________________
॥१२४॥
उत्तराप्ययनसूत्रम् पामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह । इह च पूर्व 'देवकामाणमंतिएत्ति' काममात्रोपादानेऽपि 'आउं कामा य दिग्विा' इत्यत्र यदायुपोप्यादानं तत्तत्रत्यायुप्कादीनामपि मनुष्यजीविताद्यपेक्षयातिभूयस्त्वख्यापनार्थमिति सूत्रार्थः ॥ १२ ॥ मनुष्यकामानामेव काकिण्याम्रफलोपमतां भावयितुमाह-- मूलम्-अणेगवासानउआ, जा सा पण्णवओ ठिई। जाणि जीति दुम्मेहा, ऊणे वाससयाऊए ॥१३॥ ___ व्याख्या-अनेकानि बहूनि तानि चेहासंख्येयानि वर्षाणां वत्सराणां नयुतानि संख्याविशेषा अनेकवर्षनयुतानि, प्राकृतत्वात्सकारस्याकारः । नयुतानयनोपायस्त्वयं-"चतुरशीतिवर्षलक्षा पूर्वाङ्गं, तच पूर्वाङ्गेन गुणितं पूर्व । पूर्व चतुरशीतिलक्षाहतं नयुताऊं, नयुताङ्गमपि चतुरशीतिलक्षाहतं नयुतमिति" । का नामैवमुच्यते इत्याह-जा सेति' प्रज्ञापकः शिष्यान् प्रत्याह-या सा भवतामस्माकञ्च प्रतीता। 'पण्णवओत्ति' प्रकृष्टं ज्ञानं प्रज्ञा सा विद्यते यस्यासौ प्रज्ञावान् , न च क्रियाविकलं ज्ञानं प्रकृष्ट स्यादिति प्रज्ञाशब्देन क्रियाप्याक्षिप्यते, ततश्च प्रज्ञावतो ज्ञानक्रियावतः स्थितिवभवायुर्लक्षणा अधिकृतत्वादिव्यकामाश्च भवन्तीति शेषः, यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि जीयन्ते हारयन्ति तद्धेतुभूतानुष्ठानाकरणेनेति भावः । दुर्मेधसो दुर्मतयो विषयविवशाः प्राणिन इति गम्यते, क पुनस्तानि हारयन्तीत्साह-ऊने वर्षशतायुषि, प्रभूते खायुषि प्रमादादेकवारं हारितान्यपि पुनरय॑न्ते, अस्मिंस्तु संक्षिप्तायुष्येकदापि हारितानि हारितान्येव, श्रीवीरखामितीर्थे च प्रायो न्यूनवर्षशतायुषः एव प्राणिन इत्येवमुच्यते । अयं चेह समुदायार्थः, गुरुः शिष्यानुद्दिश्योपदिशति, असंख्यवर्षनयुतानि कोऽर्थः पल्योपमसागरोपमाणि ज्ञानक्रियावतो मुनेर्देवलोकेषु स्थितिः प्रक्रमात्कामाश्च सर्वोत्कृष्टा भवन्तीत्यस्माकं जिनवरः श्रद्दधतां प्रतीतमेवास्ति । दुर्मेधसस्तु इहये खल्पायुषि तुच्छकामभोगेषु लोलुपा धर्माकरणेन तां स्थिति तान् कामांश्च हारयन्तीति । दृष्टान्तदाान्तिकयोजना त्वेवं, मनुष्याणामायुर्विषयावातिखल्पतया काकिण्याम्रफलोपमाः, सुराणामायुःकामाश्चातिप्रचुरतया कार्षापणसहस्रराज्यतुल्यास्ततो यथा द्रमको राजा वा काकिण्याम्रफलकते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्धियोऽल्पतरमनुष्यायुः कामार्थ प्रभूतान् देवायुः कामान् हारयन्तीति सूत्रार्थः ॥ १३ ॥ सम्प्रति व्यवहारोदाहरणमाह-- मूलम्-जहा य तिण्णि वण्णिआ, मूलं चित्तूण निग्गया। एगोत्थलहए लाभ, एगो मूलेण आगओ ॥१४॥
व्याख्या-यथेति निदर्शनोपनिदर्शने, चशब्दः पूर्वोक्तदृष्टान्तापेक्षया समुच्चये, त्रयो वणिजः मूलं नीवीं गृहीत्वा निर्गताः खस्थानात् स्थानान्तरं प्रति प्रस्थिता इष्टस्थानं गताच, तत्र च गतानामेको वाणिज्यकलाकलितः, अत्र एतेषु मध्ये लभते लाभं विशिष्टद्रव्योपचयात्मकं, एकस्तेष्वेवाऽन्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलधनेन यावद्गृहान्नीतं तावतैवोपलक्षित आगतः खस्थानं प्राप इति सूत्रार्थः ॥ १४ ॥ तथामूलम्-एगो मूलंपिहारित्ता, आगओ तत्थ वाणिओ। ववहारे उवमा एसा, एवं धम्मे विआणह ॥१५॥
व्याख्या-एकोऽन्यतरः प्रमादपरो घूतमद्यादिष्वत्यन्तमासक्तः मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः खस्थानमिति शेषः, तत्र तेषु मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदायःतथा हि पुर्या काप्येको, बभूवेभ्यो महाधनः ॥ सम्प्राप्तयौवनास्तस्य, जज्ञिरे नन्दनास्त्रयः॥१॥ तेषां सहस्रं
दत्वा प्रत्येकमेकदा ॥ तद्भाग्यादिपरीक्षार्थ-मित्युवाच स नैगमः॥२॥ गत्वा पृथक पुरीविते-नेयता व्यवहत्य च ॥ कालेनैतावताऽऽगम्यं, युष्माभिः सकलैरिह ॥ ३॥ ततस्ते तद्धनं लात्वा, गत्वा चान्यान्यनीति ॥ पृथक् पृथक् पत्तनेषु, तस्थुः सुस्थितचेतसः ॥ ४ ॥ तेष्वेकोऽचिन्तयत् प्रेषीत् , परीक्षार्थ पिता हि नः ॥ तोषणीयः स तद्भूरि-धनोपार्जनया मया ॥५॥ चञ्चापुरुषकल्पो हि, पुमर्थासाधकः पुमान् ॥ पुमर्थेषु च सर्वेषु, प्रधानं गृहिणां धनम् ॥६॥ तदपार्जनयोग्यं च. वयो मे वर्ततेऽधना ॥ द्वितीयमेव हि वयो, द्रविणोपार्जने क्षमम् ॥७॥ यदुक्तं-"प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् ॥ तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ॥८॥" विमृश्येति घूतमध-वेश्यादि व्यसनोज्झितः ॥ यथोचितं व्ययन् वित्त-मदनाच्छादनादिना ॥ ९॥ व्यापार विविधं कुर्वन् , अनर्वाणं स वाणिजः ॥ उपार्जयबहु द्रव्यं, व्यापारो हि सुरद्रुमः ॥ १०॥ द्वितीयोऽचिन्तयद्वित्त-मस्ति भूयस्तरं हि नः ॥ विनार्जना भुज्य
तु तत्क्षीयते क्षणात ॥ ११॥ तन्मया रक्षता मूलं, भोक्तव्यं धनमर्जितम् ॥ ध्यात्वेति नातिभूयांसं, स
१ उत्तमम् ।