SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ॥११८॥ उत्तराप्ययनसूत्रम् । व्याख्या-एवमनन्तरोक्तमर्थ खप्रेक्षया खबुद्ध्या 'पासेत्ति' पश्येदवधारयेत् , शमितमुपशमितं दर्शनं प्रस्तावा. मिथ्यात्वात्मकं येन स शमितदर्शनः सम्यग्दृष्टिः सन् , “छिंदत्ति' सूत्रत्वात् छिंद्यात् , गृद्धिं विषयामिष्वङ्गरूपां, सेहच खजनादिप्रेम, न नैव कांक्षेदभिलषेत् पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखो. त्पत्ती अत्रामुत्र वा त्राणाय धर्म विनेति सूत्रद्वयार्थः ॥ ४ ॥ एनमेवार्थ विशेषतोऽनद्यास्यैव फलमाहमूलम्-गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेअं चइत्ता णं, कामरूवी भविस्ससि ॥५॥ व्याख्या-गावश्च अश्वाश्च गवाश्चं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात् , मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलं, उपलक्षणं चैतत्वर्णादीनां सर्वभूषणानाञ्च। पशवोऽजैडकादयः । दासाश्च गृहजातादयः 'पोरसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति भावः, कामरूपी भविष्यसि, इहैव विकरणाधनेकलब्धियोगात् परत्र च देवभवाप्तेरिति सूत्रार्थः ॥ ६ ॥ पुनर्द्वितीयगाथोक्तसत्यखरूपमेव विशेषत आहमूलम्-थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पञ्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे॥६॥ १ अथवा-सम्यकूपकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः एतादृशः संयमी ॥ ग. घ व्याख्या-स्थावरं गृहारामादि, जङ्गमं पल्यादि, 'चेवत्ति' समुच्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, एतानि कर्मभिः पच्यमानस्य जीवस्य नालं, न प्रभूणि दुःखाद्विमोचने इति सूत्रार्थः ॥ ६ ॥ ततश्चमूलम्-अज्झत्थं सवओ सबंदिस्स पाणे पिआयए । न हणे पाणिणो पाणे,भयवेराओ उवरए ॥७॥ व्याख्या-'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्म मनस्तत्र तिष्ठतीति अध्यात्मस्थं, तचेह प्रस्तावात्सु. खादि सर्वत इष्टसंयोगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः, सर्व सकलं 'दिस्सत्ति' दृष्ट्वा प्रियादिस्वरूपेणावधार्य, चस्य गम्यमानत्वात्प्राणांश्च जीवान् “पिआयएत्ति' प्रिय आत्मा येषां ते तथा तान् , बहुहिरण्यकोटिमूल्येनाऽभयकुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् प्राणिनः प्राणान् इन्द्रियादीन् , प्राणिन इत्यत्र जातित्वादेकवचनं १ यथा राजगृहे सभास्थितेन श्रेणिकनृपेण प्रोक्तं, सम्प्रति नगरे किं वस्तु सुलभं खादु चास्ति ? क्षत्रियाः प्रोचुर्मासं समर्घ स्वाद चास्ति । तदा अभयकुमारेण चिन्तितं, एते निर्दयाः। यथा पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्रौ सर्वक्षत्रियगृहेषु पृथक् पृथक गत्वा अभय एवमवादीत् । भो क्षत्रियाः! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति! यदि मनुष्यसत्कं कालेयमांसं टंकद्वयमितं दीयते तदा स जीवति नान्यथेति वैद्यैरुक्तमस्ति । ततो यूयं राज्ञो ग्रासजीविनो भवद्भिरेवैतत्कार्य कर्त्तव्यं ।। तदा एकेनोक्तं दीनारसहस्रं गृहाण पर मां मुच्च. अन्यत्र गच्छ ! अभयेन तद्हीतम् । एवं रात्रौ प्रतिगृहं परिभ्रम्य तैर्दत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धनं क्षत्रियेभ्यो दर्शितं, प्रोक्तञ्च । अहो ! गतदिने यूयमेवमवदत! यन्मांसं सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांस मया न प्राप्तं ततो लजिता अमयेन हकिता मांसभक्षणनियमं प्रापिताश्च । अत्रार्थे श्लोकः-"स्वमांसं दुर्लभं लोके, लक्षेणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम्" कीदृशः सन्नित्याह-भयं च भीतिर्वैरं च द्वेषो भयवैरं तस्मादुपरतो निवृत्तः सन्निति सूत्रार्थः ॥ ७ ॥ एवं हिंसाश्रपनिरोधमुक्त्वा शेषाश्रवनिरोधमाहमूलम्-आदाणं नरयं दिस्स, नायइज तणामवि । दोगुंछीअप्पणो पाए,दिण्णं भुंजिज भोअणं ॥८॥ व्याख्या-आदीयते इत्यादानं, धनधान्यादि, नरकहेतुत्वान्नरकं दृष्ट्वावधार्य नाददीत न गृह्णीयात्तृणमपि, आस्तां हिरण्यादि। कथं तर्हि जीवनमित्याह-'दोगुंछित्ति' जुगुप्सते आत्मानं आहारं विना धर्मधुराधरणाक्षममित्येवं शीलो जुगुप्सी, न तु रसादिलम्पटः, आत्मनः सम्बन्धिनि पात्रे, न त गृहस्थपात्रे. तत्र भानस्य पश्चात्कोदिदो पात् , दत्तं गृहस्थैरिति शेषः, मुजीत भोजनमाहारं । अनेन परिग्रहाश्रवपरिहार उक्तः, तदेवं तन्मध्यपतितस्तद्हणेन गृपते इति न्यायान्मृषावादादत्तादानमैथुनलक्षणाश्रवत्रयनिरोध उक्त एवेति सूत्रार्थः ॥ ८॥ एवं पञ्चाश्रवविरमणात्मके संयमे प्रोक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहमूलम्-इहमेगे उ मण्णंति, अप्पञ्चक्खाय पावगं । आयरिअं विदित्ताणं, सबदुक्खा विमुच्चइ ॥९॥ व्याख्या-इह जगति एके केचित्परतीर्थिकाः, तुः पुनरर्थे, मन्यन्ते अभ्युपगच्छन्ति उपलक्षणत्वात्परूपयन्ति च, यथा अप्रत्याख्याय अनिवार्य पातकं प्राणातिपातादि 'आयरिअंति' आचारिकं निजनिजाचारमवमनुष्ठानं तदेव विदित्वा यथावदवबुध्य सर्वदुःखात् शारीरमानसाद्विमुच्यते, यदाहुः-"पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः ॥ जटी
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy