________________
उत्तराप्ययनसूत्रम्
॥१११॥ व्याख्या-तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थान महावीरेण चरमतीर्थकृता, तत्रैको महाप्रज्ञ इति सामान्योक्तेरभिव्यक्तिनिमित्तमिदं “देसि" प्ररूपितं । किं तदित्याह-कामेषु इच्छानदनात्मकेषु गृद्धोऽभिकांक्षावान् कामगृद्धः, यथेत्युपदर्शनार्थ, बाल उक्तरूपो भृशमत्यर्थ क्रूराणि रौद्राणि प्राणि. व्यपरोपणादीनि कर्माणीति शेषः, "कुवइत्ति" करोति शक्ती सत्यां, अशक्तौ तु तन्दुलमत्स्यवन्मनसापि करोति। तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ ४ ॥ इदमेव स्पष्टयतिभूलम्-जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिखे परे लोए, चक्खुदिट्टा इमा रई ॥५॥
व्याख्या--ग इत्यनिर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यो, भोगाश्च स्पर्शरसगन्धाराः, कामभोगास्तेषु एकः कश्चिदतिक्रूरकर्मा कूटाय गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्तते इत्यर्थः । स हि मांसादिलुब्धतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति,। "न में" इति, न मया दृष्टः परलोको भूतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव स्यादित्याह, चक्षुषा दृष्टा चक्षुटेष्टा, इयं रतिः कामजनिता चित्तप्रहात्तिः तत्कथं दृष्टत्यागाददृष्टप्रार्थनयात्मानं वञ्चये ? इति तस्याशय इति सूत्रार्थः ॥ ५ ॥ पुनस्तदाशयमेव व्यअयति
( १ ) चित्तप्रसत्तिः मूलम्-हत्थागया इमे कामा, कालिआ जे अणागया। को जाणइ परे लोए, अत्थि वा नत्थि वा पुणो॥६॥
व्याख्या-हस्तागताः खाधीनतया हस्तप्राप्ता इमे प्रत्यक्षाः कामाः शब्दाद्याः, कालिका अनिश्चितकालान्तरप्राप्तयो ये अनागता भाविभवसत्काः, कथं पुनरमी अनिश्चितलाभाः? इत्याह-क इत्यत्र पुनः शब्दस्य व्यवहितस्य सम्बन्धात्कः पुनर्जानाति ? नैव कश्चिदित्यर्थः । यथा परलोकोऽस्ति वा ? नास्ति वा ? ततः सन्दिग्धे परलोके कः प्रत्यक्षान् कामान् विहाय कालिककामार्थ यतेतेति तस्याभिप्राय इति सूत्रार्थः ॥ ६॥ कश्चित्तु ज्ञातपरलोकोपि का. मांस्त्यनुमशक्त इदमाहमूलम्-जणेण सद्धिं होक्खामि, इइ बाले पगभइ । कामभोगाणुराएणं, केसं संपडिवजइ ॥ ७॥
व्याख्या-जनेन लोकेन सार्द्ध सह भविष्यामि, अयं भाषः, बहुर्जनो भोगासङ्गी तदहमपि तद्गतिं गमिष्यामि ! न हि इयान् जनो मूढ इत्यमुना प्रकारेण बालोऽज्ञः प्रगल्भते धार्यमवलम्बते । अलीकवाचालतया खयं नष्टः परानपि नाशयति । न च किम्बहुनापि जनेनोन्मार्गप्रस्थितेनेति चिन्तयति ! स चैवं कामभोगानुरागेण क्लेशमिह परत्र च सम्प्रतिपद्यते प्राप्नोतीति सूत्रार्थः ॥ ७॥ यथा चायं क्लेशं प्राप्नोति तथा प्राहमूलम्--तओ से दंडं समारभइ, तसेसु थावरेसुअ । अट्टाए व अणट्टाए, भूअग्गामं विहिंसइ ॥८॥
व्याख्या-ततः कामभोगानुरागात्स धृष्टो दण्डं मनोदण्डादिकं समारभते प्रवर्त्तयति, प्रसेषु द्वीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषु, अर्थाय वित्तप्राप्त्यादिकार्याय, अनर्थाय वा यदात्मनो मित्रादेर्वा नोपयुज्यते तस्मै निरर्थकमित्यर्थः । ननु निरर्थकमपि किं कोपि दण्डमारभते ? आरभत एव तादृशपशुपालवत् ॥
तथाहि कोप्यजापालः, संनिवेशे क्वचिद्वसन् ॥ अजाश्चारयितुं नित्य-मटतिस्म बनान्तरे ॥ १ ॥ अजाब्रजे च मध्याहे, न्यग्रोधद्रुममाश्रिते ॥ तस्य छायामुपाश्रित्य, सोप्युत्तानतयाऽखपीत् ॥ २ ॥ लघुना धनुषा मुक्तै-बंदरास्थिभिरन्वहम् ॥ वटस्य तस्य पत्राणि, छिद्रयामास चासकृत् ॥ ३॥ क्रीडापरेण तेनैवं, प्रायो विद्धाखिलच्छदः ॥ न्यग्रोधो निर्ममे नित्या-भ्यासाद्वा किं न साध्यते ? ॥ ४ ॥ तत्र चैकोन्यदा भ्राम्य-नागतो गोत्रिविद्रुतः ॥ भूपभूस्तं तथाभूतं, वटं वीक्ष्य विसिमिये ! ॥ ५॥ केनैवमस्य पर्णानि, छिद्रितान्यखिलान्यपि ? ॥ इत्यपृच्छच्च तमजापालं भूपालनन्दनः ॥ ६ ॥ सोऽवादीत्क्रीडयैतानि, छिद्रितानि मया सखे ! ॥ ततस्तस्मै बहु द्रव्यं, दत्वा राजाङ्गजो जगौ ॥ ७ ॥ मदुक्तमय॑नेत्रे त्वं, यदि स्फोटयितुं स्फुटम् ॥ प्रभूयसे तदा कार्य, समग्रं मम सिख्यति ॥ ८ ॥ स प्रोचे चेत्स पुरुषः, पार्श्ववर्ती भवेन्मम ॥ तदाहं भवतः कार्य, कर्तुं शक्नोमि नान्यथा ॥९॥ पशुपालं ततो नीत्वा, पुरमध्ये नृपात्मजः ॥ छन्नमस्थापयद्राज-मार्गासन्ने निकेतने ॥१०॥ दायादश्च निज राज-पाटिकायै विनिर्गतम् ॥ तस्यादर्शयदस्याशु, नेत्रे स्फोव्ये इति ब्रुवन् ॥ ११॥ सोपि चापविमुक्ताभ्यां, गोलिकाभ्यां तदीक्षणे ॥ पक्कस्फोटकवत्सद्यो-ऽस्फोटयत्खयमस्फुटः ॥ १२॥ ततः सम्प्राप्तसाम्राज्य-स्तमाहूय स