रक्रमान्नरकगतितिर्यग्गतिरूपा बालस्य रागद्वेषाकुलस्य स्यादिति गम्यते । तत्र च गतस्य 'आवइत्ति' आपत् स्यात्, सा च कीदृशीत्याह - बधस्ताडनं मूलमादिर्यस्याः सा तथा, मूलशब्दाच छेदभेदगारारोपणादिपरिग्रहः । लभन्ते हि प्राणिनो नरकतिर्यक्षु त्रिविधा वधाद्यापदः, किमित्येवमत आह-देवत्वं मानुषत्वं च यज्जितोपहारितः 'लोलया सढेत्ति' लोलता मांसादिलाम्पट्यं तद्योगाज्जीवोपि लोलतेत्युक्तः, शठो विश्वस्तजनवञ्चकः, इह लोलताशब्देन पञ्चेन्द्रियवधादिकमुपलक्षते, ततोऽनेन नरकहेतुरुक्तः, यदुक्तं - "महारंभयाए महापरिग्गहियाए कुणिमाहारेणं पंचिंदिअवहेणं जीवा निरयाउअं निअच्छंतित्ति” शठ इत्यनेन तु शाख्यमुक्तं तच्च तिर्यगतिहेतु:, यदाहु:- “तिरिआउ गूढहिअओ, सढो ससलो समज्जिणइत्ति” अयं चात्र भावार्थ:- यतोऽयं बालो नरकतिर्यग्गतिहेतुभ्यां लोलताशाठ्याभ्यां देवत्वनरत्वे हारितस्ततोऽस्य द्विविधैव गतिः सम्भवतीति सूत्रार्थः ॥१७॥ पुनर्मूलच्छेदमेव स्पष्टयति
मूलम् - ओ जिए सई होइ, दुविहं दुग्गइं गए । दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ॥ १८ ॥
व्याख्या - ततो देवत्वनरत्वाभावात् 'जिएत्ति' सर्व वाक्यं सावधारणमिति न्यायाज्जित एव हारित एव 'सइंति' सदा भवति द्विविधां नरकतिर्यगुरूपां दुर्गतिं गतः, कुतश्चैवं १ यतो दुर्लभा तस्य बालस्य 'उमग्गत्ति' सूत्रत्वादुन्मज्जा नरकतिर्यग्गतिनिर्गमनरूपा अद्धायामनागतकाले सुचिरादपि प्रभूतायामपि बाहुल्यापेक्षया चैवमुक्तं, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमपि लभन्त इति सूत्रार्थः ॥ १८ ॥ इत्थं पश्चानुपूर्व्या मूलहारिणि पूर्वमुपनयमुपदर्श्य मूलप्रवेशिनि तदुपदर्शनायाह
मूलम् — एवं जिअं सपेहाए, तुलिआ बालं च पंडिअं । मूलिअं ते पवेसंति, माणुसं जोणिमिंति जे ॥ १९ ॥
व्याख्या— एवं उक्तनीत्या जितं देवत्वनरत्वे हारितं बालं 'सपेहाएत्ति' सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वा गुणदोषवत्तया परिभाव्य बालं पण्डितं च मौलिकं मूलधनं ते मूलप्रवेशकवणिक्सदृशाः प्रवेशयन्ति ये मानुषां योनिमायान्ति, बालत्वं त्यक्त्वा तदुचितपांडित्या सेवनादिति सूत्रार्थः ॥ १९ ॥ कथं मनुष्ययोनिमायान्तीत्याह