________________
॥१९॥
उत्तराप्पयनरम् ज्ञपरिजया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तया मरणं भक्तपरिज्ञामरणम् १५ । इंग्यते प्रतिनियतदेश एव चेष्ट्यते यत्र तदिङ्गिनीमरणं, इदञ्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे खयमेवोद्वर्त्तनादि कुर्वतो मुनेः स्यात् १६ । पादपो वृक्षः, उपशब्दः सादृश्ये, ततः पादपमुपगच्छति सारश्यन प्राप्नोतीति पादपो. पगमनं, अयं भावः यथा पादपः पतितः सम विषममित्यचिन्तयग्निबलमास्ते परप्रयोगात्तु कम्पते, तथायमपि भगवान् यदहं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु खतमलयतीति १७ । इदश्चान्त्यमरणप्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं, यदुक्तं-"एवं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ य देवो, हविज अहवा वि सिझेजा ॥१॥" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेवोत्तरोत्तरं सम्भवतीति विशेषात् प्रथमं कनीयः, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाहु:"सबावि अ अजाओ, सधेवि अ पढमसंघयणवजा । सवे वि देसविरया, पच्चखाणेण उ मरंति ॥" अत्र हि प्रत्याख्यानशब्देन भक्तपरिजैव ज्ञेया । इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव स्यादित्यार्यिकानिषेधादेवावसीयते, पादपोपगमनं तु विशिष्टतमधृतिमतां वज्रर्पभनाराचसंहननवतामेव स्थादुक्तञ्च-“पढमंमि अ संघयणे, वटुंतो सेलकुडसामाणो । तेसिपि अ बुच्छेओ, चउदसपुवाण वुच्छेए ॥१॥” इत्युक्तः संक्षेपान्मरणविभागो विस्तरतस्तु बृहट्टीकातो ज्ञेयः । एषाञ्च मध्ये “धीरेण वि मरिअवं, काउरिसेण वि अवस्स मरिअई। तम्हा अवस्समरणे, वरं खु धीरत्तणे मरणं ॥१॥ संसाररंगमज्झे, धीवलसन्नद्धबद्धकच्छो उ । हतूण मोहमलं, हरामि आराहणपडागं ॥२॥" इत्यादि ध्यात्वा धीरैः पण्डितमरणमुपादेयमन्यत्तु हेयमित्यलं प्रसङ्गेन। साम्प्रतं सूत्रम मूलम्-अण्णवंसि महोहंसी, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापण्णे, इमं पण्हमुदाहरे ॥१॥
व्याख्या-अर्णय इवार्णवोऽदृष्टपरपारतया भव एव तस्मिन् , महानोघः प्रवाहो भवपरम्परात्मको यत्र स महौषः तस्मिन् , एको रागद्वेषादिसहभावरहितः, तीर्ण इव तीर्णः तीरप्राप्त इत्यर्थः । दुरुत्तरे दुःखेनोत्तरितुं शक्ये भवार्णवे एव, तत्र सदेवमनुजासुरायां पर्षदि, एकस्तीर्थकरनामकर्मोदयादनुत्तरावासविभूतितया अद्वितीयः, स हि एकदा एक एव भवतीत्येवमुक्तं, महती निरावरणतया अपरिमाणा प्रज्ञा केवलज्ञानलक्षणा यस्य स तथा, इममनन्तरवक्ष्यमाणं प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवानिति सूत्रार्थः ॥ १॥ तथा हिमूलम्-सन्तिमे अ दुवेठाणा, अक्खाया मारणंतिआ। अकाममरणं चेव, सकाममरणं तहा ॥२॥
व्याख्या–“संतित्ति" वचनव्यत्ययात् स्तो विद्येते, इमे प्रत्यक्षे, चः पूरणे, वे द्विसंख्ये, तिष्ठन्त्यनयोर्जन्तव इति स्थाने, आख्याते, प्राक्तनतीर्थकरैरपिकथिते । मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके, ते एव नामतः प्रकाशयति, अकाममरणं वक्ष्यमाणलक्षणं, चः समुचये, एवेति पूत्तौं, सकाममरणं तथा वक्ष्यमाणमेवेति सूत्रार्थः ॥ २॥ केषां पुनरिमे ? कियद्वारं ? चेत्याहमूलम्--बालाणं अकामं तु, मरणं असइं भवे। पंडिआणं सकामं तु, उकोसेणं सई भवे ॥३॥
व्याख्या-बाला इव बालाः सदसद्विवेकविकलास्तेषां अकामं, 'तुति' तुशब्दस्य एवकारार्थत्वादकाममेव मरणमसकृद्वारंवारं भवेत्ते हि विषयाभिष्वङ्गान्मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्तो भूयो भूयस्तदेव मरणमासादयन्ति, पण्डितानां चारित्रवतां सह कामनाभिलाषण वत्तेत इति सकामं सक सकामत्वञ्च मरणागमे त्रासाभावात् , तदभावश्च तादृशां मरणस्योत्सवभूतत्वात् । यदाहुः-"सञ्चिततपोधनानां, नित्यं व्रतनियमसंयमरतानाम् ॥ उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥१॥" न तु परमार्थतस्तेषां मरणं प्रति सकामत्वं, मरणाभिलाषस्य निषिद्धत्वादुक्तं हि-“मा मा हु विचिंतेजा, जीवामि चिरं मरामि अ लडंति । जइ इच्छसि तरि जे, संसारमहोअहिमपारं ॥ १॥" तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तच मरणं "उक्कोसेणंति" उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण सकामता । “सइंति" सकृदेकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकूतमिति सूत्रार्थः ॥ ३ ॥ अथानयोयोः स्थानयोराचं स्थानमाहमूलम्-तत्थिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराइं कुबई ॥ ४ ॥