________________
उत्तराध्ययनसूत्रम् ।
॥ ११९ ॥
gust शिख वापि मुच्यते नात्र संशयः ॥ १ ॥ तेषां हि ज्ञानमेव मुक्तिकारणं, न चैतचारु, न हि रोगिणामप्यौबधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तर्हि भावरोगेभ्यो ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपञ्चाझोपलक्षितक्रियां विना कथं मुक्तिरिति १ ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव आत्मानं स्वस्थयन्तीति ॥ ९ ॥ तथा चाह
मूलम् — भणता अकरिंता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ॥१०॥
व्याख्या—भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति ब्रुवन्तः, अकुर्वन्तश्च मुक्त्युपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञाभ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्येते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः । वाग्वीर्य वचनशक्तिर्वाचालतेति यावत्, तदेवानुष्ठानशून्यं वाग्वीर्यमात्रं तेन समाश्वासयन्ति, ज्ञानादेव षयं मुक्तिं यास्याम इति स्वस्थयन्त्यात्मानमिति सूत्रद्वयार्थः ॥ १० ॥ न च तद्वाग्वीर्य त्राणाय स्यादित्याहमूलम् - चित्ता तायए भासा, कओ विजाणुसासणं । विसण्णा पावकम्मेहिं, बाला पंडिअमाणिणो ॥ ११ ॥
व्याख्यान नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमंत्रौषधीनां प्रभाव इति मंत्राद्यात्मिका भाषा त्राणाय भाषिनीत्याशङ्कापोहायाह- कुतो विद्याया विचित्रमंत्रात्मिकाया अनुशासनं शिक्षणं विद्यानुशासनं त्रायते पापान्न कुतोऽपि तन्मात्रादेव मुक्तौ शेषानुष्ठानवैय
प्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह- 'विसण्णत्ति ' विविधं सन्ना मनाः पापकमसु हिंसाद्यनुष्ठानेषु सततकारितयेति भावः, कुतश्चैवं ? यतस्ते बाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं भावः- ये बालाः पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाचा दुष्कर्माणि त्यजेयुर्न तु तेषु विषण्णा एवासीरन् ! ये तु बालाः पण्डितमानिनश्च ते तु खयमज्ञा अपि ज्ञत्वगर्यादन्यं ज्ञानिनमनाश्रयन्तो विषण्णा एव स्युरिति सुत्रार्थः ॥ ११ ॥ अथ सामान्यतयैव मुक्तिपथप्रत्यर्थिनां दोषमाह--जे केइ सरीरे मूलम् - वणे रूवे असवसो । मणसा कायवक्केणं, सवे ते दुक्खसंभवा ॥१२॥ व्याख्या - ये केचिच्छरीरे सक्ता लालनाभ्यञ्जनोद्वर्त्तनादिभिर्बद्धाग्रहाः, तथा वर्णे गौरवत्वादिके, रूपे सौन्दर्ये, च शब्दात् स्पर्शादिषु च सक्ता आसक्ताः, 'सबसोत्ति' सूत्रत्वात्सर्वथा स्वयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा कथं वयं पीनदेहा वर्णादिमन्तश्च भविष्याम इति ध्यानात् कायेन रसाद्युपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ॥ १२ ॥ यथा चैते दुःखभाजनं तथा दर्शयन्नुपदेशसर्वस्वमाह
सत्ता,
मूलम् -- आवन्ना दीहमद्धाणं, संसारंमि अनंतए । तम्हा सर्व्वादिसं पस्स, अप्पमत्तो परिवए ॥ १३ ॥ व्याख्या-- आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अपर्यवसाने दुःखान्यनुभवन्तीति शेषः 'तम्पत्ति' यस्मादेवमेते मुक्तिमार्गवैरिणो दुःखसम्भवास्तस्मात् 'सञ्चदिसंति' सर्वदिशः प्रस्तावादशेषभावदिशोष्टादशभेदाः “पुढवि १ जल २ जलण ३ वाया ४ मूला ५ खंध ६ ग्ग ७ पोरबीआ य ८ ॥ बि ९ ति १० च ११ पणिंदितिरिआ १२ य नारया १३ देवसंघाया १४ ॥ १ ॥ संमुच्छिम १५ कम्मा १६ कम्मभूमिगनरा १७ तहंतरद्दीवा १८ ॥ भावदिसाओ दिस्सति, संसारी निअयमे आहिं ॥ २ ॥” इतिगाथाद्वयोक्ताः पश्यन् अप्रमत्तः प्रमादरहितः, यथा तेषां एकेन्द्रियादीनां विराधना न स्यान्न च तेषु पुनरुत्पत्तिर्भवति तथा परिव्रजेः संयमाध्वनि यायाः सुशिष्येति सूत्रार्थः ॥ १३ ॥ कथं परित्रजेदित्याह -
मूलम् - बहिआ उड्डमादाय, नावकंखे कयाइवि । पुत्रकम्मक्खयट्ठाए, इमं देहं समुद्धरे ॥ १४ ॥ व्याख्या - बहिर्भूतं संसारादिति गम्यते, ऊर्द्ध सर्वोपरिस्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थं यतितव्यमिति निश्वित्य नावकांक्षेद्विषयादिकं नाभिलषेत् कदाचिदपि उपसर्गपरीषहाकुलिततायामपि आस्तामन्यदा । एवञ्च सत्याकांक्षाकारणं देहधारणमप्ययुक्तमित्याशङ्कापोहार्थमाह-पूर्व पूर्वकालभावि यत्कर्म तत्क्षयार्थ इमं प्रत्यक्षं देहं समुद्धरेत् उचिताहारादिभिः परिपालयेत्, तद्धारणस्य विशुद्धिहेतुत्वात्तत्पाते हि भवान्तरोत्पत्तावविरतिः स्यादुक्तञ्च - " संजमं संजमाओ अप्पाणमेव रक्खिज्जा ॥ मुञ्चति अतिवायाओ, पुणो विसोही न याविरई ॥ १ ॥ " ततो निरभिवङ्गतया शरीरोद्धरणमपि कर्त्तव्यमिति सूत्रार्थः ॥ १४ ॥ देहपालने च निरभिष्वङ्गताविधिमाह
- " सत्य