________________
उतराध्ययनसूत्रम् ।
"अथ सप्तमाध्ययनम्'
॥ १२१ ॥
641
॥ॐ॥व्याख्यातं षष्ठमध्ययनं साम्प्रतमौर श्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्त्रत्वं उक्तं तच रसगृद्धेः परिहारादेव स्यात् तत्परिहारस्तु विपक्षे दोपदर्शनात्तच दृष्टान्तोपदर्शनद्वारा स्फुटं स्यादिति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धेनायातेऽस्मिन्नध्ययने दृष्टान्तपञ्चकं वायं यदाह नियुक्तिकृत् -" उरब्भे १ कागिणि २ अंबएअ ३ ववहार ४ सायरे चेव ५ ॥ पंचेए दिहंता, ओर भीअंमि अज्झथणे ॥ १ ॥” तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम्
मूलम् – जहा एसं समुद्दिस्स, कोइ पोसिज एलयं । ओअणं जवसं दिजा, पोसेज्जावि सयंगणे ॥ १ ॥
व्याख्या - यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽस्मिन्नागत इत्यादेशः प्राचूर्णकरतं समुद्दिश्य यथाऽसौ समेष्यति समायातश्चैनं भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्षः पोषयेत् एलकमूरणकं, कथमित्याह-ओदनं भुक्तशेषं तद्योग्य शेषान्नोपलक्षणश्चैतत् यवसं मुद्गमाषादि च दद्यात्तदग्रतो डोकयेत्, पोषयेत्, पुनर्वचनमस्यादरख्यापनार्थ, अपिः सम्भावने, संभाव्यते हि कोप्येवंविधो गुरुकर्मेति, स्वकाङ्गणे स्वकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति वकाङ्गण इत्युक्तमिति सूत्रार्थः ॥ १॥ ततोऽसौ कीदृशो भवतीत्याहमूलम् - ओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ॥ २ ॥
व्याख्या - तत इत्योदनादिभोजनात्स इत्युरभ्रः, पुष्ट उपचितमांसतया पुष्टिमान्, परिवृढः समर्थः, जातमेदा उपचितचतुर्थधातुः, अत एव महोदरो बृहज्जठरः, प्रीणितस्तर्पितो यथाकालमुपढौकिताहारादिभिरेव, विपुले विशाले देहे सति आदेशं परिकांक्षतीव परिकांक्षति । इह च उरभ्रार्भकस्य प्राघूर्णकाभिकांक्षाभावेऽपि यदेवमुक्तं तदादेशयोग्योऽसौ जात इति जनैरुज्यमानत्वात्, तद्योग्यश्च तमिच्छतीत्युपचारादुच्यते, यथा हि वराह कनी वरमनिछन्त्यपि तमिच्छतीत्युच्यते इति सूत्रार्थः ॥ २ ॥ ततश्च
मूलम्——जाव न एइ आएसे, ताव जीवइ से दुही । अह पत्तंमि आएसे, सीसं छित्तूण भुजइ ॥३॥
व्याख्या --- यावन्नेति न समायाति आदेशोऽतिथिस्तावज्जीवति प्राणान् धारयति स उरभ्रो दुःखी, वध्यमण्डनमिवास्यौदनादेरदनस्य दानं । अहेत्यादि - अथानन्तरं प्राप्ते आगते आदेशे शिरो मस्तकं छित्वा द्विधा विधाय भुज्यते तेनैव खामिना प्राघूर्णकयुक्तेनेति शेषः । अत्र चायं सम्प्रादायः
तथा हि नगरे कापि, गृहस्थः कोऽपि निष्क्रियः ॥ उरभ्रबालकं कश्चित् पुपोषाऽतिथिहेतवे ॥ १ ॥ मुग्धत्वमञ्जुलाकारं, कृतकर्णावचूलकम् ॥ खपिताङ्गं हरिद्रादि - रागालङ्कृतभूषनम् ॥ २ ॥ तचातिपीनवपुषं गृहाचिपतिबालकाः ॥ क्रीडाप्रकारैर्विविधैः क्रीडयाञ्चक्रुरन्वहम् ॥ ३ ॥ [ युग्मम् ] तञ्च दृष्ट्वा लाल्यमानमुत्कोपः कोऽपि तर्णकः ॥ विमुक्तं गोदुहा मात्रा, गोपितं न पपौ पयः ॥ ४ ॥ लिहती तं ततः सेहा-देनुः पप्रच्छ वत्सकम् ॥ कुतो हेतोरिदं दुग्धं, न पिवस्यद्य नन्दन ! ॥ ५ ॥ सोऽवादीद्भोजनै रम्यैः, सर्वेऽस्मत्खामिनन्दनाः ॥ उरभ्रं पोषयन्त्येनं, लालयन्ति च पुत्रवत् ॥ ६ ॥ मन्दभाग्याय जयं तु, न काले पावयन्त्यपः ॥ न च यच्छन्ति पूर्णानि, शुष्काण्यपि तृणान्यहो ! ॥ ७ ॥ पक्कि भेदेन तन्मात-र्मनो मे दूयते भृशम् ! ॥ अत एव च न क्षीर--मय सद्यः पिवाम्यहम् ॥ ६ ॥ तच्छ्रुत्वा गौर्जगौ वत्स !, किमत्रार्थे विषीदसि ? ॥ उरपोषणं होत - दातुरार्पणसन्निभम् ॥ ९ ॥ रोगिणाऽभ्यर्थ्यमानं हि निश्चितासन्नमृत्युना ॥ यथा पध्यमपथ्यं वा, सर्व तस्मै प्रदीयते ॥ १० ॥ ज्ञेयं वत्स ! तथैवेद - मुरभ्रस्यापि पोषणम् ॥ लप्स्यते नियतं मृत्यु - मागतेऽभ्यागते सौ ॥ ११ ॥ शुष्कस्तोकतृणावाप्ति-रप्यसौ शोभना ततः ॥ उपद्रवविनिर्मुक्तैः सुचिरं जीव्यते यया ॥ १२ ॥ जनन्येत्युदितः प्रेम्णा, वर्णकः स्तन्यमापिवत् ॥ प्राघूर्णकाः समाजग्मु - स्वत्स्वामिसदनेऽन्यदा ॥ १३ ॥ तसुरभ्रं ततो हत्वा गृहेशस्तानभोजयत् ॥ निघ्नन्ति हि परान् खल्पा-यापि स्वार्थाय निर्दयाः १ ॥ १४ ॥ तञ्च वा इन्यमान - ममानं मीतमानसः ॥ नापान्मातुः पयः साय - मायातायाः स तर्णकः ॥ १५ ॥ दुग्धापाननिदानं च, पृष्टो मात्राऽजवीदिति ॥ मातरद्य कुतोप्यत्रा - ऽऽययुः प्राघूर्णका घनाः ॥ १६ ॥ ततो व्यात्ताननः कृष्ट-जिह्वाप्रो