________________
॥ ११४ ॥
उत्तराध्ययनसूत्रम्
मूलम् - संति एगेहिं भिक्खूहिं, गारत्था संजमुत्तरा । गारत्थेहि अ सवेहिं, साहवो संजमुत्तरा ॥ २० ॥
व्याख्या - सन्ति विद्यन्ते एकेभ्यः कुप्रवचनभिक्षुभ्यः 'गारत्थत्ति' सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेन उत्तराः प्रधानाः संयमोत्तराः, कुतीर्थिकभिक्षवो हि जीवास्तिक्यादिरहिताः सर्वथाऽचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणः संयमोत्तरा न स्युः १ किञ्च अगारस्थेभ्यश्च सर्वेभ्य इति, अनुमतिवर्जसर्वोत्तमदेशविरतिं प्राप्तेभ्योऽपि साधवः संयमोत्तराः सम्पूर्णसंयमान्वितत्वात्तेषां । अत्र च वृद्धवादो यथा -कोपि श्राद्धः साधु पप्रच्छ, श्राद्धसाध्वोः किमन्तरमिति ? साधुरूचे मेरुसर्पपान्तरं । तदाकर्ष्याकुलीभूतः पुनः पप्रच्छ, कुलिङ्गिश्राद्धयोः किमन्तरं ? मुनिः माह तदेव, ततः प्रसादमाससादेति । उक्तञ्च - "देसिक्कदेसविरया, समणाणं सावगा सुविहिआणं ॥ सिं परपासंडा, सहमं पि कलं न अग्घंति ॥ १ ॥ " तदेवं भिक्षूणामपि तेषां चारित्राभावात् पण्डितमरणाभाव एवेति सूत्रार्थः ॥ २० ॥ ननु कुतीर्थिकभिक्षवोपि नानालिङ्गधरा एव, तत्कथं तेभ्यो गृहस्थाः संथमोत्तराः ? इति सन्देहापोहायाह
मूलम् - चीराजिणं नगिणिणं, जडी संघाडि मुंडिणं । एआई पि न ताइंति, दुःसीलं परिआगयं ॥ २१ ॥
व्याख्या - चीराणि च चीवराणि, अजिनं च मृगादिचर्म, चीराजिनं । 'नगिणिणंति' आर्पत्वान्नाग्न्यं, 'जडित्ति' भावप्रधानत्वान्निर्देशस्य जटित्वं, संघाटी वस्त्रसंहतिजनिता कंथेत्यर्थः, 'मुंडिणंति मुंडत्वं, एतान्यपि निजनिजप्रक्रि याकल्पितानि प्रतिलिङ्गान्यपि किं ? पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतेः, कमित्याह - दुःशीलं दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्यायं प्राप्तं, आर्पत्वाच्च याकारस्यैकस्य लोपः । न हि कषायकलुषचेतसोऽतिकष्टहेतुरपि बहिर्वक वृत्तिर्नरकादिकुगतिनिवारणायालं ! ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥ २१ ॥ ननु ? कथं गृहाद्यभावेपि तेषां दुर्गतिरिति चेदुच्यते
मूलम् - पिंडोल एव दुस्सीले, नरगाओ न मुच्चई । भिक्खाए वा गिहत्थे वा, सुवए कमई दिवं ॥ २२ ॥
व्याख्या- 'पिंडोलएवत्ति' वा - शब्दोऽपि शब्दार्थस्ततश्च पिण्डावलगकोऽपि स्वीयाहाराभावतो भैक्ष्यसेवकोपि, आस्तां गृहादिमान्, दुःशीलो नरकात्स्वकर्मोपस्थापितात् सीमन्तकादेर्न मुच्यते । तत्र चोदाहरणं तथाविधद्रमकः
तथाहि द्रमकः कोपि पुरे राजगृहेऽभवत् ॥ स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ॥ १ ॥ वैभारगिरिपार्श्वस्थ - मुद्यानं स गतोन्यदा । उद्यानिकार्थमायातं जनं भुआनमैक्षत ॥ २ ॥ ततः स तत्र भिक्षार्थ, पर्यभ्राम्यन्मुहुर्मुहुः ॥ वदन्नुचैः स्वरं दीन - वचांसि रसलोलुपः ॥ ३ ॥ न तु कोपि ददौ तस्मै, भाग्यहीनाय किञ्चन ॥ ततः प्रद्विचित्तः स दुष्टधीरित्यचिन्तयत् ॥ ४ ॥ अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं स्वयम् ॥ दीनाय न तु मे खल्पमपि यच्छन्ति निर्दयः ॥ ५ ॥ तदमूनुपवैभारं निविष्ठान् दुष्टचेतसः ॥ कयाचिच्छिलया तूर्ण, चूर्णयामीति चिन्त
१ पिण्डं परदत्तग्रासमवलगते सेवते इति पिण्डावलगः स एव पिण्डावलगकः ।
यन् ॥ ६ ॥ वैभारगिरिमारुथ, स क्रोधाध्मातमानसः ॥ सर्वात्मना विलग्यैकां, शिलां गुर्वीमचीचलत् ॥ ७ ॥ [ युग्मम् ] तस्यां विलुण्ठितायां द्राक्, स पृथक् स्थातुमक्षमः ॥ लुण्ठस्तया समं तस्या, एवाधस्तादुपाययौ ॥ ८ ॥ ततस्तया क्षुण्णतनुः स रौद्र-ध्यानानुबन्धी द्रमको विपद्य ॥ तमस्तमायां भुवि नारकत्वं, मध्येऽप्रतिष्ठानमवाप पापात् ॥ ९ ॥ इति द्रमककथा । ततो न भिक्षुत्वमात्रं कुगतिनिवारकं, ननु ? तर्हि तत्वतः किं सुगतिहेतुरित्याह'भिक्खाए वत्ति' भिक्षामत्ति भुंक्ते इति भिक्षादः, वा विकल्पे, अनेन व्रती प्रोक्तः, गृहस्थो वा, सुष्ठु शोभनं निरतिचारतया सम्यग्भावानुगतया च व्रतं शीलपालनात्मकं यस्येति सुत्रतः, क्रामति गच्छति दिवं देवलोकं । मुख्यतया व्रतपालनस्य मुक्तिहेतुत्वेऽपि दिवं क्रामतीति कथनं जघन्यतोऽपि देवलोकावाप्तिरितः स्यादिति सूचनार्थ, अनेन च व्रतपालनमेव तत्वतः सुगतिहेतुरिति प्रोक्तमिति सूत्रार्थः ॥ २२ ॥ अथ यैर्व्रतैर्गृहस्थोऽपि दिवं याति तान्याहमूलम् - आगारिसामाइअंगाई, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ॥ २३ ॥
व्याख्या-आगारिणो गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुत्रतादिरूपाणि अगारिसामायिकांगानि 'सड्डीत्ति' श्रद्धावान् कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति सेबते, तथा पौषधं आहारपौषधादिकं 'दुहओ पसंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु ‘एगराइंति' अपेर्गम्यमानत्वादेकरात्रिमपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, उपलक्षणत्वाच्चैकदिनमपि