________________
उतराध्ययनसूत्रम
॥ ११७ ॥
गृहं प्रति ॥ न्यवर्त्तिष्ट विनालाभ-मुद्यमो हि श्रथो भवेत् ॥ ४ ॥ स चान्यदा कचिद्वामे, निशि वासार्थमागतः ॥ तस्थौ देवकुले स्थाना-वाप्तिस्तत्रैव तादृशाम् ॥ ५ ॥ तत्र तत्रस्थिते पश्यत्येव देवकुलात्ततः ॥ विद्यासिद्धः कुम्भपाणिः, पुरुषः कोऽपि निर्ययौ ॥ ६ ॥ सोऽपि तं कुम्भमभ्यर्च्य -वादीदतिमनोरमम् ॥ कुरु वासगृहं शय्यासनभार्यादिसंयुतम् ॥ ७ ॥ तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले ॥ तत्र स्थित्वाऽभुक्त भोगान्, सोऽङ्गनाभिः सहाद्भुतान् ॥ ८ ॥ सअहार प्रभाते च तत्सर्वमपि सत्वरम् ॥ तत्स्वरूपं तदखिलं, दुःस्थमर्त्यो ददर्श सः ॥ ९ ॥ दध्यौ चैवं निष्फलेन, किमायासेन मेऽमुना ॥ एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ॥ १० ॥ ध्यात्वेति सेवनं तस्य कुर्वन् विनयपूर्वकम् ॥ स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् १ ॥ ११ ॥ ततः सिद्धपुमा - नूचे, ब्रूहि किं ते समीहितम् १ ॥ बिना समीहां सेवा हि, न केनापि विधीयते ॥ १२ ॥ स स्माहाहं जन्मतोऽपि, दारिद्येणास्मि विद्रुतः ॥ न चाप्नोमि धनं किश्चित् प्रयत्नैर्विविधैरपि ॥ १३॥ दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले ॥ स्त्रिग्धं मित्रमिवोपान्तं, न तु तन्मे विमुञ्चति ॥ १४ ॥ त्वाश्चोपकारिणं प्रेक्ष्य, हृद्यविद्यासुधाम्बुदम् ॥ दारि
"
ग्रीष्मसन्ताप- समुत्तप्तः श्रितोस्म्यहम् ॥ १५ ॥ तत् प्रसद्य महाभाग !, तथा कुरु यथा मम ॥ त्वद्वत्सुखोपभोगः स्यात्सन्तो माश्रितवत्सलाः ॥ १६ ॥ तच्छ्रुत्वा ध्यातवान् सिद्ध - पुमानेवमहो ! अयम् ॥ दुरवस्थापराभूतो, जायते भृशमातुरः ॥ १७ ॥ व्रतं सत्पुरुषाणाञ्च दीनादीनामुपक्रिया ॥ तदस्योपकृतिं कृत्वा करोमि सफलं जनुः ॥ १८ ॥ ध्यात्वेत्यूचे सिद्धविद्यः, किमु विद्यां ददामि ते ॥ विद्याभिमंत्रितं कुम्भ- मथवेति निगद्यताम् ॥ २० ॥ भोगाभोगोत्सुकः सोध, विद्यासाधनभीरुकः ॥ विद्याधिवासितं कुम्भ - मेव देहीत्युवाच तम् ॥ २० ॥ विद्यासिद्धस्ततस्तम्मै, सद्यस्तं कलशं ददौ || दक्षः कक्षीकृते ह्यर्थे, विलम्बं नावलम्बते ॥ २१ ॥ दुःस्थमर्त्योपि तं कुम्भ - मादायामोदमेदुरः ॥ ययौ तूर्णं निजग्राम-मिति दध्यौ च चेतसि ॥ २२ ॥ देशान्तरप्राप्तया किं, पीनयापि तया श्रिया । यां विद्विषो न पश्यन्ति, या च मित्रैर्न भुज्यते ॥ २३ ॥ इत्यसौ घटमाहात्म्यात्, कृत्वा वेश्मादि कामितं ॥ स्वच्छन्दं बुभुजे भोगान् बन्धुमित्रादिभिः समम् ॥ २४ ॥ स्वतः सिद्धेषु भोगेषु, किमेभिरिति बुद्धयः ॥ तदा कृष्यादिकर्माणि, मुमुचुस्तस्य बन्धवः ॥ २५ ॥ धेन्वादीनां पशूनाञ्च, रक्षां चक्रुर्न ते जडाः ॥ नश्यन्ति स्म ततस्तेपि, तिष्ठेद्वा किमरक्षितम् १ ॥ २६ ॥ सुखीकृतोऽमुना बन्धु - युक्तोऽहमिति सम्मदात् ॥ पीतासवोऽन्यदा स्कन्धा -हितकुम्भो ननर्त सः ॥ २७ ॥ उन्मत्तस्य करात्तस्य, विच्युतः कलशस्ततः ॥ सद्योऽभूच्छतधा भाग्य- हीनस्येव मनोरथः ॥ २८ ॥ कुम्भप्रभावप्रभवं भवनं विभवादि च ॥ ततो गन्धर्वनगर - मित्र तूर्ण तिरोदधे ॥ २९ ॥ कुम्भोत्थया सम्पदा रहिता भृशम् ॥ ततस्तेऽन्वभवद्दुःखं, सर्वेऽन्यप्रेष्यतादिभिः ॥ ३० ॥ अथ प्रागेव विद्यामग्रहीष्यत्स चेत्स्वयम् ॥ एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ॥ ३१ ॥ विद्यां विना तु कलशं तादृशं कर्तु - मक्षमः ॥ नित्यं दौर्गत्यसाङ्गत्या - दत्यन्तं व्याकुलोऽभवत् ॥ ३२ ॥ यथा प्रमादादनुपात्तविद्यः, स मन्दधीर्दुःखमिहैव लेमे ॥ तथाङ्गिनोऽन्येपि लभेन्ति तत्व-ज्ञानं विना दुःखमनेकभेदम् ॥ ३३ ॥ इति विद्याहीनत्वे दुःस्थकथेति सूत्रार्थः ॥ १ ॥ यतश्चैवं ततो यत्कार्यं तदाह
प्राच्यया च
मूलम् - समिक्खं पंडिए तम्हा, पास जाइपहे बहू ॥ अप्पणा सच्चमेसिजा, मितिं भूपसु कप्पए ॥ २ ॥ व्याख्या - समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात्, किं समीक्ष्येत्याह- 'पासेत्यादि' - पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीत्रमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजातीनां पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपधास्तान् बहून् प्रभूतान् विद्यारहि - तानां विलुप्तिहेतून् किं कुर्यादित्याह - आत्मना स्वयं न तु परोपरोधादिना, सज्यो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्गवेषयेत्, किञ्च मैत्रीं मित्रभावं भूतेषु पृथिव्यादिप्राणिषु कल्पयेत्कुर्यादिति सूत्रार्थः ॥ २ ॥ अपरश्चमूलम् - माया पिआ ण्डुसा भाया, भज्जा पुत्ताय ओरसा। नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥३॥
"
व्याख्या - पूर्वार्धे स्पष्टं, नवरं 'ण्डुसत्ति' खुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः खयमुत्पादिता इत्यर्थः, नालं न समर्थास्तै मात्रादयो मम त्राणाय रक्षणाय लुप्यमानस्य स्वकर्मणा ज्ञानावरणीयादिनेति ॥ ३ ॥ ततश्चमूलम् - एअमहं सपेहाए, पासे समिअ दंसणे । छिंद गेहिं सिणेहं च, न कंखे पुवसंथवं ॥ ४॥
१ आत्मनेपदस्यानित्यत्वादयं प्रयोगः समर्थनीयः ॥