________________
१२.
उचराघवनरक्षम् मूलम् - विगिंच कम्मुणो हेडं, कालखी परिबए । मायं पिंडस्स पाणस्स, कई लडूण भक्खपा॥
पाल्या-विविच्च पृथकृत्य कर्मणो ज्ञानावरणादेहेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, कालमनुष्ठानापसरे काक्षतीत्येवं शीलः कालकांक्षी परिव्रजेदिति प्राग्वत् , मात्र यावत्या संयमनिर्वाहस्तावती ज्ञात्वेति शेषः, पिण्डल मोदनादेः, पानस्य च सौवीरादेः, खाद्यखाद्यानादानं तु यतेः प्रायस्तत्परिभोगासम्भवात् , कृतं खार्थमेव विहित गृहस्वैरिति शेषः, प्रक्रमात् पिण्डादिकमेव लम्ध्या प्राप्य भक्षयेदिति सूत्रार्थः ॥ १५ ॥ मुक्तशेषश्च म दिनान्तरमुक्तये स्थाप्यमित्याहमूलम्-सन्निहिं च न कुविजा, लेवमायाइ संजए । पक्खीपत्तं समादाय, निरविक्खो परिबए ॥१६॥
व्याख्या-सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वीत, चः पूर्वापेक्षया समुचये, लेप मात्रया यावता पात्रं लिप्यते तावन्तमपि सन्निधिं न कुर्यादास्तां पहुं, संयतो मुनिः, किमेवं पात्रायुपकरणसन्निधिरपि न कर्तव्य इत्याह-'पक्खीत्यादि' पक्षीव पक्षी, पात्रं पतद्रहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणश्च समादाय गृहीत्वा निरपेक्षो निरभिलाषः परिव्रजेदयं भावः-यथा पक्षी पक्षसञ्चयमादाय याति तथायमपि पात्रा ततश्च प्रत्यहमसंयमपलिमन्यभीरुत्वात् पात्रादिसन्निधिकरणम् न दोषायेति सूत्रार्थः ॥ १६ ॥ कथं पुनर्निरपेक्षः परिव्रजेदित्याहमूलम्-एसणासमिओ लजू , गामे अणिअओ चरे । अप्पमत्तो पमत्तेहि, पिंडवायं गवेसए ॥१७॥ ___ व्याख्या-एपणायामुद्गमोत्पादनग्रहणग्रासविषयायां समित उपयुक्त एषणासमितः, अनेन निरपेक्षत्वमुक्तं, 'लजूत्ति' लज्जा संयमस्तद्वान् , ग्रामे उपलक्षणत्वान्नगरादौ च अनियतवृत्तिश्चरेत् विहरेत् , अनेनापि निरपेक्षतवोक्ता, चरंच किं कुर्वीतेत्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यस्ते हि विषयादिसेवनासक्तत्वात्प्रमत्ता उच्यन्ते पिण्डपातं मिक्षां गवेषयदिति सूत्रार्थः ॥ १७ ॥ इत्थं संयमखरूपप्ररूपणद्वारा निर्ग्रन्थखरूपमुक्तं, न चैतमिजमतिकल्पितमित्याह
मूलम्-एवं से उदाहु अण्णुत्तरनाणी अणुत्तरदसी अणुत्तरनाणदसणधरे
____ अरहा णायपुत्ते भयवं वेसालिए विआहिएत्ति बेमि ॥१८॥ व्याख्या-एवमनेन प्रकारेण 'से' इति, स खामी 'उदाहुत्ति' उदाहतवान् उवाचेत्यर्थः । अनुत्तरज्ञानी सर्वोत्तटज्ञानवान् । तथाऽनुत्तरं सर्वोत्कृष्टं पश्यतीत्यनुत्तरदर्शी । सामान्यविशेषग्राहितया च दर्शनज्ञानयोर्भेदः । यदाहु:"जं सामण्णग्गहणं, दंसणमे विसेसि नाणंति" अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः । पूर्वविशेषणाभ्यां हि ज्ञानदर्शनयोरुपयोगस मिन्नकालतोक्का, ततधोपयोगवन्धियमपि मिन्नकालं भावीति व्यामोहः कस्यचिन्माभूदत उक्तमनुत्तरज्ञानदर्शनधर इति न पौनरुक्त्यं । अर्हन् तीर्थकरो, ज्ञात उदारक्षत्रियः स चेह सिद्धार्थस्तत्पुत्रो ज्ञातपुत्रः श्रीवर्डमानजिनः, भगवान् समचर्यादिमान् , विशालाः शिष्या यशःप्रभृतयो वा गुणा विद्यन्ते यस स वैशालिकः, 'विजाहिएति' व्याख्याता सदेवमनुजासुरायां पर्षदि धर्मस कथयितेति सूत्रार्थः ॥ १८ ॥ इति ब्रवीमीति प्राग्वत् ॥
ജനമായ ഇ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायनीमुनिविमलगणिशिष्यो। श पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रपती षष्ठमध्ययनं सम्पूर्णम् ॥६॥