________________
उतराष्ययनसूत्रम्
॥ १०९ ॥
व्याख्या—ये इत्यनिर्दिष्टस्वरूपाः संस्कृताः कृत्रिमशुद्धिमन्तो न तु तत्ववेदिनः, अत एव तुच्छा यदृच्छाभिधायितया निःसाराः, परप्रवादिनः परतीर्थिकास्ते प्रेमद्वेषानुगता ज्ञेया इति शेषस्तथाहि - सर्वथा सूनृते जिवापि या कदाग्रहादप्रतीतिः सा न रागद्वेषाभ्यां विनेति भावनीयं, अत एव 'परज्झत्ति' देश्यत्वात् परवशा रागद्वेषग्रहप्रस्ततया तद्वशाः, यदि ते ईदृशास्तर्हि किं कार्यमित्याह - एते अधर्महेतुत्वादधर्मा इत्यमुनोलेखेन जुगुसमाना उन्मार्गगामिनोऽमी इति तत्स्वरूपमवधारयन् न तु निन्दन्, निन्दायाः सर्वत्र निषेधात् एवं विषय किं कुर्यादित्याह - कांक्षेदभिलषेद्गुणान् ज्ञानदर्शनचारित्रादीन् जिनागमोक्तान्, कियत्कालमित्याह - यावच्छरीरभेदो देहात् पृथग्भावो मरणमिति यावत्, अनेन च जैनेष्वेव समुत्थानं कामप्रहाणं च तात्विकमन्यत्र तु न तादृशमिति सूचितमिति सूत्रार्थः ॥ १३ ॥ इति ब्रवीमीति प्राग्वत् ॥
coves vegne. १६७०३८७०
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौ चतुर्थाध्ययनं सम्पूर्णम् ॥ ४ ॥ Emememememen inimene G
॥ अथ पञ्चमाध्ययनम् ॥
उक्तं चतुर्थाध्ययनमथाकाममरणीयाख्यं पञ्चममारभ्यते । अस्य चायमभिसम्बन्ध इहानन्तराध्ययने कांगुणान् यावच्छरीरभेद इति वदता मरणं यावदप्रमादो विधेय इत्युक्तं, मरणं च कति भेदं १ किं हेयं ? किञ्चोपादेयमित्यनेन सम्बन्धेनायातमिदं ततोस्य प्रारम्भे मरणविभागो निर्युक्तिकृता प्रोक्तः संक्षेपात्तावदुच्यते । तथाहि - " आवी १ ओहि २ अंतिम ३ वलायमरणं ४ वसहमरणं च ५ ॥ अंतोसलं ६ तब्भव ७ बालं ८ तहपंडिअं ९ मीसं १० ॥१॥ छउमत्थमरण ११ केवलि १२ वेहायस १३ गिद्धपिटुमरणं च १४ ॥ मरणं भत्तपरिण्णा १५ इंगिणि १६ पाओवगमणं च १७ ॥ २ ॥” इति सप्तदशविधमरणम्, तत्र वीचिर्विच्छेदः अंतरमित्यर्थस्तदभावादवीचि, नारकतिर्यगूनरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुः कर्मदलिकानामनुसमयमनुभवनाद्विचटनं तत्प्रधानं मरणमवीचिमरणं १ अवधर्मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतया आयुः कर्मदलिकान्यनुभूय म्रियते मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्द्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् । एवं क्षेत्रादिष्वपि भावनीयं २ । अन्तेभवमन्तिकं, अयं भावः - यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति तद्द्रव्यतोऽन्तिकमरणं, एवं क्षेत्रादिष्वपि वाच्यं ३ । “वलायमरणंति” वलतां संयमान्निवर्त्तमानानां दुश्वरं तपश्चरणं कर्तुं व्रतं मोक्कुञ्चाशक्नुवतां कथञ्चिदस्माकमस्मान्मुक्तिरस्तु इति ध्यायतां यन्मरणं तद्वलन्मरणं, एतच भग्नव्रतपरिणामानां मुनीनामेव स्यात् ४ । वशेन इंद्रियविषयविषयेण परवशत्वेन आर्त्ता दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वशार्त्तास्तेषां मरणं वशार्त्तमरणं ५ । अन्तः शल्यं लज्जादिषशादनालोचितदुराचाररूपं येषां ते अन्तःशल्यास्तेषां मरणमन्तःशल्यमरणं, इदञ्चातीव दुष्टं यदाहुः- “एअं ससलमरणं, मरिऊण महाभए दुरंतंमि ॥ सुचिरं भमंति जीवा, दीहे संसारकंतारे ॥ ६ ॥ " तब्भवत्ति" यस्मिन् भवे साम्प्रतं प्राणी वर्त्तते तद्भवयोग्यमे वायुर्वद्धा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदञ्च संख्यातवर्षायुषां नृतिरथामेव, न त्वसंख्यातवर्षायुषां नृतिरथां, देवनारकाणां च तेषां पुनरनन्तरं तद्भयाभावात् ७ । बालानां मिथ्याशामविरतसम्यग्दृशां वा मरणं बालमरणम् ८ । पण्डितानां सर्वविरतिमभ्युपगतानां मरणं पण्डितमरणम् ९ । मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् १० । छद्मस्थानां मतिश्रुतावधिमनःपर्यायज्ञानवतां त्रतिनां मरणं छद्मस्थमरणम् ११ । केवलिनां उत्पन्नकेवलानां मरणं केवलिमरणम् १२ । विहायसि आकाशे भवं वैहायसं, अयं भावः-ऊर्द्धं वृक्षशाखादावुद्बन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरणं १३ । गृप्रैरुपलक्षणत्वाछकुनिकाशिवादिभिश्च स्पृष्टं स्पर्शनं यत्र तनुत्रस्पृष्टं, इदञ्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः स्यात् १४ । भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च । परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतुकञ्चावद्यमिति,