________________
॥११२॥
उत्तराप्ययनसूत्रम् भूपभूः ॥ पशुपालमुवाचैवं, ब्रूहि कं ते वरं ददे १ ॥ १३ ॥ सोऽब्रवीद्यत्र तिष्ठामि, देहि प्रामं तमेव मे ॥ ततस्तो ददौ राजा, तदिष्टं तुष्टमानसः ॥ १४ ॥ सोऽथ ग्रामे तत्र तुम्बी-रिखूश्चावापयवहून् ॥ निष्पन्नं च गुडं तुम्नैः, साकं खादन्निदं जगौ ॥ १५ ॥ “अट्टमर्से पि सिक्खिज्जा, सिक्खिन निरत्थयं ॥ अट्टमट्टप्पसाएण, खजए गुडतुंबयं ॥ १६ ॥” इत्थं गायन प्रतिदिन-ममन्दामोदमेदुरः ॥ पशुपालः सुखं काल-मतिवाहयति स्म सः ॥ १७ ॥ यथायमर्थेन विना वटस्य, पत्राणि विव्याध दृशौ तु सार्थम् ॥ अन्योपि जन्तुर्वितनोति दण्डा-रम्भं तथा सार्थमनर्थकञ्च ॥ १८ ॥ इति पशुपालकथा ॥ दण्डमारभत इत्युक्तं, न चासौ दण्डारम्भमात्रेणावतिष्ठते, किन्तु "भृअग्गामंति" भूताः प्राणिनस्तेषां ग्रामः समूहस्तं विविधैः प्रकारैर्हिनस्ति व्यापादयति, अनेन दण्डत्रयव्यापार उक्त इति सूत्रार्थः ॥ ८॥ किमयमेतावदेव करोतीत्याहमूलम्-हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेअंति मन्नइ ॥९॥ __ व्याख्या-हिंस्रो हिंसनशीलः सन् , बालो मूढो, मृषावादी मिथ्याभाषणशीलः, 'माइलेति' माया परवञ्चनोपायचिन्तनं तद्वान् , पिशुनः परदोषप्रकाशकः, शठो वेषविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति, मण्डिकचौरवत् । अत एव च भुआनः, सुरां मद्यं, मांसं च, श्रेयोऽतिप्रशस्यमेतदिति मन्यते, उपलक्षणत्वाद्भापते च। “न मांसभक्षणे दोषो, न मद्य न च मैथुने" इत्यादीति सूत्रार्थः ॥ ९॥ तथामुलम्-कायसा वयसा मत्ते, वित्ते गिद्धे अ इत्थिसु । दुहओ मल संचिणइ, सिसुणागुव महि ॥१०॥
व्याख्या-'कायसत्ति' सूत्रत्वात्कायेन, वचसा वचनेन, उपलक्षणत्वान्मनसा च, मत्तो दृसः । तत्र कायेन मत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान् , यद्वा अहो ! अहं बलवान् रूपांश्चेति चिन्तयन् , वचसा खगुणान् ख्यापयन् अहो ! अहं सुखर इति वा ध्यायन् , मनसा च मदाध्मातचेताः, अहो ! अहमवधारणशक्तिमानिति वा मन्यमानो वित्ते धने गृद्धो गृद्धिमान् । चशब्दो भिन्नक्रमः, ततः स्त्रीषु च गृद्धः । तत्र वित्ते गृद्ध इत्यनेन अदत्तादानग्रहणम् तद्भावभावित्वात्तस्य । तथा खीपु गृद्ध इत्यनेन तु मेथुनासेवित्वमुक्तं, स हि स्त्रियः संसारसारभूता मन्यते वक्ति च । "सत्यं वच्मि हितं वच्मि, सारं पच्मि पुनः पुनः ॥ अस्मिन्नसारे संसारे, सारं सारालोचना ॥१॥" तदासक्तश्च मैथुन सेवत एवेति । ततः स किं कुर्यादित्याह-'दुहओत्ति' द्विधा रागद्वेषाभ्यां मलमष्टप्रकारं कर्म सञ्चिनोति बभाति, क इव किमित्याह-शिशुनाग इवालस इव मृत्तिका, स हि स्निग्धतनुतया बहीरजोभिरवगुण्ड्यते, तामेव चाश्नातीति बहिरन्तश्च मलमुपचिनोति, ततश्च खरतरदिनकरकरनिकरस्पर्शतः शुष्यनिहैव क्लिश्यते । तथायमप्युपचितकर्मवशादिहैव जन्मनि क्लिश्यते विनश्यति चेति सूत्रार्थः ॥ १०॥ इदमेव स्पष्टयतिमूलम्-तओ पुट्ठो आयंकेण, गिलाणो परितप्पइ । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ॥११॥
व्याख्या-'तओत्ति' स एवैकः ततो वा दण्डारम्भाधुपार्जितमलादनुस्पृष्टोऽभिभूतः, केन ? आतङ्केन आशुघातिना शूलविशुचिकादिरोगेण ग्लानो मन्दः परितप्यते, बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षण त्रस्तः 'परलोगस्सत्ति' परलोकात्, आषेत्वात्पञ्चम्यर्थे षष्ठी, कुत एवं यतः कर्म क्रियां अनुप्रेक्षते इत्येवंशीलः कमानुप्रेक्षी, कस्य? आत्मनः. स हि हिंसादिकां खचेष्टां स्मरन्मया न किञ्चिच्छुभमाचरितं ! किन्तु सदैवाजरामरवचेष्टितमिति घ्यायन् मनसि रोगेण वपुषि च खिद्यते । भवति हि विषयलोलुपमनसोपि प्रायः प्राणत्यागसमयेऽनुतापः ! यदुक्तं-“भवित्री भावानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् ॥ पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥ १॥” इति सूत्रार्थः ॥ ११ ॥ एतदेव व्यक्तीकरोतिमूलम्-सुआ से नरए ठाणा, असीलाणंच जा गई ॥ बालाणं कूरकम्माणं, पगाढा जत्थ वेअणा।१२॥ ___ व्यख्या-श्रुतानि 'मे' मया नरके स्थानानि कुम्भीवैतरण्यसिपत्रवनादीनि, तत्किमियतापि परितप्यत इत्याहअशीलानां च दुराचाराणां या गतिर्नरकादिका सापि श्रुता, कीदृशीत्साह-बालानामज्ञानां क्रूरकर्मणां हिंसादिरौद्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र यस्यां गतौ वेदनाः शीतोष्णाद्याः । ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः ॥ १२ ॥ किञ्चमूलम्-तत्थोववाइअं ठाणं, जहा मे तमणुस्सुअं॥ अहा कम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ॥१३॥ व्याख्या-तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थितिः यथा येन प्रकारेण स्यादिति शेषः, मे मया तदि