________________
उत्तराप्ययनसूत्रम्
॥१०५॥ थिमिर्द्विधापि, श्रयणीयः प्रतिवुद्धजीविभावः ॥ ३३४ ॥ इति द्रव्यभावनिद्रात्यागेऽगडदत्तसाधुकथा ।
प्रतिबुद्धजीवी सन् किं कुर्यादित्याह-'न वीससे' इत्यादि-न विश्वस्यात्प्रमादेष्विति गम्यते, अयं भावः-बहुजनारतवात् प्रमादा नानर्थकारिण इति विश्रम्भवान्न भवेत् ,पण्डितो विद्वान्। आशु शीघ्रमुचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः, कुतश्चायमाशुप्रज्ञो ? यतो घोरा रौद्राः सततमपि प्राणापहारिणो मुहूर्ताः कालविशेषा दिवसाधुपलक्षणं चैते, कदाचिच्छारीरबलात् घोरा अप्यमी न प्रभविष्यन्तीत्यत आह-अबलं बलरहितं मृत्युदायिनो मुहूर्तानिराकर्तुं विसोढुं वा असमर्थ शरीरं वपुः, उक्तश्च-"सत्थगीजलसावय-वीसूइआवाहिअहिविसाईहिं ॥ जजरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ॥ १॥ जं ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं ॥ जरडाइणिआवासं, का कीरउ तत्थ दीहासा ! ॥२॥" तर्हि किं कार्यमित्याह-भारुण्डपक्षीव चराऽप्रमत्तः, यथा भारुण्डपक्षी अप्रमत्तश्चरति, तथा त्वमपि प्रमादरहितश्चर, विहितानुष्ठानमासेवख, अन्यथा तु यथा भारुण्डपक्षिणः पक्ष्यन्तरेण सह साधारणस्य मध्यवर्तिचरणस्य सम्भवात्स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः, उक्तञ्च-"एकोदराः पृथग्ग्रीवा, अन्यान्यफलकाक्षिणः ॥प्रमत्ता हि विनश्यन्ति, भारुण्डा इव पक्षिणः ॥१॥" तथा तवापि प्रमाद्यतः संयमजीविताझंश एवेति सूत्रार्थः ॥ ६ ॥ अमुमेवार्थ स्पष्टयन्नाहमुलम्- चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्नमाणो ॥
लाभंतरे जीविअ वूहइत्ता, पच्छा परिणाय मलावधंसी ॥७॥ व्याख्या-चरेद्गच्छेन्मुनिरिति शेषः, पदानि पादनिक्षेपरूपाणि परिशङ्कमानः, मा मे संयमविराधना भूयादिति परिभावयन् तथा 'जं किंचित्ति' यत्किञ्चिदुश्चिन्तिताद्यपि प्रमादपदं पाशमिव पाशं बन्धहेतुतया मन्यमानो जानानः, अयं भावः- यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति, यत्किञ्चिद्दवरकाद्यपि पाशं मन्यमानस्तथा साधुरप्यप्रमतश्चरेत् । ननु ? यदि परिशङ्कमानश्चरेत्तर्हि पूर्वोक्तदोषपरिहारार्थमादित एवाऽनशनं कुरुतामित्याशङ्कानिरासार्थमाहलाभान्तरे अपूर्वार्थप्रासिरूपे सति, अयं भावः-यावद्विशिष्टविशिष्टतरसम्यग्दर्शनज्ञानाद्यवासिरितः सम्भवति तावदिदं जीवितं प्राणधारणरूपं बृहयित्वा, अकालोपकमरक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा पश्चालाभविशे. पप्रासेरुत्तरकालं परिज्ञाय सर्वप्रकारैरवबुध्य यथेदं नेदानी प्राग्वद्गुणविशेषार्जनक्षम, न चातस्तादृशी निर्जरा, न च जरया व्याधिना चाभिभूतं तत्तथाविधधर्मध्यानं प्रति समर्थमिति ज्ञपरिज्ञया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलापध्वंसी कर्ममलविनाशी स्यादिति शेषः, यद्वा मलाश्रयत्वान्मल औदारिकं शरीरं, तदपध्वंसी स्यात्तन्निरपेक्षो भवेदिति भावः । ततो यथागमं प्रवर्त्तमानस्य यावल्लाभं देहधारणमपि गुणायैवेति स्थितम् । इह च यावल्लाभं देहधारणे मण्डिकदस्युरुदाहरणम् , तत्रायं वृद्धवादः । तथाहि
वेण्णातटपुरे तुन्न-कारो मण्डिकसंज्ञकः ॥ परसहरणासक्तो-ऽभवन्मायानिकेतनम् ॥ १॥ स च मे व्रणमस्तीति, जानुवद्धपटच्चरः ॥ राजमार्ग स्थितश्चक्रे, वासरे तुन्नकारताम् ॥२॥ रात्री तु धनिधामभ्यो, धनं हत्वा पुरादहिः ॥ उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ॥ ३॥ तत्र चासीत्खसा तस्य, कन्यका प्राप्तयौवना ॥ कूप
कोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः ॥४॥ यं च प्रलोभ्यानयति, स चौरो भारनाहकम् ॥ तमुपावीविशत्कूपपार्थस्थासने तत्वसा ॥ ५॥ पादशौचमिषात्पादे, धृत्वान्धौ न्यक्षिपञ्च तम् ॥ इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ॥६॥ पिशाचमिव तं धतु, पुरारक्षोपि नाशकत् ॥ पूर्वोक्तो मूलदेवाह-स्तत्र चाभून्नृपस्तदा ॥७॥ तत उद्वेजितास्तेन, राक्षसेनेव दस्युना ॥ पौराः सर्वे मूलदेव-भूपमेवं व्यजिज्ञपन् ॥ ८ ॥ स्वामिन् ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् ॥ व्रतं विनापि निर्ग्रन्थो, निर्ममे निखिलो जनः ! ॥९॥ स च ग्रहीतुं केनापि, शक्यते न महीपते ! ॥ पाहि पाहि प्रजाः सर्वा-स्तस्मादस्मादुपद्रवात् ! ॥१०॥ सद्यस्त निग्रहीष्यामी-त्युक्त्वा पौरान् विसृज्य च ॥ नृपश्चक्रेन्यमारक्षं, तं धर्तुं सोऽपि नाशकत् ! ॥ ११ ॥ ततो निशि खयं श्यामां-शुकं प्रावृत्य भूपतिः ॥ शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ! ॥ १२ ॥ प्रान्तो भूपस्ततो याव-त्सभायामखपीक्वचित ॥ कोत्रास्तीति वदंम्नाव-तत्रोपेयाय मण्डिकः ॥ १३ ॥ अहं कार्पटिकोऽस्मीति, समयज्ञोऽवदन्नृपः ॥ एहि त्वामीश्वरं कुर्वे, मण्डिकोप्येवमब्रवीत् ॥ १४ ॥ भुजिष्य इव भूजानि-स्ततो मण्डिकमन्वगात् ॥ खकार्यसिद्धयै दक्षो हि, नीचम