________________
॥ १०८ ॥
उतराध्ययनसूत्रम्
चसा प्राक् परिकर्महीना, तदापनेतुं न शशाक भूषाः ॥ कर्तुं विवेकं न तथा परोपि, क्षिप्रं प्रभुः स्यात्परिकर्महीनः ॥ ११ ॥ इति द्विजवधूकथा ॥ न च मरुदेव्युदाहरणमत्र वाच्यमाश्चर्यरूपत्वात्तस्य यत एवं तस्मात्समुत्थाय पश्चाकरिष्यामीत्यालस्यत्यागेनोद्यमं कृत्वा प्रहाय परित्यज्य कामान् इच्छामदनात्मकान् समेत्य ज्ञात्वा लोकं प्राणिसमूहं 'समयत्ति' समतया समशत्रुमित्रतया महर्षिः सन् यद्वा मह एकान्तोत्सवरूपो मोक्षस्तमिच्छतीत्येवं शीलो महषी सन्, आत्मानुरक्षी कुगतिगमनादिभ्योऽपायेभ्य आत्मनो रक्षकः चराप्रमत्तः प्रमादरहितः, इह च प्रमादपरिहारापरिहारयो रैहिकमुदाहरणं वणिग् महिला, तत्र चायं सम्प्रदायः, तथा हि
नैगमः स्वगृहे कोपि, नानाशिल्पविधायिनः ॥ मुक्त्वा कर्मकरान् वाणिज्यार्थ देशान्तरे ययौ ॥ १ ॥ तांश्च कर्मकरांस्तस्य, महिला स्वस्वकर्मसु ॥ न प्रायुक्त शुभैर्वाक्यैः, खाङ्गसंस्कारतत्परा ॥ २ ॥ न च तेषामदात्कालो- पपन्नं भोजनादिकम् ॥ सीदन्तो ययुरन्यत्र, सर्वे कर्मकर रास्ततः ॥ ३ ॥ ततस्तत्तत्कृत्यहान्या, व्यनेशत्प्रचुरं धनम् ॥ तब स्वरूपमायातो - ऽज्ञासीत्सर्व गृहप्रभुः ॥ ४ ॥ अलक्ष्मीवत्ततो गेहा - त्प्रमदां तां प्रमद्वराम् ॥ निष्काश्यान्यां निःखकन्यां सोऽवृणोद्बहुभिर्धनैः ॥ ॥ ५ ॥ तद्बन्धुश्चैवमूचे चे-दात्मानं रक्षयत्यसौ ॥ तदा परिणयाम्येना-मन्यथा तु न सर्वथा ॥ ६ ॥ तदाकर्ण्य कनी ज्ञात - परमार्था महामतिः ॥ रक्षिष्याम्यहमात्मान - मित्यूचे खजनान्निजान् ॥७॥ ततस्तां परिणीयागा - त्पुनर्देशान्तरे वणिक् ॥ नाङ्गभूषादिकं चक्रे, प्रमादं तद्वशा तु सा ॥ ८ ॥ आलापयन्ती मधुरे-रालापैः श्रवणामृतैः ॥ दासकर्मकरादींश्च, प्रायुक्त खखकर्मणि ॥ ९ ॥ प्रातराशादिकं तेषां भोजनं समये ददौ । अकालपरिहीणं त-द्वेतनं च यथोदितम् ॥ १० ॥ एवमावर्जिताः सर्वे तथा कर्मकरादयः ॥ सोद्यमं स्वखकर्माणि चक्रिरे प्रतिवासरम् ॥ ११ ॥ इत्थं प्रमादादात्मानं, रक्षन्ती सा मनखिनी ॥ नैव व्यनाशयत्किञ्चिदपि कृत्यं धनं तथा ॥ १२ ॥ गृहेशोथ गृहे प्राप्त - स्तामुदीक्ष्याप्रमादिनीम् ॥ सर्वस्वस्वामिनीं चक्रे, मुदितस्तद्गुणैर्भृशम् ॥ १३ ॥ इत्यप्रमादो महते गुणाय, भवेदिहैवापगुणाय चान्यः ॥ तस्मात्परत्रापि भवेद्गुणाया -Sप्रमाद एवेति चराप्रमत्तः ॥ १४ ॥ इति वणिक्पत्नीकथेति सूत्रार्थः ॥ १० ॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्त्यागमाह
मूलम् - मुहुं मुहुं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ।
फासा फुसंती असमंजसं च, न तेसु भिक्खु मणसा पउस्से ॥ १॥ व्याख्या - मुहुर्मुहुर्वारं वारं मोहोपकारिणो गुणा मोहगुणाः शब्दादयस्तान् जयन्तमभिभवन्तं, अनेकानि कार्कश्यकुरूपत्वादीनि रूपाणि येषां ते अनेकरूपाः श्रमणं मुनिं चरन्तं संयमाध्वनि गच्छन्तं, स्पृशन्ति खानि खानि इंद्रियाणि गृहामाणतया इति स्पर्शाः शब्दादयस्ते स्पृशन्ति, गृह्यमाणतयैव सम्बध्नन्ति, 'असमंजसं चत्ति' चशब्दस्यावधारणार्थत्वादसम असमेव अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः, 'मणसत्ति' अपेर्गम्यत्वान्मनसापि, आस्तां वाचा कायेन च, प्रद्विष्यात्, अयं भावः - अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रियविषयत्वमापन्नेषु अहो एषामनिष्टत्वमिति न चिन्तयेत् न वा तान् परिहरेदिति सूत्रार्थः ॥ ११ ॥ तथा
मूलम् - मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा ।
रक्खज्ज कोहं विणइज माणं, मायं न सेवे पयहिज्ज लोहं ॥ १२ ॥
व्याख्या– मन्दयन्ति विवेकिनमपि जनमज्ञतां नयन्तीति मन्दाः, च समुच्चये, स्पर्शाः शब्दाद्याः, बहून् लोभयन्ति मोहयन्तीति बहुलोभनीयाः, अनेन तेषामाक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति' अपेर्गम्यमानत्वात्तथाप्रकारेष्वपि बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु मनश्चित्तं न कुर्यान्न निवेशयेत्, एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यादित्याह - रक्षेन्निवारयेत्क्रोधं, विनयेदपनयेन्मानमहङ्कारं, मायां परवञ्चनबुद्धिरूपां न सेवेत न कुर्यात्, 'पयहिज्जति' प्रजझालोभमभिष्वङ्गरूपं, तथा च क्रोधमानयोर्द्वेषात्मकत्वान्मायालो भयोश्च रागरूपत्वात्क्रोधादिनिग्रह एव रागद्वेषपरिहार इति सूत्रार्थः ॥ १२ ॥ अथ यदुक्तं 'तम्हा समुट्ठाय पहाय कामे' इत्यादि - तत्कदाचिच्चरकादिष्वपि स्यादिति शङ्कापोहार्थमाह
मूलम् — जे संखया तुच्छपरप्पवाई, ते पिज्जदोसाणुगया परज्झा ।
एए अहम्मुत्ति दुर्गच्छमाणो, कंखे गुणे जात्र सरीरभेओत्ति बेमि ॥ १३ ॥ ॥ इइ चउत्थमज्झयणं सम्मत्तं ॥