________________
उत्तराप्ययनसूत्रम् मुलम्-तुलिआ विसेसमादाय, दयाधम्मम्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्रणा॥३०॥
व्याख्या-तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषच बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय रहीत्वा दयाधर्मस्य च, यतिधर्मस्य च, चम्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करजमतया विप्रसीदेत प्रसन्नतां मजेत.नत कनद्वादशवर्षसंलेखनतथाविधतपस्विवन्निजालिमहादिना कषायमबल म्वेत मेधावी मर्यादावर्ती, तथाभूतेन यथामरणकालात्पूर्वमनाकुलमना अभूत् मरणकालेऽपि तयास्थितेनात्मनो. पलक्षित इति सूत्रार्थः ॥ ३० ॥ विप्रसन्नच किं कुर्यादित्याहमूलम्-तओ काले अभिप्पए, सही तालिसमंतिए। विणइज लोमहरिसं, भेअंदेहस्स कंखए ॥३१॥
व्याख्या-ततः कपायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं १ यदा योगा नोत्सर्पन्ति, 'सहीत्ति' श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्ष, हा ! नहं मरिष्यामीत्यभिप्रायोद्भवं रोमाञ्चं, किश्च भेदं विनाशं देहस्य कांक्षेदिव कांक्षेत्त्यकपरिकर्मतया, न तु मरणासं. शया, हेयत्वात्तस्या इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाहमूलम्-अह कालम्मि संपत्ते,आघायाय समुस्सयं। सकाममरणं मरइ,तिहमन्नयर मुणित्ति बेमि ॥३२॥
व्याख्या-अथ मरणाभिलाषानन्तरं काले मरणकाले सम्प्रासे "निष्फाइआ य सीसा, सउणी जह अंडयं पयतेणं ॥ बारस संवच्छरिसं, अह संलेहं तो करेइ ॥१॥" इत्यादिना क्रमेण समायाते, आघाताय संलेखनादिक्रमेण विनाशाय 'समुस्सयंति' स्यादिव्यत्ययात्समुच्छ्रयस्थान्तः कार्मणदेहस्य बहिरौदारिकाङ्गस्य, किं कुर्यादित्याह-सकामखेव सामिलापस्येव मरणं सकाममरणं तेन म्रियते, त्रयाणां भक्तपरिक्षेङ्गिनीपादपोपगमनानामन्यतरेण सूत्रत्वाद्विभतिव्यत्ययः सर्वत्र मुनिः साधुरिति सूत्रार्थः ॥ ३२ ॥ इति ब्रवीमिति प्राग्वत् ॥
യമായവയാകയാലയയായാൽ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायत्रीमुनिविमलगणिशिष्योपाध्यायधी-2
2 भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती पञ्चमाध्ययनं सम्पूर्णम् ॥ ५॥ H
ळमजलकन्सन्मालामाल
॥ अथ षष्ठाध्ययनम् ॥
॥ अर्हन् । उक्तं पञ्चमाध्ययनमथालनिर्ग्रन्थीयाख्यं षष्ठमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने मरणवि. भक्तिरुक्का तत्र चान्ते पण्डितमरणमुक्तं तच विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्वरूपमनेनोच्यते इत्यनेन सम्बन्धेनायातस्यास्यादौ नियुक्तिकारोकं पञ्चनिम्रन्थखरूपं वृहद्दीकातो ज्ञेयमत्र तु सूत्रमेवानुलियते, तचेदंमूलम्-जावंतविजा पुरिसा, सबे ते दुक्खसंभवा। लुप्पंति बहुसो मूढा, संसारंमि अणंतए ॥१॥
व्याख्या-पावन्तो यत्परिमाणाः, न विद्यते विद्या तत्वज्ञानात्मिका येषां ते अविद्याः, पुरुषा नराः, सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते दुःखसम्भवाः । ईशः सन्तो लुप्यन्ते दारिबादिमिर्वाध्यन्ते, बहुशोऽनेकशः मूढा हिताहितविके प्रत्यसमाः , संसारे भवे अनन्तके अन्तरहिते, अनेन निर्ग्रन्थखरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयं। अत्र चायं कथानकसम्प्रदायस्तयाहि
एकः कोपि पुमान् दौःस्थ्यो-पद्रुतो भाग्यवर्जितः ॥ कृप्यादि कुर्वन्नपि नो, तत्फलं किञ्चिदासदत् ॥१॥ ततो रहाद्विनिर्गस, द्रविणोपार्जनाय सः ॥ उपायान् विविधान् कुर्वन् , भूयो बनाम भूतले ॥२॥न तु किश्चिदपि स, धनमुधमवानपि ॥ अप्युद्यतैः अमिरिव, न श्रीः पुण्यं विनाप्यते ॥३॥ निष्फलनमणेनाथ, निविण्णः स