________________
उत्तराध्ययनसूत्रम्
॥ ११५ ॥
न ‘हावएत्ति' न हापयेन्न हानिं प्रापयेत्, रात्रिग्रहणं तु दिवा व्याकुलतया कर्तुमशक्ती रात्रावपि पौषधं कुर्यादिति सूचनार्थ । इह च सामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमिति सूत्रार्थः ॥ २३ ॥ प्रस्तु तमेवार्थमुपसंहरन्नाह -
मूलम् — एवं सिक्खासमावण्णे, गिवासे वि सुबए । मुच्चई छविपवाओ, गच्छे जक्खसलोगयं ॥ २४॥ व्याख्या- एवमुक्तन्यायेन शिक्षया व्रतात्मिकया समापन्नो युक्तः शिक्षासमापन्नः गृहवासेप्यास्तां दीक्षापर्याय इत्य पिशब्दार्थः, सुत्रतः शोभनत्रतो मुच्यते मुक्तिमाभोति, कुत इत्याह- 'छविपवा ओत्ति' छविस्त्वक्, पर्वाणि जानुकूर्षरादीनि, तयोः समाहारे छविपर्व तद्योगादौदारिकं देहमपि छविपर्व तस्मात्ततश्च गच्छेत् यायात् यक्षा देवाः, समानो लोकोऽस्येति सलोकः तस्य भावः सलोकता सादृश्यमित्यर्थः, यक्षैः सलोकता यक्षसलोकता तां । इयं च देवगतावेव स्यादित्यर्थाद्देवगतिं । अनेन च पण्डितमरणावसरे प्रसङ्गाद्वालपण्डितमरणमुक्तमिति सूत्रार्थः ॥ २४ ॥ अथ प्रस्तुतं पण्डितमरणमेव फलोपदर्शनद्वारेणाह
मूलम् - अह जे संबुडे भिक्खू, दुण्हमन्नयरे सिआ । सवदुक्खप्पहीणे वा, देवेवावि महिड्डिए ॥ २५ ॥
व्याख्या - अथेत्युपदर्शने, यः कश्चित्संवृतः पिहितसमग्राश्रवद्वारो भिक्षुर्भावसाधुः स च द्वयोरन्यतर एकतरः स्यात्, ययोर्द्वयोरेकतरः स्यात्तावाह - सर्वाणि यानि दुःखानि क्षुत्पिपासाभीष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षेण पुनरनुत्पादलक्षणेन हीनो रहितः सर्वदुःखप्रहीणो वा स्यादिति सम्बन्धः, स च सिद्ध एव देवो वा स्यात्, अपिः सम्भावने, सम्भवति हि संहननादि वैक्लव्यान्मुक्तेरप्राप्तौ देवोऽपि स्यादिति, कीदृक् ? महर्द्धिक इति सूत्रार्थः ॥ २५ ॥ यत्रासौ देवो भवति तत्र कीदृशा आवासाः कीदृशाश्व देवा इत्याह
मूलम - उत्तराई विमोहाई, जुइमंताणुपुवसो । समाइण्णाइं जक्खेहिं, आवासाईं जसंसिण्णो ॥ २६ ॥
व्याख्या - उत्तरा उपरिवर्त्तिनोऽनुत्तरविमानाख्या विमोहा इव विमोहा अल्पवेदादिमोहनीयत्वात् द्युतिमन्तो दीप्तिमन्तः, 'अणुपुवसोत्ति' आनुपूर्व्या क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु हि अनुत्तरविमानान्तेषु पूर्वा पूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि विशेषणानि । तथा समाकीर्णा व्याप्ता यक्षैर्देवैरावासाः, प्राकृतत्वान्नपुंसकलिङ्गत्वं सर्वत्र । देवास्तु तत्र यशखिनः श्लाघान्विताः ॥ २६ ॥ तथा—
मूलम् -- दीहाउआ इडिमंता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा ॥२७॥
व्याख्या - दीर्घायुषश्चिरञ्जीविनः, ऋद्धिमन्तो रत्नादिसम्पदुपेताः, 'समिद्धा' अतिदीप्ताः, कामरूपिणः अभिलाषानुरूपरूपविधायिनः, अनुत्तरेष्वपि तच्छक्तियुक्तत्वात्, अधुनोपपन्नशंकाशास्तत्कालोत्पन्नदेवकल्पाः, अनुत्तरेषु हि वर्णत्यादि यावदायुस्तुल्यमेव स्यात्, 'भुजोत्ति' भूयांसः प्रभूता ये अर्चिर्मालिनः सूर्यास्तद्वत् भा येषां ते तथा । न त्वेकस्यार्कस्य तादृशी द्युतिरस्तीति सूत्रार्थः ॥ २७ ॥ उपसंहर्तुमाह
मूलम् - तानि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे संति परिनिवुआ २८॥
व्याख्या -- तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयमं सप्तदशभेदं, तपो द्वादशभेदं, भिक्षादा वा गृहस्था वा प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ॥ २८ ॥ एतच्च विज्ञाय मरणेपि महात्मानो यथाभूता भवन्ति तथाह -
मूलम् -- तेसिं सुच्चा सपुज्जाणं, संजयाणं वुसीमओ । न संतंसंति मरणंते, सीलवंता बहुस्सुआ ॥ २९ ॥ व्याख्या-तेषामनन्तरोक्तस्वरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याहसतामिन्द्रादीनां पूज्याः सत्पूज्यास्तेषां संयतानां संयमवतां 'वुसीमओत्ति' प्राग्वत्, न संत्रस्यन्ति नोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता आगमवचः श्रवणशुद्धधियः, अयं भावः - अज्ञातधार्मिकगतयोऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा वाऽस्माभिर्गन्तव्यमिति, न तु निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहुः"चरिनो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते, कृतकृत्योस्मीति धर्मात्मा ॥ १ ॥ " इति सूत्रार्थः ॥ २९ ॥ इत्थं सकाममरणखरूपमभिधाय शिष्योपदेशमाह -
१ वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषाम् ॥